सञ्जय़ उवाच:
कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् |
४९ क
सञ्जय़ उवाच:
प्रदुद्राव भय़ात्सेना तावकी भरतर्षभ ||
४९ ख
सञ्जय़ उवाच:
तां तु सेनां महाराज मद्रराजः प्रतापवान् |
५० क
सञ्जय़ उवाच:
अपालय़द्रणे शूरः सेनापतिररिन्दमः ||
५० ख
सञ्जय़ उवाच:
विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् |
५१ क
सञ्जय़ उवाच:
सिंहनादं भृशं कृत्वा धनुःशव्दं च दारुणम् ||
५१ ख
सञ्जय़ उवाच:
तावकाः समरे राजन्रक्षिता दृढधन्वना |
५२ क
सञ्जय़ उवाच:
प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः ||
५२ ख
सञ्जय़ उवाच:
मद्रराजं महेष्वासं परिवार्य समन्ततः |
५३ क
सञ्जय़ उवाच:
स्थिता राजन्महासेना योद्धुकामाः समन्ततः ||
५३ ख
सञ्जय़ उवाच:
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ |
५४ क
सञ्जय़ उवाच:
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिन्दमम् ||
५४ ख
सञ्जय़ उवाच:
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे |
५५ क
सञ्जय़ उवाच:
वाणशव्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः ||
५५ ख
सञ्जय़ उवाच:
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा |
५६ क
सञ्जय़ उवाच:
परिवार्य सुसंरव्धाः पुनर्युद्धमरोचय़न् ||
५६ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं भीरूणां भय़वर्धनम् |
५७ क
सञ्जय़ उवाच:
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ||
५७ ख
सञ्जय़ उवाच:
यथा देवासुरं युद्धं पूर्वमासीद्विशां पते |
५८ क
सञ्जय़ उवाच:
अभीतानां तथा राजन्यमराष्ट्रविवर्धनम् ||
५८ ख
सञ्जय़ उवाच:
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे |
५९ क
सञ्जय़ उवाच:
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ||
५९ ख
सञ्जय़ उवाच:
तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः |
६० क
सञ्जय़ उवाच:
अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान् ||
६० ख
सञ्जय़ उवाच:
पाण्डवैरवकीर्णानां संमोहः समजाय़त |
६१ क
सञ्जय़ उवाच:
न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा ||
६१ ख
सञ्जय़ उवाच:
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः |
६२ क
सञ्जय़ उवाच:
हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः |
६२ ख
सञ्जय़ उवाच:
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ||
६२ ग
सञ्जय़ उवाच:
तथैव पाण्डवी सेना शरै राजन्समन्ततः |
६३ क
सञ्जय़ उवाच:
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ||
६३ ख
सञ्जय़ उवाच:
ते सेने भृशसन्तप्ते वध्यमाने परस्परम् |
६४ क
सञ्जय़ उवाच:
व्याकुले समपद्येतां वर्षासु सरिताविव ||
६४ ख
सञ्जय़ उवाच:
आविवेश ततस्तीव्रं तावकानां महद्भय़म् |
६५ क
सञ्जय़ उवाच:
पाण्डवानां च राजेन्द्र तथाभूते महाहवे ||
६५ ख