chevron_left शान्ति पर्व अध्याय ८८
युधिष्ठिर उवाच:
राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव च सङ्ग्रहम् |
१ क
युधिष्ठिर उवाच:
सम्यग्जिज्ञासमानाय़ प्रव्रूहि भरतर्षभ ||
१ ख
भीष्म उवाच:
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च सङ्ग्रहम् |
२ क
भीष्म उवाच:
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ||
२ ख
भीष्म उवाच:
ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः |
३ क
भीष्म उवाच:
द्विगुणाय़ाः शतस्यैवं सहस्रस्य च कारय़ेत् ||
३ ख
भीष्म उवाच:
ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालय़ेत् |
४ क
भीष्म उवाच:
तान्व्रूय़ाद्दशपाय़ासौ स तु विंशतिपाय़ वै ||
४ ख
भीष्म उवाच:
सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने |
५ क
भीष्म उवाच:
ग्रामाणां शतपालाय़ सर्वमेव निवेदय़ेत् ||
५ ख
भीष्म उवाच:
यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुय़ात् |
६ क
भीष्म उवाच:
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः ||
६ ख
भीष्म उवाच:
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः |
७ क
भीष्म उवाच:
महान्तं भरतश्रेष्ठ सुस्फीतजनसङ्कुलम् |
७ ख
भीष्म उवाच:
तत्र ह्यनेकमाय़त्तं राज्ञो भवति भारत ||
७ ग
भीष्म उवाच:
शाखानगरमर्हस्तु सहस्रपतिरुत्तमम् |
८ क
भीष्म उवाच:
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय़ उद्यतः ||
८ ख
भीष्म उवाच:
तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वय़म् |
९ क
भीष्म उवाच:
धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः ||
९ ख
भीष्म उवाच:
नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः |
१० क
भीष्म उवाच:
उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः |
१० ख
भीष्म उवाच:
भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वय़म् ||
१० ग
भीष्म उवाच:
विक्रय़ं क्रय़मध्वानं भक्तं च सपरिव्ययम् |
११ क
भीष्म उवाच:
योगक्षेमं च सम्प्रेक्ष्य वणिजः कारय़ेत्करान् ||
११ ख
भीष्म उवाच:
उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत् |
१२ क
भीष्म उवाच:
शिल्पप्रतिकरानेव शिल्पिनः प्रति कारय़ेत् ||
१२ ख
भीष्म उवाच:
उच्चावचकरा न्याय़्याः पूर्वराज्ञां युधिष्ठिर |
१३ क
भीष्म उवाच:
यथा यथा न हीय़ेरंस्तथा कुर्यान्महीपतिः ||
१३ ख
भीष्म उवाच:
फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पय़ेत् |
१४ क
भीष्म उवाच:
फलं कर्म च निर्हेतु न कश्चित्सम्प्रवर्तय़ेत् ||
१४ ख
भीष्म उवाच:
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ |
१५ क
भीष्म उवाच:
समवेक्ष्य तथा राज्ञा प्रणेय़ाः सततं कराः ||
१५ ख
भीष्म उवाच:
नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णय़ा |
१६ क
भीष्म उवाच:
ईहाद्वाराणि संरुध्य राजा सम्प्रीतिदर्शनः ||
१६ ख
भीष्म उवाच:
प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् |
१७ क
भीष्म उवाच:
प्रद्विष्टस्य कुतः श्रेय़ः सम्प्रिय़ो लभते प्रिय़म् ||
१७ ख
भीष्म उवाच:
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणवुद्धिना |
१८ क
भीष्म उवाच:
भृतो वत्सो जातवलः पीडां सहति भारत ||
१८ ख
भीष्म उवाच:
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर |
१९ क
भीष्म उवाच:
राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत् ||
१९ ख
भीष्म उवाच:
यो राष्ट्रमनुगृह्णाति परिगृह्य स्वय़ं नृपः |
२० क
भीष्म उवाच:
सञ्जातमुपजीवन्स लभते सुमहत्फलम् ||
२० ख
भीष्म उवाच:
आपदर्थं हि निचय़ान्राजान इह चिन्वते |
२१ क
भीष्म उवाच:
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा ||
२१ ख
भीष्म उवाच:
पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा |
२२ क
भीष्म उवाच:
यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि ||
२२ ख
भीष्म उवाच:
वाह्यं जनं भेदय़ित्वा भोक्तव्यो मध्यमः सुखम् |
२३ क
भीष्म उवाच:
एवं न सम्प्रकुप्यन्ते जनाः सुखितदुःखिताः ||
२३ ख
भीष्म उवाच:
प्रागेव तु करादानमनुभाष्य पुनः पुनः |
२४ क
भीष्म उवाच:
संनिपत्य स्वविषय़े भय़ं राष्ट्रे प्रदर्शय़ेत् ||
२४ ख
भीष्म उवाच:
इय़मापत्समुत्पन्ना परचक्रभय़ं महत् |
२५ क
भीष्म उवाच:
अपि नान्ताय़ कल्पेत वेणोरिव फलागमः ||
२५ ख
भीष्म उवाच:
अरय़ो मे समुत्थाय़ वहुभिर्दस्युभिः सह |
२६ क
भीष्म उवाच:
इदमात्मवधाय़ैव राष्ट्रमिच्छन्ति वाधितुम् ||
२६ ख
भीष्म उवाच:
अस्यामापदि घोराय़ां सम्प्राप्ते दारुणे भय़े |
२७ क
भीष्म उवाच:
परित्राणाय़ भवतां प्रार्थय़िष्ये धनानि वः ||
२७ ख
भीष्म उवाच:
प्रतिदास्ये च भवतां सर्वं चाहं भय़क्षय़े |
२८ क
भीष्म उवाच:
नारय़ः प्रतिदास्यन्ति यद्धरेय़ुर्वलादितः ||
२८ ख
भीष्म उवाच:
कलत्रमादितः कृत्वा नश्येत्स्वं स्वय़मेव हि |
२९ क
भीष्म उवाच:
अपि चेत्पुत्रदारार्थमर्थसञ्चय़ इष्यते ||
२९ ख
भीष्म उवाच:
नन्दामि वः प्रभावेन पुत्राणामिव चोदय़े |
३० क
भीष्म उवाच:
यथाशक्त्यनुगृह्णामि राष्ट्रस्यापीडय़ा च वः ||
३० ख
भीष्म उवाच:
आपत्स्वेव च वोढव्यं भवद्भिः सद्गवैरिव |
३१ क
भीष्म उवाच:
न वः प्रिय़तरं कार्यं धनं कस्याञ्चिदापदि ||
३१ ख
भीष्म उवाच:
इति वाचा मधुरय़ा श्लक्ष्णय़ा सोपचारय़ा |
३२ क
भीष्म उवाच:
स्वरश्मीनभ्यवसृजेद्युगमादाय़ कालवित् ||
३२ ख
भीष्म उवाच:
प्रचारं भृत्यभरणं व्ययं गोग्रामतो भय़म् |
३३ क
भीष्म उवाच:
योगक्षेमं च सम्प्रेक्ष्य गोमिनः कारय़ेत्करान् ||
३३ ख
भीष्म उवाच:
उपेक्षिता हि नश्येय़ुर्गोमिनोऽरण्यवासिनः |
३४ क
भीष्म उवाच:
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् ||
३४ ख
भीष्म उवाच:
सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः |
३५ क
भीष्म उवाच:
गोमिनां पार्थ कर्तव्यं संविभागाः प्रिय़ाणि च ||
३५ ख
भीष्म उवाच:
अजस्रमुपय़ोक्तव्यं फलं गोमिषु सर्वतः |
३६ क
भीष्म उवाच:
प्रभावय़ति राष्ट्रं च व्यवहारं कृषिं तथा ||
३६ ख
भीष्म उवाच:
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः |
३७ क
भीष्म उवाच:
दय़ावानप्रमत्तश्च करान्सम्प्रणय़न्मृदून् ||
३७ ख
भीष्म उवाच:
सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः |
३८ क
भीष्म उवाच:
न ह्यतः सदृशं किञ्चिद्धनमस्ति युधिष्ठिर ||
३८ ख