chevron_left आदि पर्व अध्याय ८९
वैशम्पाय़न उवाच:
उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः |
४६ क
वैशम्पाय़न उवाच:
एतेषामन्ववाय़े तु ख्यातास्ते कर्मजैर्गुणैः ||
४६ ख
वैशम्पाय़न उवाच:
जनमेजय़ादय़ः सप्त तथैवान्ये महावलाः |
४७ क
वैशम्पाय़न उवाच:
परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ||
४७ ख
वैशम्पाय़न उवाच:
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् |
४८ क
वैशम्पाय़न उवाच:
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ||
४८ ख
वैशम्पाय़न उवाच:
जनमेजय़स्य तनय़ा भुवि ख्याता महावलाः |
४९ क
वैशम्पाय़न उवाच:
धृतराष्ट्रः प्रथमजः पाण्डुर्वाह्लीक एव च ||
४९ ख
वैशम्पाय़न उवाच:
निषधश्च महातेजास्तथा जाम्वूनदो वली |
५० क
वैशम्पाय़न उवाच:
कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः |
५० ख
वैशम्पाय़न उवाच:
सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ||
५० ग
वैशम्पाय़न उवाच:
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः |
५१ क
वैशम्पाय़न उवाच:
हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः |
५१ ख
वैशम्पाय़न उवाच:
हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ||
५१ ग
वैशम्पाय़न उवाच:
प्रतीपस्य त्रय़ः पुत्रा जज्ञिरे भरतर्षभ |
५२ क
वैशम्पाय़न उवाच:
देवापिः शन्तनुश्चैव वाह्लीकश्च महारथः ||
५२ ख
वैशम्पाय़न उवाच:
देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सय़ा |
५३ क
वैशम्पाय़न उवाच:
शन्तनुश्च महीं लेभे वाह्लीकश्च महारथः ||
५३ ख
वैशम्पाय़न उवाच:
भरतस्यान्वय़े जाताः सत्त्ववन्तो महारथाः |
५४ क
वैशम्पाय़न उवाच:
देवर्षिकल्पा नृपते वहवो राजसत्तमाः ||
५४ ख
वैशम्पाय़न उवाच:
एवंविधाश्चाप्यपरे देवकल्पा महारथाः |
५५ क
वैशम्पाय़न उवाच:
जाता मनोरन्ववाय़े ऐलवंशविवर्धनाः ||
५५ ख