chevron_left सौप्तिक पर्व अध्याय ९
सञ्जय़ उवाच:
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः |
५० क
सञ्जय़ उवाच:
सौप्तिके शिविरं तेषां हतं सनरवाहनम् ||
५० ख
सञ्जय़ उवाच:
मय़ा च पापकर्मासौ धृष्टद्युम्नो महीपते |
५१ क
सञ्जय़ उवाच:
प्रविश्य शिविरं रात्रौ पशुमारेण मारितः ||
५१ ख
सञ्जय़ उवाच:
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रिय़ाम् |
५२ क
सञ्जय़ उवाच:
प्रतिलभ्य पुनश्चेत इदं वचनमव्रवीत् ||
५२ ख
सञ्जय़ उवाच:
न मेऽकरोत्तद्गाङ्गेय़ो न कर्णो न च ते पिता |
५३ क
सञ्जय़ उवाच:
यत्त्वय़ा कृपभोजाभ्यां सहितेनाद्य मे कृतम् ||
५३ ख
सञ्जय़ उवाच:
स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना |
५४ क
सञ्जय़ उवाच:
तेन मन्ये मघवता सममात्मानमद्य वै ||
५४ ख
सञ्जय़ उवाच:
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः |
५५ क
सञ्जय़ उवाच:
इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः |
५५ ख
सञ्जय़ उवाच:
प्राणानुदसृजद्वीरः सुहृदां शोकमादधत् ||
५५ ग
सञ्जय़ उवाच:
तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम् |
५६ क
सञ्जय़ उवाच:
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ||
५६ ख
सञ्जय़ उवाच:
इत्येवं तव पुत्रस्य निशम्य करुणां गिरम् |
५७ क
सञ्जय़ उवाच:
प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति ||
५७ ख
सञ्जय़ उवाच:
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ |
५८ क
सञ्जय़ उवाच:
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ||
५८ ख
वैशम्पाय़न उवाच:
इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा |
५९ क
वैशम्पाय़न उवाच:
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ||
५९ ख