chevron_left आश्वमेधिक पर्व अध्याय ८८
वैशम्पाय़न उवाच:
समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् |
१ क
वैशम्पाय़न उवाच:
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
उपय़ाता नरव्याघ्रा य इमे जगदीश्वराः |
२ क
वैशम्पाय़न उवाच:
एतेषां क्रिय़तां पूजा पूजार्हा हि नरेश्वराः ||
२ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना |
३ क
वैशम्पाय़न उवाच:
भीमसेनो महातेजा यमाभ्यां सह भारत ||
३ ख
वैशम्पाय़न उवाच:
अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् |
४ क
वैशम्पाय़न उवाच:
वलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः ||
४ ख
वैशम्पाय़न उवाच:
युय़ुधानेन सहितः प्रद्युम्नेन गदेन च |
५ क
वैशम्पाय़न उवाच:
निशठेनाथ साम्वेन तथैव कृतवर्मणा ||
५ ख
वैशम्पाय़न उवाच:
तेषामपि परां पूजां चक्रे भीमो महाभुजः |
६ क
वैशम्पाय़न उवाच:
विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः ||
६ ख
वैशम्पाय़न उवाच:
युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः |
७ क
वैशम्पाय़न उवाच:
अर्जुनं कथय़ामास वहुसङ्ग्रामकर्शितम् ||
७ ख
वैशम्पाय़न उवाच:
स तं पप्रच्छ कौन्तेय़ः पुनः पुनररिन्दमम् |
८ क
वैशम्पाय़न उवाच:
धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः ||
८ ख
वैशम्पाय़न उवाच:
आगमद्द्वारकावासी ममाप्तः पुरुषो नृप |
९ क
वैशम्पाय़न उवाच:
योऽद्राक्षीत्पाण्डवश्रेष्ठं वहुसङ्ग्रामकर्शितम् ||
९ ख
वैशम्पाय़न उवाच:
समीपे च महावाहुमाचष्ट च मम प्रभो |
१० क
वैशम्पाय़न उवाच:
कुरु कार्याणि कौन्तेय़ हय़मेधार्थसिद्धय़े ||
१० ख
वैशम्पाय़न उवाच:
इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः |
११ क
वैशम्पाय़न उवाच:
दिष्ट्या स कुशली जिष्णुरुपय़ाति च माधव ||
११ ख
वैशम्पाय़न उवाच:
तव यत्सन्दिदेशासौ पाण्डवानां वलाग्रणीः |
१२ क
वैशम्पाय़न उवाच:
तदाख्यातुमिहेच्छामि भवता यदुनन्दन ||
१२ ख
वैशम्पाय़न उवाच:
इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा |
१३ क
वैशम्पाय़न उवाच:
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ||
१३ ख
वैशम्पाय़न उवाच:
इदमाह महाराज पार्थवाक्यं नरः स माम् |
१४ क
वैशम्पाय़न उवाच:
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ||
१४ ख
वैशम्पाय़न उवाच:
आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति |
१५ क
वैशम्पाय़न उवाच:
तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः ||
१५ ख
वैशम्पाय़न उवाच:
इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद |
१६ क
वैशम्पाय़न उवाच:
न तदात्ययिकं हि स्याद्यदर्घ्यानय़ने भवेत् ||
१६ ख
वैशम्पाय़न उवाच:
कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् |
१७ क
वैशम्पाय़न उवाच:
राजद्वेषाद्विनश्येय़ुर्नेमा राजन्प्रजाः पुनः ||
१७ ख
वैशम्पाय़न उवाच:
इदमन्यच्च कौन्तेय़ वचः स पुरुषोऽव्रवीत् |
१८ क
वैशम्पाय़न उवाच:
धनञ्जय़स्य नृपते तन्मे निगदतः शृणु ||
१८ ख
वैशम्पाय़न उवाच:
उपय़ास्यति यज्ञं नो मणिपूरपतिर्नृपः |
१९ क
वैशम्पाय़न उवाच:
पुत्रो मम महातेजा दय़ितो वभ्रुवाहनः ||
१९ ख
वैशम्पाय़न उवाच:
तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजय़ेत् |
२० क
वैशम्पाय़न उवाच:
स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ||
२० ख
वैशम्पाय़न उवाच:
इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः |
२१ क
वैशम्पाय़न उवाच:
अभिनन्द्यास्य तद्वाक्यमिदं वचनमव्रवीत् ||
२१ ख