chevron_left अनुशासन पर्व अध्याय ८९
भीष्म उवाच:
यमस्तु यानि श्राद्धानि प्रोवाच शशविन्दवे |
१ क
भीष्म उवाच:
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् ||
१ ख
भीष्म उवाच:
श्राद्धं यः कृत्तिकाय़ोगे कुर्वीत सततं नरः |
२ क
भीष्म उवाच:
अग्नीनाधाय़ सापत्यो यजेत विगतज्वरः ||
२ ख
भीष्म उवाच:
अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे |
३ क
भीष्म उवाच:
क्रूरकर्मा ददच्छ्राद्धमार्द्राय़ां मानवो भवेत् ||
३ ख
भीष्म उवाच:
कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ |
४ क
भीष्म उवाच:
पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ||
४ ख
भीष्म उवाच:
आश्लेषाय़ां ददच्छ्राद्धं वीरान्पुत्रान्प्रजाय़ते |
५ क
भीष्म उवाच:
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ||
५ ख
भीष्म उवाच:
फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् |
६ क
भीष्म उवाच:
अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् ||
६ ख
भीष्म उवाच:
चित्राय़ां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् |
७ क
भीष्म उवाच:
स्वातिय़ोगे पितॄनर्च्य वाणिज्यमुपजीवति ||
७ ख
भीष्म उवाच:
वहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः |
८ क
भीष्म उवाच:
अनुराधासु कुर्वाणो राजचक्रं प्रवर्तय़ेत् ||
८ ख
भीष्म उवाच:
आदिपत्यं व्रजेन्मर्त्यो ज्येष्ठाय़ामपवर्जय़न् |
९ क
भीष्म उवाच:
नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः ||
९ ख
भीष्म उवाच:
मूले त्वारोग्यमर्च्छेत यशोऽषाढास्वनुत्तमम् |
१० क
भीष्म उवाच:
उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् ||
१० ख
भीष्म उवाच:
श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुय़ात् |
११ क
भीष्म उवाच:
श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत्परां गतिम् ||
११ ख
भीष्म उवाच:
राज्यभागी धनिष्ठाय़ां प्राप्नुय़ान्नापदं नरः |
१२ क
भीष्म उवाच:
नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुय़ात् ||
१२ ख
भीष्म उवाच:
पूर्वप्रोष्ठपदाः कुर्वन्वहु विन्देदजाविकम् |
१३ क
भीष्म उवाच:
उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः ||
१३ ख
भीष्म उवाच:
वहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः |
१४ क
भीष्म उवाच:
अश्वांश्चाश्वय़ुजे वेत्ति भरणीष्वाय़ुरुत्तमम् ||
१४ ख
भीष्म उवाच:
इमं श्राद्धविधिं श्रुत्वा शशविन्दुस्तथाकरोत् |
१५ क
भीष्म उवाच:
अक्लेशेनाजय़च्चापि महीं सोऽनुशशास ह ||
१५ ख