chevron_left आदि पर्व अध्याय ८८
वसुमना उवाच:
पृच्छामि त्वां वसुमना रौशदश्वि; र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र |
१ क
वसुमना उवाच:
यद्यन्तरिक्षे प्रथितो महात्म; न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||
१ ख
यय़ातिरु उवाच:
यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च |
२ क
यय़ातिरु उवाच:
लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालय़न्ति ||
२ ख
वसुमना उवाच:
तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु |
३ क
वसुमना उवाच:
क्रीणीष्वैनांस्तृणकेनापि राज; न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ||
३ ख
यय़ातिरु उवाच:
न मिथ्याहं विक्रय़ं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः |
४ क
यय़ातिरु उवाच:
कुर्यां न चैवाकृतपूर्वमन्यै; र्विवित्समानः किमु तत्र साधु ||
४ ख
वसुमना उवाच:
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मय़ा दत्तान्यदि नेष्टः क्रय़स्ते |
५ क
वसुमना उवाच:
अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु ||
५ ख
शिविरु उवाच:
पृच्छामि त्वां शिविरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात |
६ क
शिविरु उवाच:
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||
६ ख
यय़ातिरु उवाच:
न त्वं वाचा हृदय़ेनापि विद्व; न्परीप्समानान्नावमंस्था नरेन्द्र |
७ क
यय़ातिरु उवाच:
तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः ||
७ ख
शिविरु उवाच:
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मय़ा दत्तान्यदि नेष्टः क्रय़स्ते |
८ क
शिविरु उवाच:
न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् ||
८ ख
यय़ातिरु उवाच:
यथा त्वमिन्द्रप्रतिमप्रभाव; स्ते चाप्यनन्ता नरदेव लोकाः |
९ क
यय़ातिरु उवाच:
तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिवे नाभिनन्दामि दाय़म् ||
९ ख
अष्टक उवाच:
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि |
१० क
अष्टक उवाच:
सर्वे प्रदाय़ भवते गन्तारो नरकं वय़म् ||
१० ख
यय़ातिरु उवाच:
यदर्हाय़ ददध्वं तत्सन्तः सत्यानृशंस्यतः |
११ क
यय़ातिरु उवाच:
अहं तु नाभिधृष्णोमि यत्कृतं न मय़ा पुरा ||
११ ख
अष्टक उवाच:
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मय़ाः |
१२ क
अष्टक उवाच:
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ||
१२ ख
यय़ातिरु उवाच:
युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मय़ाः |
१३ क
यय़ातिरु उवाच:
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ||
१३ ख
अष्टक उवाच:
आतिष्ठस्व रथं राजन्विक्रमस्व विहाय़सा |
१४ क
अष्टक उवाच:
वय़मप्यनुय़ास्यामो यदा कालो भविष्यति ||
१४ ख
यय़ातिरु उवाच:
सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वय़म् |
१५ क
यय़ातिरु उवाच:
एष नो विरजाः पन्था दृश्यते देवसद्मनः ||
१५ ख
वैशम्पाय़न उवाच:
तेऽधिरुह्य रथान्सर्वे प्रय़ाता नृपसत्तमाः |
१६ क
वैशम्पाय़न उवाच:
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ||
१६ ख
अष्टक उवाच:
अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा |
१७ क
अष्टक उवाच:
कस्मादेवं शिविरौशीनरोऽय़; मेकोऽत्यगात्सर्ववेगेन वाहान् ||
१७ ख
यय़ातिरु उवाच:
अददाद्देवय़ानाय़ यावद्वित्तमविन्दत |
१८ क
यय़ातिरु उवाच:
उशीनरस्य पुत्रोऽय़ं तस्माच्छ्रेष्ठो हि नः शिविः ||
१८ ख
यय़ातिरु उवाच:
दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा |
१९ क
यय़ातिरु उवाच:
राजन्नेतान्यप्रतिमस्य राज्ञः; शिवेः स्थितान्यनृशंसस्य वुद्ध्या |
१९ ख
यय़ातिरु उवाच:
एवंवृत्तो ह्रीनिषेधश्च यस्मा; त्तस्माच्छिविरत्यगाद्वै रथेन ||
१९ ग
वैशम्पाय़न उवाच:
अथाष्टकः पुनरेवान्वपृच्छ; न्मातामहं कौतुकादिन्द्रकल्पम् |
२० क
वैशम्पाय़न उवाच:
पृच्छामि त्वां नृपते व्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य |
२० ख
वैशम्पाय़न उवाच:
कृतं त्वय़ा यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रिय़ो व्राह्मणो वा ||
२० ग
यय़ातिरु उवाच:
यय़ातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् |
२१ क
यय़ातिरु उवाच:
गुह्यमर्थं मामकेभ्यो व्रवीमि; मातामहोऽहं भवतां प्रकाशः ||
२१ ख
यय़ातिरु उवाच:
सर्वामिमां पृथिवीं निर्जिगाय़; प्रस्थे वद्ध्वा ह्यददं व्राह्मणेभ्यः |
२२ क
यय़ातिरु उवाच:
मेध्यानश्वानेकशफान्सुरूपां; स्तदा देवाः पुण्यभाजो भवन्ति ||
२२ ख
यय़ातिरु उवाच:
अदामहं पृथिवीं व्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य |
२३ क
यय़ातिरु उवाच:
गोभिः सुवर्णेन धनैश्च मुख्यै; स्तत्रासन्गाः शतमर्वुदानि ||
२३ ख
यय़ातिरु उवाच:
सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु |
२४ क
यय़ातिरु उवाच:
न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजय़न्ति |
२४ ख
यय़ातिरु उवाच:
सर्वे च देवा मुनय़श्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ||
२४ ग
यय़ातिरु उवाच:
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदय़ेत् |
२५ क
यय़ातिरु उवाच:
अनसूय़ुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ||
२५ ख
वैशम्पाय़न उवाच:
एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः |
२६ क
वैशम्पाय़न उवाच:
त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ||
२६ ख