युधिष्ठिर उवाच:
कथंविधं पुरं राजा स्वय़मावस्तुमर्हति |
१ क
युधिष्ठिर उवाच:
कृतं वा कारय़ित्वा वा तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
यत्र कौन्तेय़ वस्तव्यं सपुत्रभ्रातृवन्धुना |
२ क
भीष्म उवाच:
न्याय़्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत ||
२ ख
भीष्म उवाच:
तस्मात्ते वर्तय़िष्यामि दुर्गकर्म विशेषतः |
३ क
भीष्म उवाच:
श्रुत्वा तथा विधातव्यमनुष्ठेय़ं च यत्नतः ||
३ ख
भीष्म उवाच:
षड्विधं दुर्गमास्थाय़ पुराण्यथ निवेशय़ेत् |
४ क
भीष्म उवाच:
सर्वसम्पत्प्रधानं यद्वाहुल्यं वापि सम्भवेत् ||
४ ख
भीष्म उवाच:
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च |
५ क
भीष्म उवाच:
मनुष्यदुर्गमव्दुर्गं वनदुर्गं च तानि षट् ||
५ ख
भीष्म उवाच:
यत्पुरं दुर्गसम्पन्नं धान्याय़ुधसमन्वितम् |
६ क
भीष्म उवाच:
दृढप्राकारपरिखं हस्त्यश्वरथसङ्कुलम् ||
६ ख
भीष्म उवाच:
विद्वांसः शिल्पिनो यत्र निचय़ाश्च सुसञ्चिताः |
७ क
भीष्म उवाच:
धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः ||
७ ख
भीष्म उवाच:
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् |
८ क
भीष्म उवाच:
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभय़म् ||
८ ख
भीष्म उवाच:
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् |
९ क
भीष्म उवाच:
शूराढ्यजनसम्पन्नं व्रह्मघोषानुनादितम् ||
९ ख
भीष्म उवाच:
समाजोत्सवसम्पन्नं सदापूजितदैवतम् |
१० क
भीष्म उवाच:
वश्यामात्यवलो राजा तत्पुरं स्वय़मावसेत् ||
१० ख
भीष्म उवाच:
तत्र कोशं वलं मित्रं व्यवहारं च वर्धय़ेत् |
११ क
भीष्म उवाच:
पुरे जनपदे चैव सर्वदोषान्निवर्तय़ेत् ||
११ ख
भीष्म उवाच:
भाण्डागाराय़ुधागारं प्रय़त्नेनाभिवर्धय़ेत् |
१२ क
भीष्म उवाच:
निचय़ान्वर्धय़ेत्सर्वांस्तथा यन्त्रगदागदान् ||
१२ ख
भीष्म उवाच:
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् |
१३ क
भीष्म उवाच:
मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ||
१३ ख
भीष्म उवाच:
शणं सर्जरसं धान्यमाय़ुधानि शरांस्तथा |
१४ क
भीष्म उवाच:
चर्म स्नाय़ु तथा वेत्रं मुञ्जवल्वजधन्वनान् ||
१४ ख
भीष्म उवाच:
आशय़ाश्चोदपानाश्च प्रभूतसलिला वराः |
१५ क
भीष्म उवाच:
निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः ||
१५ ख
भीष्म उवाच:
सत्कृताश्च प्रय़त्नेन आचार्यर्त्विक्पुरोहिताः |
१६ क
भीष्म उवाच:
महेष्वासाः स्थपतय़ः सांवत्सरचिकित्सकाः ||
१६ ख
भीष्म उवाच:
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा वहुश्रुताः |
१७ क
भीष्म उवाच:
कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु ||
१७ ख
भीष्म उवाच:
पूजय़ेद्धार्मिकान्राजा निगृह्णीय़ादधार्मिकान् |
१८ क
भीष्म उवाच:
निय़ुञ्ज्याच्च प्रय़त्नेन सर्ववर्णान्स्वकर्मसु ||
१८ ख
भीष्म उवाच:
वाह्यमाभ्यन्तरं चैव पौरजानपदं जनम् |
१९ क
भीष्म उवाच:
चारैः सुविदितं कृत्वा ततः कर्म प्रय़ोजय़ेत् ||
१९ ख
भीष्म उवाच:
चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतः |
२० क
भीष्म उवाच:
अनुतिष्ठेत्स्वय़ं राजा सर्वं ह्यत्र प्रतिष्ठितम् ||
२० ख
भीष्म उवाच:
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् |
२१ क
भीष्म उवाच:
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा ||
२१ ख
भीष्म उवाच:
ततस्तथा विधातव्यं सर्वमेवाप्रमादतः |
२२ क
भीष्म उवाच:
भक्तान्पुजय़ता नित्यं द्विषतश्च निगृह्णता ||
२२ ख
भीष्म उवाच:
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडय़ा |
२३ क
भीष्म उवाच:
प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् ||
२३ ख
भीष्म उवाच:
कृपणानाथवृद्धानां विधवानां च योषिताम् |
२४ क
भीष्म उवाच:
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पय़ेत् ||
२४ ख
भीष्म उवाच:
आश्रमेषु यथाकालं चेलभाजनभोजनम् |
२५ क
भीष्म उवाच:
सदैवोपहरेद्राजा सत्कृत्यानवमन्य च ||
२५ ख
भीष्म उवाच:
आत्मानं सर्वकार्याणि तापसे राज्यमेव च |
२६ क
भीष्म उवाच:
निवेदय़ेत्प्रय़त्नेन तिष्ठेत्प्रह्वश्च सर्वदा ||
२६ ख
भीष्म उवाच:
सर्वार्थत्यागिनं राजा कुले जातं वहुश्रुतम् |
२७ क
भीष्म उवाच:
पूजय़ेत्तादृशं दृष्ट्वा शय़नासनभोजनैः ||
२७ ख
भीष्म उवाच:
तस्मिन्कुर्वीत विश्वासं राजा कस्याञ्चिदापदि |
२८ क
भीष्म उवाच:
तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ||
२८ ख
भीष्म उवाच:
तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च |
२९ क
भीष्म उवाच:
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजय़ेत् ||
२९ ख
भीष्म उवाच:
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः |
३० क
भीष्म उवाच:
अटवीष्वपरः कार्यः सामन्तनगरेषु च ||
३० ख
भीष्म उवाच:
तेषु सत्कारसंस्कारान्संविभागांश्च कारय़ेत् |
३१ क
भीष्म उवाच:
परराष्ट्राटवीस्थेषु यथा स्वविषय़े तथा ||
३१ ख
भीष्म उवाच:
ते कस्याञ्चिदवस्थाय़ां शरणं शरणार्थिने |
३२ क
भीष्म उवाच:
राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः ||
३२ ख
भीष्म उवाच:
एष ते लक्षणोद्देशः सङ्क्षेपेण प्रकीर्तितः |
३३ क
भीष्म उवाच:
यादृशं नगरं राजा स्वय़मावस्तुमर्हति ||
३३ ख