chevron_left द्रोण पर्व अध्याय ८७
सञ्जय़ उवाच:
अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ||
५० ख
सञ्जय़ उवाच:
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः |
५१ क
सञ्जय़ उवाच:
समेष्यामि रणे राजन्वहुभिर्युद्धदुर्मदैः ||
५१ ख
सञ्जय़ उवाच:
तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः |
५२ क
सञ्जय़ उवाच:
उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ||
५२ ख
सञ्जय़ उवाच:
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च |
५३ क
सञ्जय़ उवाच:
रथे प्रास्थापय़द्राजा शस्त्राणि विविधानि च ||
५३ ख
सञ्जय़ उवाच:
ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः |
५४ क
सञ्जय़ उवाच:
रसवत्पाय़यामासुः पानं मदसमीरिणम् ||
५४ ख
सञ्जय़ उवाच:
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान् |
५५ क
सञ्जय़ उवाच:
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ||
५५ ख
सञ्जय़ उवाच:
तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः |
५६ क
सञ्जय़ उवाच:
संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे ||
५६ ख
सञ्जय़ उवाच:
महाध्वजेन सिंहेन हेमकेसरमालिना |
५७ क
सञ्जय़ उवाच:
संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः |
५७ ख
सञ्जय़ उवाच:
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते ||
५७ ग
सञ्जय़ उवाच:
हेमदण्डोच्छ्रितच्छत्रे वहुशस्त्रपरिच्छदे |
५८ क
सञ्जय़ उवाच:
योजय़ामास विधिवद्धेमभाण्डविभूषितान् ||
५८ ख
सञ्जय़ उवाच:
दारुकस्यानुजो भ्राता सूतस्तस्य प्रिय़ः सखा |
५९ क
सञ्जय़ उवाच:
न्यवेदय़द्रथं युक्तं वासवस्येव मातलिः ||
५९ ख
सञ्जय़ उवाच:
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः |
६० क
सञ्जय़ उवाच:
स्नातकानां सहस्रस्य स्वर्णनिष्कानदापय़त् |
६० ख
सञ्जय़ उवाच:
आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ||
६० ग
सञ्जय़ उवाच:
ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु |
६१ क
सञ्जय़ उवाच:
लोहिताक्षो वभौ तत्र मदविह्वललोचनः ||
६१ ख
सञ्जय़ उवाच:
आलभ्य वीरकांस्यं च हर्षेण महतान्वितः |
६२ क
सञ्जय़ उवाच:
द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः |
६२ ख
सञ्जय़ उवाच:
उत्सङ्गे धनुरादाय़ सशरं रथिनां वरः ||
६२ ग
सञ्जय़ उवाच:
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः |
६३ क
सञ्जय़ उवाच:
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ||
६३ ख
सञ्जय़ उवाच:
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः |
६४ क
सञ्जय़ उवाच:
तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ||
६४ ख
सञ्जय़ उवाच:
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः |
६५ क
सञ्जय़ उवाच:
अजय़्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः ||
६५ ख
सञ्जय़ उवाच:
अथ हर्षपरीताङ्गः सात्यकिर्भीममव्रवीत् |
६६ क
सञ्जय़ उवाच:
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ||
६६ ख
सञ्जय़ उवाच:
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं वलम् |
६७ क
सञ्जय़ उवाच:
आय़त्यां च तदात्वे च श्रेय़ो राज्ञोऽभिरक्षणम् ||
६७ ख
सञ्जय़ उवाच:
जानीषे मम वीर्यं त्वं तव चाहमरिन्दम |
६८ क
सञ्जय़ उवाच:
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रिय़म् ||
६८ ख
सञ्जय़ उवाच:
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धय़े |
६९ क
सञ्जय़ उवाच:
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ||
६९ ख
सञ्जय़ उवाच:
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः |
७० क
सञ्जय़ उवाच:
गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजय़ो मम ||
७० ख
सञ्जय़ उवाच:
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः |
७१ क
सञ्जय़ उवाच:
निमित्तानि च धन्यानि यथा भीम वदन्ति मे ||
७१ ख
सञ्जय़ उवाच:
निहते सैन्धवे पापे पाण्डवेन महात्मना |
७२ क
सञ्जय़ उवाच:
परिष्वजिष्ये राजानं धर्मात्मानं न संशय़ः ||
७२ ख
सञ्जय़ उवाच:
एतावदुक्त्वा भीमं तु विसृज्य च महामनाः |
७३ क
सञ्जय़ उवाच:
सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ||
७३ ख
सञ्जय़ उवाच:
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप |
७४ क
सञ्जय़ उवाच:
भूय़ एवाभवन्मूढं सुभृशं चाप्यकम्पत ||
७४ ख
सञ्जय़ उवाच:
ततः प्रय़ातः सहसा सैन्यं तव स सात्यकिः |
७५ क
सञ्जय़ उवाच:
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ||
७५ ख