सञ्जय़ उवाच:
प्रय़ाते तव सैन्यं तु युय़ुधाने युय़ुत्सय़ा |
१ क
सञ्जय़ उवाच:
धर्मराजो महाराज स्वेनानीकेन संवृतः |
१ ख
सञ्जय़ उवाच:
प्राय़ाद्द्रोणरथप्रेप्सुर्युय़ुधानस्य पृष्ठतः ||
१ ग
सञ्जय़ उवाच:
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः |
२ क
सञ्जय़ उवाच:
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ||
२ ख
सञ्जय़ उवाच:
आगच्छत प्रहरत द्रुतं विपरिधावत |
३ क
सञ्जय़ उवाच:
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ||
३ ख
सञ्जय़ उवाच:
महारथा हि वहवो यतिष्यन्त्यस्य निर्जय़े |
४ क
सञ्जय़ उवाच:
इति व्रुवन्तो वेगेन समापेतुर्वलं तव ||
४ ख
सञ्जय़ उवाच:
वय़ं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः |
५ क
सञ्जय़ उवाच:
ततः शव्दो महानासीद्युय़ुधानरथं प्रति ||
५ ख
सञ्जय़ उवाच:
प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी |
६ क
सञ्जय़ उवाच:
सात्वतेन महाराज शतधाभिव्यदीर्यत ||
६ ख
सञ्जय़ उवाच:
तस्यां विदीर्यमाणाय़ां शिनेः पौत्रो महारथः |
७ क
सञ्जय़ उवाच:
सप्त वीरान्महेष्वासानग्रानीके व्यपोथय़त् ||
७ ख
सञ्जय़ उवाच:
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घवाहुना |
८ क
सञ्जय़ उवाच:
आय़ोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् ||
८ ख
सञ्जय़ उवाच:
रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष |
९ क
सञ्जय़ उवाच:
चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः ||
९ ख
सञ्जय़ उवाच:
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः |
१० क
सञ्जय़ उवाच:
वाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते ||
१० ख
सञ्जय़ उवाच:
हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः |
११ क
सञ्जय़ उवाच:
ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम ||
११ ख
सञ्जय़ उवाच:
शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः |
१२ क
सञ्जय़ उवाच:
पतितैर्वृषभाक्षाणां वभौ भारत मेदिनी ||
१२ ख
सञ्जय़ उवाच:
गजैश्च वहुधा छिन्नैः शय़ानैः पर्वतोपमैः |
१३ क
सञ्जय़ उवाच:
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ||
१३ ख
सञ्जय़ उवाच:
तपनीय़मय़ैर्योक्त्रैर्मुक्ताजालविभूषितैः |
१४ क
सञ्जय़ उवाच:
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः |
१४ ख
सञ्जय़ उवाच:
गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घवाहुना ||
१४ ग
सञ्जय़ उवाच:
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः |
१५ क
सञ्जय़ उवाच:
प्रविष्टस्तावकं सैन्यं द्रावय़ित्वा चमूं भृशम् ||
१५ ख
सञ्जय़ उवाच:
ततस्तेनैव मार्गेण येन यातो धनञ्जय़ः |
१६ क
सञ्जय़ उवाच:
इय़ेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ||
१६ ख
सञ्जय़ उवाच:
भरद्वाजं समासाद्य युय़ुधानस्तु मारिष |
१७ क
सञ्जय़ उवाच:
नाभ्यवर्तत सङ्क्रुद्धो वेलामिव जलाशय़ः ||
१७ ख
सञ्जय़ उवाच:
निवार्य तु रणे द्रोणो युय़ुधानं महारथम् |
१८ क
सञ्जय़ उवाच:
विव्याध निशितैर्वाणैः पञ्चभिर्मर्मभेदिभिः ||
१८ ख
सञ्जय़ उवाच:
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः |
१९ क
सञ्जय़ उवाच:
हेमपुङ्खैः शिलाधौतैः कङ्कवर्हिणवाजितैः ||
१९ ख
सञ्जय़ उवाच:
तं षड्भिः साय़कैर्द्रोणः साश्वय़न्तारमार्दय़त् |
२० क
सञ्जय़ उवाच:
स तं न ममृषे द्रोणं युय़ुधानो महारथः ||
२० ख
सञ्जय़ उवाच:
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः |
२१ क
सञ्जय़ उवाच:
दशभिः साय़कैश्चान्यैः षड्भिरष्टाभिरेव च ||
२१ ख
सञ्जय़ उवाच:
युय़ुधानः पुनर्द्रोणं विव्याध दशभिः शरैः |
२२ क
सञ्जय़ उवाच:
एकेन सारथिं चास्य चतुर्भिश्चतुरो हय़ान् |
२२ ख
सञ्जय़ उवाच:
ध्वजमेकेन वाणेन विव्याध युधि मारिष ||
२२ ग
सञ्जय़ उवाच:
तं द्रोणः साश्वय़न्तारं सरथध्वजमाशुगैः |
२३ क
सञ्जय़ उवाच:
त्वरन्प्राच्छादय़द्वाणैः शलभानामिव व्रजैः ||
२३ ख
सञ्जय़ उवाच:
तथैव युय़ुधानोऽपि द्रोणं वहुभिराशुगैः |
२४ क
सञ्जय़ उवाच:
प्राच्छादय़दसम्भ्रान्तस्ततो द्रोण उवाच ह ||
२४ ख
सञ्जय़ उवाच:
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा |
२५ क
सञ्जय़ उवाच:
युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ||
२५ ख
सञ्जय़ उवाच:
त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव |
२६ क
सञ्जय़ उवाच:
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ||
२६ ख
सात्यकिरु उवाच:
धनञ्जय़स्य पदवीं धर्मराजस्य शासनात् |
२७ क
सात्यकिरु उवाच:
गच्छामि स्वस्ति ते व्रह्मन्न मे कालात्ययो भवेत् ||
२७ ख
सञ्जय़ उवाच:
एतावदुक्त्वा शैनेय़ आचार्यं परिवर्जय़न् |
२८ क
सञ्जय़ उवाच:
प्रय़ातः सहसा राजन्सारथिं चेदमव्रवीत् ||
२८ ख
सञ्जय़ उवाच:
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे |
२९ क
सञ्जय़ उवाच:
यत्तो याहि रणे सूत शृणु चेदं वचः परम् ||
२९ ख
सञ्जय़ उवाच:
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् |
३० क
सञ्जय़ उवाच:
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महावलम् ||
३० ख
सञ्जय़ उवाच:
तदनन्तरमेतच्च वाह्लिकानां वलं महत् |
३१ क
सञ्जय़ उवाच:
वाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्वलम् ||
३१ ख
सञ्जय़ उवाच:
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे |
३२ क
सञ्जय़ उवाच:
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ||
३२ ख
सञ्जय़ उवाच:
एतदन्तरमासाद्य चोदय़ाश्वान्प्रहृष्टवत् |
३३ क
सञ्जय़ उवाच:
मध्यमं जवमास्थाय़ वह मामत्र सारथे ||
३३ ख
सञ्जय़ उवाच:
वाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः |
३४ क
सञ्जय़ उवाच:
दाक्षिणात्याश्च वहवः सूतपुत्रपुरोगमाः ||
३४ ख
सञ्जय़ उवाच:
हस्त्यश्वरथसम्वाधं यच्चानीकं विलोक्यते |
३५ क
सञ्जय़ उवाच:
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ||
३५ ख
सञ्जय़ उवाच:
एतावदुक्त्वा यन्तारं व्रह्माणं परिवर्जय़न् |
३६ क
सञ्जय़ उवाच:
स व्यतीय़ाय़ यत्रोग्रं कर्णस्य सुमहद्वलम् ||
३६ ख
सञ्जय़ उवाच:
तं द्रोणोऽनुय़यौ क्रुद्धो विकिरन्विशिखान्वहून् |
३७ क
सञ्जय़ उवाच:
युय़ुधानं महावाहुं गच्छन्तमनिवर्तिनम् ||
३७ ख
सञ्जय़ उवाच:
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः |
३८ क
सञ्जय़ उवाच:
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ||
३८ ख
सञ्जय़ उवाच:
प्रविष्टे युय़ुधाने तु सैनिकेषु द्रुतेषु च |
३९ क
सञ्जय़ उवाच:
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारय़त् ||
३९ ख
सञ्जय़ उवाच:
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः |
४० क
सञ्जय़ उवाच:
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ||
४० ख
सञ्जय़ उवाच:
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः |
४१ क
सञ्जय़ उवाच:
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ||
४१ ख
सञ्जय़ उवाच:
स तुद्यमानो विशिखैर्वहुभिस्तिग्मतेजनैः |
४२ क
सञ्जय़ उवाच:
सात्वतेन महाराज कृतवर्मा न चक्षमे ||
४२ ख
सञ्जय़ उवाच:
स वत्सदन्तं सन्धाय़ जिह्मगानलसंनिभम् |
४३ क
सञ्जय़ उवाच:
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ||
४३ ख
सञ्जय़ उवाच:
स तस्य देहावरणं भित्त्वा देहं च साय़कः |
४४ क
सञ्जय़ उवाच:
सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः ||
४४ ख
सञ्जय़ उवाच:
अथास्य वहुभिर्वाणैरच्छिनत्परमास्त्रवित् |
४५ क
सञ्जय़ उवाच:
समार्गणगुणं राजन्कृतवर्मा शरासनम् ||
४५ ख
सञ्जय़ उवाच:
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् |
४६ क
सञ्जय़ उवाच:
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ||
४६ ख
सञ्जय़ उवाच:
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः |
४७ क
सञ्जय़ उवाच:
अभ्यहन्दक्षिणं वाहुं सात्यकिः कृतवर्मणः ||
४७ ख
सञ्जय़ उवाच:
ततोऽन्यत्सुदृढं वीरो धनुरादाय़ सात्यकिः |
४८ क
सञ्जय़ उवाच:
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ||
४८ ख
सञ्जय़ उवाच:
सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् |
४९ क