सञ्जय़ उवाच:
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः |
५० ख
सञ्जय़ उवाच:
वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम् ||
५० ग
सञ्जय़ उवाच:
सजीवांश्च नरान्पश्य कूजमानान्समन्ततः |
५१ क
सञ्जय़ उवाच:
उपास्यमानान्वहुभिर्न्यस्तशस्त्रैर्विशां पते ||
५१ ख
सञ्जय़ उवाच:
ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः |
५२ क
सञ्जय़ उवाच:
व्युत्क्रान्तानपरान्योधांश्छादय़ित्वा तरस्विनः |
५२ ख
सञ्जय़ उवाच:
पुनर्युद्धाय़ गच्छन्ति जय़गृद्धाः प्रमन्यवः ||
५२ ग
सञ्जय़ उवाच:
अपरे तत्र तत्रैव परिधावन्ति मानिनः |
५३ क
सञ्जय़ उवाच:
ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम् ||
५३ ख
सञ्जय़ उवाच:
जलार्थं च गताः केचिन्निष्प्राणा वहवोऽर्जुन |
५४ क
सञ्जय़ उवाच:
संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः ||
५४ ख
सञ्जय़ उवाच:
जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् |
५५ क
सञ्जय़ उवाच:
जलं पीत्वा मृतान्पश्य पिवतोऽन्यांश्च भारत ||
५५ ख
सञ्जय़ उवाच:
परित्यज्य प्रिय़ानन्ये वान्धवान्वान्धवप्रिय़ |
५६ क
सञ्जय़ उवाच:
व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ||
५६ ख
सञ्जय़ उवाच:
पश्यापरान्नरश्रेष्ठ सन्दष्टौष्ठपुटान्पुनः |
५७ क
सञ्जय़ उवाच:
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः ||
५७ ख
सञ्जय़ उवाच:
एतत्तवैवानुरूपं कर्मार्जुन महाहवे |
५८ क
सञ्जय़ उवाच:
दिवि वा देवराजस्य त्वय़ा यत्कृतमाहवे ||
५८ ख
सञ्जय़ उवाच:
एवं तां दर्शय़न्कृष्णो युद्धभूमिं किरीटिने |
५९ क
सञ्जय़ उवाच:
गच्छन्नेवाशृणोच्छव्दं दुर्योधनवले महत् ||
५९ ख
सञ्जय़ उवाच:
शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान् |
६० क
सञ्जय़ उवाच:
रथाश्वगजनादांश्च शस्त्रशव्दांश्च दारुणान् ||
६० ख
सञ्जय़ उवाच:
प्रविश्य तद्वलं कृष्णस्तुरगैर्वातवेगिभिः |
६१ क
सञ्जय़ उवाच:
पाण्ड्येनाभ्यर्दितां सेनां त्वदीय़ां वीक्ष्य धिष्ठितः ||
६१ ख
सञ्जय़ उवाच:
स हि नानाविधैर्वाणैरिष्वासप्रवरो युधि |
६२ क
सञ्जय़ उवाच:
न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा ||
६२ ख
सञ्जय़ उवाच:
गजवाजिमनुष्याणां शरीराणि शितैः शरैः |
६३ क
सञ्जय़ उवाच:
भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः ||
६३ ख
सञ्जय़ उवाच:
शत्रुप्रवीरैरस्तानि नानाशस्त्राणि साय़कैः |
६४ क
सञ्जय़ उवाच:
भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान् ||
६४ ख