अष्टक उवाच:
कतरस्त्वेतय़ोः पूर्वं देवानामेति सात्म्यताम् |
१ क
अष्टक उवाच:
उभय़ोर्धावतो राजन्सूर्याचन्द्रमसोरिव ||
१ ख
यय़ातिरु उवाच:
अनिकेतो गृहस्थेषु कामवृत्तेषु संय़तः |
२ क
यय़ातिरु उवाच:
ग्राम एव वसन्भिक्षुस्तय़ोः पूर्वतरं गतः ||
२ ख
यय़ातिरु उवाच:
अप्राप्य दीर्घमाय़ुस्तु यः प्राप्तो विकृतिं चरेत् |
३ क
यय़ातिरु उवाच:
तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ||
३ ख
यय़ातिरु उवाच:
यद्वै नृशंसं तदपथ्यमाहु; र्यः सेवते धर्ममनर्थवुद्धिः |
४ क
यय़ातिरु उवाच:
अस्वोऽप्यनीशश्च तथैव राजं; स्तदार्जवं स समाधिस्तदार्यम् ||
४ ख
अष्टक उवाच:
केनासि दूतः प्रहितोऽद्य राज; न्युवा स्रग्वी दर्शनीय़ः सुवर्चाः |
५ क
अष्टक उवाच:
कुत आगतः कतरस्यां दिशि त्व; मुताहो स्वित्पार्थिवं स्थानमस्ति ||
५ ख
यय़ातिरु उवाच:
इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः |
६ क
यय़ातिरु उवाच:
उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां व्राह्मणा लोकपालाः ||
६ ख
यय़ातिरु उवाच:
सतां सकाशे तु वृतः प्रपात; स्ते सङ्गता गुणवन्तश्च सर्वे |
७ क
यय़ातिरु उवाच:
शक्राच्च लव्धो हि वरो मय़ैष; पतिष्यता भूमितले नरेन्द्र ||
७ ख
अष्टक उवाच:
पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र |
८ क
अष्टक उवाच:
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||
८ ख
यय़ातिरु उवाच:
यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च |
९ क
यय़ातिरु उवाच:
तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह ||
९ ख
अष्टक उवाच:
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति |
१० क
अष्टक उवाच:
यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रममित्रसाह ||
१० ख
यय़ातिरु उवाच:
नास्मद्विधोऽव्राह्मणो व्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य |
११ क
यय़ातिरु उवाच:
यथा प्रदेय़ं सततं द्विजेभ्य; स्तथाददं पूर्वमहं नरेन्द्र ||
११ ख
यय़ातिरु उवाच:
नाव्राह्मणः कृपणो जातु जीवे; द्या चापि स्याद्व्राह्मणी वीरपत्नी |
१२ क
यय़ातिरु उवाच:
सोऽहं यदैवाकृतपूर्वं चरेय़ं; विवित्समानः किमु तत्र साधु ||
१२ ख
प्रतर्दन उवाच:
पृच्छामि त्वां स्पृहणीय़रूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः |
१३ क
प्रतर्दन उवाच:
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||
१३ ख
यय़ातिरु उवाच:
सन्ति लोका वहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि |
१४ क
यय़ातिरु उवाच:
मधुच्युतो घृतपृक्ता विशोका; स्ते नान्तवन्तः प्रतिपालय़न्ति ||
१४ ख
प्रतर्दन उवाच:
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु |
१५ क
प्रतर्दन उवाच:
यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रमपेतमोहः ||
१५ ख
यय़ातिरु उवाच:
न तुल्यतेजाः सुकृतं कामय़ेत; योगक्षेमं पार्थिव पार्थिवः सन् |
१६ क
यय़ातिरु उवाच:
दैवादेशादापदं प्राप्य विद्वां; श्चरेन्नृशंसं न हि जातु राजा ||
१६ ख
यय़ातिरु उवाच:
धर्म्यं मार्गं चेतय़ानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः |
१७ क
यय़ातिरु उवाच:
न मद्विधो धर्मवुद्धिः प्रजान; न्कुर्यादेवं कृपणं मां यथात्थ ||
१७ ख
यय़ातिरु उवाच:
कुर्यामपूर्वं न कृतं यदन्यै; र्विवित्समानः किमु तत्र साधु |
१८ क
यय़ातिरु उवाच:
व्रुवाणमेवं नृपतिं यय़ातिं; नृपोत्तमो वसुमनाव्रवीत्तम् ||
१८ ख