chevron_left शान्ति पर्व अध्याय ८९
युधिष्ठिर उवाच:
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते |
१ क
युधिष्ठिर उवाच:
कथं प्रवर्तेत तदा तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
यथादेशं यथाकालमपि चैव यथावलम् |
२ क
भीष्म उवाच:
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ||
२ ख
भीष्म उवाच:
यथा तासां च मन्येत श्रेय़ आत्मन एव च |
३ क
भीष्म उवाच:
तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तय़ेत् ||
३ ख
भीष्म उवाच:
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातय़ेत् |
४ क
भीष्म उवाच:
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टय़ेत् ||
४ ख
भीष्म उवाच:
जलौकावत्पिवेद्राष्ट्रं मृदुनैव नराधिप |
५ क
भीष्म उवाच:
व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति ||
५ ख
भीष्म उवाच:
अल्पेनाल्पेन देय़ेन वर्धमानं प्रदापय़ेत् |
६ क
भीष्म उवाच:
ततो भूय़स्ततो भूय़ः कामं वृद्धिं समाचरेत् ||
६ ख
भीष्म उवाच:
दमय़न्निव दम्यानां शश्वद्भारं प्रवर्धय़ेत् |
७ क
भीष्म उवाच:
मृदुपूर्वं प्रय़त्नेन पाशानभ्यवहारय़ेत् ||
७ ख
भीष्म उवाच:
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः |
८ क
भीष्म उवाच:
उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः ||
८ ख
भीष्म उवाच:
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः |
९ क
भीष्म उवाच:
यथामुख्यान्सान्त्वय़ित्वा भोक्तव्य इतरो जनः ||
९ ख
भीष्म उवाच:
ततस्तान्भेदय़ित्वाथ परस्परविवक्षितान् |
१० क
भीष्म उवाच:
भुञ्जीत सान्त्वय़ित्वैव यथासुखमय़त्नतः ||
१० ख
भीष्म उवाच:
न चास्थाने न चाकाले करानेभ्योऽनुपातय़ेत् |
११ क
भीष्म उवाच:
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ||
११ ख
भीष्म उवाच:
उपाय़ान्प्रव्रवीम्येतान्न मे माय़ा विवक्षिता |
१२ क
भीष्म उवाच:
अनुपाय़ेन दमय़न्प्रकोपय़ति वाजिनः ||
१२ ख
भीष्म उवाच:
पानागाराणि वेशाश्च वेशप्रापणिकास्तथा |
१३ क
भीष्म उवाच:
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ||
१३ ख
भीष्म उवाच:
निय़म्याः सर्व एवैते ये राष्ट्रस्योपघातकाः |
१४ क
भीष्म उवाच:
एते राष्ट्रे हि तिष्ठन्तो वाधन्ते भद्रिकाः प्रजाः ||
१४ ख
भीष्म उवाच:
न केनचिद्याचितव्यः कश्चित्किञ्चिदनापदि |
१५ क
भीष्म उवाच:
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ||
१५ ख
भीष्म उवाच:
सर्वे तथा न जीवेय़ुर्न कुर्युः कर्म चेदिह |
१६ क
भीष्म उवाच:
सर्व एव त्रय़ो लोका न भवेय़ुरसंशय़म् ||
१६ ख
भीष्म उवाच:
प्रभुर्निय़मने राजा य एतान्न निय़च्छति |
१७ क
भीष्म उवाच:
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः |
१७ ख
भीष्म उवाच:
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ||
१७ ग
भीष्म उवाच:
स्थानान्येतानि सङ्गम्य प्रसङ्गे भूतिनाशनः |
१८ क
भीष्म उवाच:
कामप्रसक्तः पुरुषः किमकार्यं विवर्जय़ेत् ||
१८ ख
भीष्म उवाच:
आपद्येव तु याचेरन्येषां नास्ति परिग्रहः |
१९ क
भीष्म उवाच:
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दय़ार्थिना ||
१९ ख
भीष्म उवाच:
मा ते राष्ट्रे याचनका मा ते भूय़ुश्च दस्यवः |
२० क
भीष्म उवाच:
इष्टादातार एवैते नैते भूतस्य भावकाः ||
२० ख
भीष्म उवाच:
ये भूतान्यनुगृह्णन्ति वर्धय़न्ति च ये प्रजाः |
२१ क
भीष्म उवाच:
ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः ||
२१ ख
भीष्म उवाच:
दण्ड्यास्ते च महाराज धनादानप्रय़ोजनाः |
२२ क
भीष्म उवाच:
प्रय़ोगं कारय़ेय़ुस्तान्यथा वलिकरांस्तथा ||
२२ ख
भीष्म उवाच:
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किञ्चिदीदृशम् |
२३ क
भीष्म उवाच:
पुरुषैः कारय़ेत्कर्म वहुभिः सह कर्मिभिः ||
२३ ख
भीष्म उवाच:
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः |
२४ क
भीष्म उवाच:
संशय़ं लभते किञ्चित्तेन राजा विगर्ह्यते ||
२४ ख
भीष्म उवाच:
धनिनः पूजय़ेन्नित्यं यानाच्छादनभोजनैः |
२५ क
भीष्म उवाच:
वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मय़ेति ह ||
२५ ख
भीष्म उवाच:
अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत |
२६ क
भीष्म उवाच:
ककुदं सर्वभूतानां धनस्थो नात्र संशय़ः ||
२६ ख
भीष्म उवाच:
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च |
२७ क
भीष्म उवाच:
तपस्वी सत्यवादी च वुद्धिमांश्चाभिरक्षति ||
२७ ख
भीष्म उवाच:
तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव |
२८ क
भीष्म उवाच:
सत्यमार्जवमक्रोधमानृशंस्यं च पालय़ ||
२८ ख
भीष्म उवाच:
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे |
२९ क
भीष्म उवाच:
सत्यार्जवपरो राजन्मित्रकोशसमन्वितः ||
२९ ख