chevron_left अनुशासन पर्व अध्याय ८७
युधिष्ठिर उवाच:
चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वय़ानघ |
१ क
युधिष्ठिर उवाच:
तथैव मे श्राद्धविधिं कृत्स्नं प्रव्रूहि पार्थिव ||
१ ख
वैशम्पाय़न उवाच:
युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा |
२ क
वैशम्पाय़न उवाच:
इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे ||
२ ख
भीष्म उवाच:
शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम् |
३ क
भीष्म उवाच:
धन्यं यशस्यं पुत्रीय़ं पितृय़ज्ञं परन्तप ||
३ ख
भीष्म उवाच:
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् |
४ क
भीष्म उवाच:
पिशाचकिंनराणां च पूज्या वै पितरः सदा ||
४ ख
भीष्म उवाच:
पितॄन्पूज्यादितः पश्चाद्देवान्सन्तर्पय़न्ति वै |
५ क
भीष्म उवाच:
तस्मात्सर्वप्रय़त्नेन पुरुषः पूजय़ेत्सदा ||
५ ख
भीष्म उवाच:
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते |
६ क
भीष्म उवाच:
तच्चामिषेण विधिना विधिः प्रथमकल्पितः ||
६ ख
भीष्म उवाच:
सर्वेष्वहःसु प्रीय़न्ते कृतैः श्राद्धैः पितामहाः |
७ क
भीष्म उवाच:
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान् ||
७ ख
भीष्म उवाच:
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ |
८ क
भीष्म उवाच:
तत्सर्वं कीर्तय़िष्यामि यथावत्तन्निवोध मे ||
८ ख
भीष्म उवाच:
पितॄनर्च्य प्रतिपदि प्राप्नुय़ात्स्वगृहे स्त्रिय़ः |
९ क
भीष्म उवाच:
अभिरूपप्रजाय़िन्यो दर्शनीय़ा वहुप्रजाः ||
९ ख
भीष्म उवाच:
स्त्रिय़ो द्वितीय़ां जाय़न्ते तृतीय़ाय़ां तु वन्दिनः |
१० क
भीष्म उवाच:
चतुर्थ्यां क्षुद्रपशवो भवन्ति वहवो गृहे ||
१० ख
भीष्म उवाच:
पञ्चम्यां वहवः पुत्रा जाय़न्ते कुर्वतां नृप |
११ क
भीष्म उवाच:
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ||
११ ख
भीष्म उवाच:
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप |
१२ क
भीष्म उवाच:
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुय़ात् ||
१२ ख
भीष्म उवाच:
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं वहु |
१३ क
भीष्म उवाच:
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः ||
१३ ख
भीष्म उवाच:
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप |
१४ क
भीष्म उवाच:
व्रह्मवर्चस्विनः पुत्रा जाय़न्ते तस्य वेश्मनि ||
१४ ख
भीष्म उवाच:
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते |
१५ क
भीष्म उवाच:
रजतं वहु चित्रं च सुवर्णं च मनोरमम् ||
१५ ख
भीष्म उवाच:
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रय़ोदशीम् |
१६ क
भीष्म उवाच:
अवश्यं तु युवानोऽस्य प्रमीय़न्ते नरा गृहे ||
१६ ख
भीष्म उवाच:
युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम् |
१७ क
भीष्म उवाच:
अमावास्यां तु निवपन्सर्वान्कामानवाप्नुय़ात् ||
१७ ख
भीष्म उवाच:
कृष्णपक्षे दशम्यादौ वर्जय़ित्वा चतुर्दशीम् |
१८ क
भीष्म उवाच:
श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः ||
१८ ख
भीष्म उवाच:
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते |
१९ क
भीष्म उवाच:
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ||
१९ ख