सञ्जय़ उवाच:
ततस्तद्वाणवर्षं तु दुःसहं दानवैरपि |
१ क
सञ्जय़ उवाच:
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ||
१ ख
सञ्जय़ उवाच:
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः |
२ क
सञ्जय़ उवाच:
संशय़ं परमं प्राप्तः पुत्रस्ते भरतर्षभ ||
२ ख
सञ्जय़ उवाच:
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् |
३ क
सञ्जय़ उवाच:
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे |
३ ख
सञ्जय़ उवाच:
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ||
३ ग
सञ्जय़ उवाच:
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः |
४ क
सञ्जय़ उवाच:
दध्रे मतिं विनाशाय़ राज्ञः स पिशिताशनः |
४ ख
सञ्जय़ उवाच:
जग्राह च महाशक्तिं गिरीणामपि दारणीम् ||
४ ग
सञ्जय़ उवाच:
सम्प्रदीप्तां महोल्काभामशनीं मघवानिव |
५ क
सञ्जय़ उवाच:
समुद्यच्छन्महावाहुर्जिघांसुस्तनय़ं तव ||
५ ख
सञ्जय़ उवाच:
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् |
६ क
सञ्जय़ उवाच:
कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदय़त् ||
६ ख
सञ्जय़ उवाच:
स नागप्रवरेणाजौ वलिना शीघ्रगामिना |
७ क
सञ्जय़ उवाच:
यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत |
७ ख
सञ्जय़ उवाच:
रथं च वारय़ामास कुञ्जरेण सुतस्य ते ||
७ ग
सञ्जय़ उवाच:
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता |
८ क
सञ्जय़ उवाच:
घटोत्कचो महाराज क्रोधसंरक्तलोचनः |
८ ख
सञ्जय़ उवाच:
उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ||
८ ग
सञ्जय़ उवाच:
स तय़ाभिहतो राजंस्तेन वाहुविमुक्तय़ा |
९ क
सञ्जय़ उवाच:
सञ्जातरुधिरोत्पीडः पपात च ममार च ||
९ ख
सञ्जय़ उवाच:
पतत्यथ गजे चापि वङ्गानामीश्वरो वली |
१० क
सञ्जय़ उवाच:
जवेन समभिद्रुत्य जगाम धरणीतलम् ||
१० ख
सञ्जय़ उवाच:
दुर्योधनोऽपि सम्प्रेक्ष्य पातितं वरवारणम् |
११ क
सञ्जय़ उवाच:
प्रभग्नं च वलं दृष्ट्वा जगाम परमां व्यथाम् ||
११ ख
सञ्जय़ उवाच:
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् |
१२ क
सञ्जय़ उवाच:
प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ||
१२ ख
सञ्जय़ उवाच:
सन्धाय़ च शितं वाणं कालाग्निसमतेजसम् |
१३ क
सञ्जय़ उवाच:
मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ||
१३ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य वाणमिन्द्राशनिप्रभम् |
१४ क
सञ्जय़ उवाच:
लाघवाद्वञ्चय़ामास महाकाय़ो घटोत्कचः ||
१४ ख
सञ्जय़ उवाच:
भूय़ एव ननादोग्रः क्रोधसंरक्तलोचनः |
१५ क
सञ्जय़ उवाच:
त्रासय़न्सर्वभूतानि युगान्ते जलदो यथा ||
१५ ख
सञ्जय़ उवाच:
तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः |
१६ क
सञ्जय़ उवाच:
आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽव्रवीत् ||
१६ ख
सञ्जय़ उवाच:
यथैष निनदो घोरः श्रूय़ते राक्षसेरितः |
१७ क
सञ्जय़ उवाच:
हैडिम्वो युध्यते नूनं राज्ञा दुर्योधनेन ह ||
१७ ख
सञ्जय़ उवाच:
नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केनचित् |
१८ क
सञ्जय़ उवाच:
तत्र गच्छत भद्रं वो राजानं परिरक्षत ||
१८ ख
सञ्जय़ उवाच:
अभिद्रुतं महाभागं राक्षसेन दुरात्मना |
१९ क
सञ्जय़ उवाच:
एतद्धि परमं कृत्यं सर्वेषां नः परन्तपाः ||
१९ ख
सञ्जय़ उवाच:
पितामहवचः श्रुत्वा त्वरमाणा महारथाः |
२० क
सञ्जय़ उवाच:
उत्तमं जवमास्थाय़ प्रय़युर्यत्र कौरवः ||
२० ख
सञ्जय़ उवाच:
द्रोणश्च सोमदत्तश्च वाह्लिकश्च जय़द्रथः |
२१ क
सञ्जय़ उवाच:
कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः ||
२१ ख
सञ्जय़ उवाच:
अश्वत्थामा विकर्णश्च आवन्त्यश्च वृहद्वलः |
२२ क
सञ्जय़ उवाच:
रथाश्चानेकसाहस्रा ये तेषामनुय़ाय़िनः |
२२ ख
सञ्जय़ उवाच:
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ||
२२ ग
सञ्जय़ उवाच:
तदनीकमनाधृष्यं पालितं लोकसत्तमैः |
२३ क
सञ्जय़ उवाच:
आतताय़िनमाय़ान्तं प्रेक्ष्य राक्षससत्तमः |
२३ ख
सञ्जय़ उवाच:
नाकम्पत महावाहुर्मैनाक इव पर्वतः ||
२३ ग
सञ्जय़ उवाच:
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः |
२४ क
सञ्जय़ उवाच:
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ||
२४ ख
सञ्जय़ उवाच:
ततः समभवद्युद्धं तुमुलं लोमहर्षणम् |
२५ क
सञ्जय़ उवाच:
राक्षसानां च मुख्यस्य दुर्योधनवलस्य च ||
२५ ख
सञ्जय़ उवाच:
धनुषां कूजतां शव्दः सर्वतस्तुमुलोऽभवत् |
२६ क
सञ्जय़ उवाच:
अश्रूय़त महाराज वंशानां दह्यतामिव ||
२६ ख
सञ्जय़ उवाच:
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् |
२७ क
सञ्जय़ उवाच:
शव्दः समभवद्राजन्नद्रीणामिव दीर्यताम् ||
२७ ख
सञ्जय़ उवाच:
वीरवाहुविसृष्टानां तोमराणां विशां पते |
२८ क
सञ्जय़ उवाच:
रूपमासीद्विय़त्स्थानां सर्पाणां सर्पतामिव ||
२८ ख
सञ्जय़ उवाच:
ततः परमसङ्क्रुद्धो विस्फार्य सुमहद्धनुः |
२९ क
सञ्जय़ उवाच:
राक्षसेन्द्रो महावाहुर्विनदन्भैरवं रवम् ||
२९ ख
सञ्जय़ उवाच:
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् |
३० क
सञ्जय़ उवाच:
सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् ||
३० ख
सञ्जय़ उवाच:
वाह्लिकं च त्रिभिर्वाणैरभ्यविध्यत्स्तनान्तरे |
३१ क
सञ्जय़ उवाच:
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ||
३१ ख
सञ्जय़ उवाच:
पूर्णाय़तविसृष्टेन सम्यक्प्रणिहितेन च |
३२ क
सञ्जय़ उवाच:
जत्रुदेशे समासाद्य विकर्णं समताडय़त् |
३२ ख
सञ्जय़ उवाच:
न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ||
३२ ग
सञ्जय़ उवाच:
ततः पुनरमेय़ात्मा नाराचान्दश पञ्च च |
३३ क
सञ्जय़ उवाच:
भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ |
३३ ख
सञ्जय़ उवाच:
ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ||
३३ ग
सञ्जय़ उवाच:
विविंशतेश्च द्रौणेश्च यन्तारौ समताडय़त् |
३४ क
सञ्जय़ उवाच:
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ||
३४ ख
सञ्जय़ उवाच:
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् |
३५ क
सञ्जय़ उवाच:
उन्ममाथ महाराज द्वितीय़ेनाच्छिनद्धनुः ||
३५ ख
सञ्जय़ उवाच:
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः |
३६ क
सञ्जय़ उवाच:
जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ||
३६ ख
सञ्जय़ उवाच:
पूर्णाय़तविसृष्टेन पीतेन निशितेन च |
३७ क
सञ्जय़ उवाच:
निर्विभेद महाराज राजपुत्रं वृहद्वलम् |
३७ ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ||
३७ ग
सञ्जय़ उवाच:
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः |
३८ क
सञ्जय़ उवाच:
चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् |
३८ ख
सञ्जय़ उवाच:
विभिदुस्ते महाराज शल्यं युद्धविशारदम् ||
३८ ग