chevron_left द्रोण पर्व अध्याय ९
वैशम्पाय़न उवाच:
क्षत्रञ्जय़ः क्षत्रदेवः क्षत्रधर्मा च मानिनः |
४९ क
वैशम्पाय़न उवाच:
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारय़न् ||
४९ ख
वैशम्पाय़न उवाच:
शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णय़ः |
५० क
वैशम्पाय़न उवाच:
चेकितानं महेष्वासं कस्तं द्रोणादवारय़त् ||
५० ख
वैशम्पाय़न उवाच:
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि |
५१ क
वैशम्पाय़न उवाच:
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारय़त् ||
५१ ख
वैशम्पाय़न उवाच:
भ्रातरः पञ्च कैकेय़ा धार्मिकाः सत्यविक्रमाः |
५२ क
वैशम्पाय़न उवाच:
इन्द्रगोपकवर्णाश्च रक्तवर्माय़ुधध्वजाः ||
५२ ख
वैशम्पाय़न उवाच:
मातृष्वसुः सुता वीराः पाण्डवानां जय़ार्थिनः |
५३ क
वैशम्पाय़न उवाच:
तान्द्रोणं हन्तुमाय़ातान्के वीराः पर्यवारय़न् ||
५३ ख
वैशम्पाय़न उवाच:
यं योधय़न्तो राजानो नाजय़न्वारणावते |
५४ क
वैशम्पाय़न उवाच:
षण्मासानभिसंरव्धा जिघांसन्तो युधां पतिम् ||
५४ ख
वैशम्पाय़न उवाच:
धनुष्मतां वरं शूरं सत्यसन्धं महावलम् |
५५ क
वैशम्पाय़न उवाच:
द्रोणात्कस्तं नरव्याघ्रं युय़ुत्सुं प्रत्यवारय़त् ||
५५ ख
वैशम्पाय़न उवाच:
यः पुत्रं काशिराजस्य वाराणस्यां महारथम् |
५६ क
वैशम्पाय़न उवाच:
समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् ||
५६ ख
वैशम्पाय़न उवाच:
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् |
५७ क
वैशम्पाय़न उवाच:
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय़ च ||
५७ ख
वैशम्पाय़न उवाच:
निर्दहन्तं रणे योधान्दारय़न्तं च सर्वशः |
५८ क
वैशम्पाय़न उवाच:
द्रोणाय़ाभिमुखं यान्तं के वीराः पर्यवारय़न् ||
५८ ख
वैशम्पाय़न उवाच:
उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् |
५९ क
वैशम्पाय़न उवाच:
शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारय़न् ||
५९ ख
वैशम्पाय़न उवाच:
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टय़त् |
६० क
वैशम्पाय़न उवाच:
महता रथवंशेन मुख्यारिघ्नो महारथः ||
६० ख
वैशम्पाय़न उवाच:
दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् |
६१ क
वैशम्पाय़न उवाच:
निरर्गलान्सर्वमेधान्पुत्रवत्पालय़न्प्रजाः ||
६१ ख
वैशम्पाय़न उवाच:
पिवन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिवन् |
६२ क
वैशम्पाय़न उवाच:
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ||
६२ ख
वैशम्पाय़न उवाच:
न पूर्वे नापरे चक्रुरिदं केचन मानवाः |
६३ क
वैशम्पाय़न उवाच:
इति सञ्चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ||
६३ ख
वैशम्पाय़न उवाच:
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु |
६४ क
वैशम्पाय़न उवाच:
जातं वापि जनिष्यं वा द्वितीय़ं वापि सम्प्रति ||
६४ ख
वैशम्पाय़न उवाच:
अन्यमौशीनराच्छैव्याद्धुरो वोढारमित्युत |
६५ क
वैशम्पाय़न उवाच:
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ||
६५ ख
वैशम्पाय़न उवाच:
तस्य नप्तारमाय़ान्तं शैव्यं कः समवारय़त् |
६६ क
वैशम्पाय़न उवाच:
द्रोणाय़ाभिमुखं यान्तं व्यात्ताननमिवान्तकम् ||
६६ ख
वैशम्पाय़न उवाच:
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः |
६७ क
वैशम्पाय़न उवाच:
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारय़न् ||
६७ ख
वैशम्पाय़न उवाच:
सद्यो वृकोदराज्जातो महावलपराक्रमः |
६८ क
वैशम्पाय़न उवाच:
माय़ावी राक्षसो घोरो यस्मान्मम महद्भय़म् ||
६८ ख
वैशम्पाय़न उवाच:
पार्थानां जय़कामं तं पुत्राणां मम कण्टकम् |
६९ क
वैशम्पाय़न उवाच:
घटोत्कचं महावाहुं कस्तं द्रोणादवारय़त् ||
६९ ख
वैशम्पाय़न उवाच:
एते चान्ये च वहवो येषामर्थाय़ सञ्जय़ |
७० क
वैशम्पाय़न उवाच:
त्यक्तारः संय़ुगे प्राणान्किं तेषामजितं युधि ||
७० ख
वैशम्पाय़न उवाच:
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रय़ः |
७१ क
वैशम्पाय़न उवाच:
हितार्थी चापि पार्थानां कथं तेषां पराजय़ः ||
७१ ख
वैशम्पाय़न उवाच:
लोकानां गुरुरत्यन्तं लोकनाथः सनातनः |
७२ क
वैशम्पाय़न उवाच:
नाराय़णो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः ||
७२ ख
वैशम्पाय़न उवाच:
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः |
७३ क
वैशम्पाय़न उवाच:
तान्यहं कीर्तय़िष्यामि भक्त्या स्थैर्यार्थमात्मनः ||
७३ ख