chevron_left सौप्तिक पर्व अध्याय ९
सञ्जय़ उवाच:
ते हत्वा सर्वपाञ्चालान्द्रौपदेय़ांश्च सर्वशः |
१ क
सञ्जय़ उवाच:
अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ||
१ ख
सञ्जय़ उवाच:
गत्वा चैनमपश्यंस्ते किञ्चित्प्राणं नराधिपम् |
२ क
सञ्जय़ उवाच:
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ||
२ ख
सञ्जय़ उवाच:
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् |
३ क
सञ्जय़ उवाच:
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ||
३ ख
सञ्जय़ उवाच:
वृतं समन्ताद्वहुभिः श्वापदैर्घोरदर्शनैः |
४ क
सञ्जय़ उवाच:
शालावृकगणैश्चैव भक्षय़िष्यद्भिरन्तिकात् ||
४ ख
सञ्जय़ उवाच:
निवारय़न्तं कृच्छ्रात्ताञ्श्वापदान्सञ्चिखादिषून् |
५ क
सञ्जय़ उवाच:
विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् ||
५ ख
सञ्जय़ उवाच:
तं शय़ानं महात्मानं भूमौ स्वरुधिरोक्षितम् |
६ क
सञ्जय़ उवाच:
हतशिष्टास्त्रय़ो वीराः शोकार्ताः पर्यवारय़न् |
६ ख
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ||
६ ग
सञ्जय़ उवाच:
तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः |
७ क
सञ्जय़ उवाच:
शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः ||
७ ख
सञ्जय़ उवाच:
ते तं शय़ानं सम्प्रेक्ष्य राजानमतथोचितम् |
८ क
सञ्जय़ उवाच:
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रय़ः ||
८ ख
सञ्जय़ उवाच:
ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह |
९ क
सञ्जय़ उवाच:
रणे राज्ञः शय़ानस्य कृपणं पर्यदेवय़न् ||
९ ख
कृप उवाच:
न दैवस्यातिभारोऽस्ति यदय़ं रुधिरोक्षितः |
१० क
कृप उवाच:
एकादशचमूभर्ता शेते दुर्योधनो हतः ||
१० ख
कृप उवाच:
पश्य चामीकराभस्य चामीकरविभूषिताम् |
११ क
कृप उवाच:
गदां गदाप्रिय़स्येमां समीपे पतितां भुवि ||
११ ख
कृप उवाच:
इय़मेनं गदा शूरं न जहाति रणे रणे |
१२ क
कृप उवाच:
स्वर्गाय़ापि व्रजन्तं हि न जहाति यशस्विनम् ||
१२ ख
कृप उवाच:
पश्येमां सह वीरेण जाम्वूनदविभूषिताम् |
१३ क
कृप उवाच:
शय़ानां शय़ने धर्मे भार्यां प्रीतिमतीमिव ||
१३ ख
कृप उवाच:
यो वै मूर्धावसिक्तानामग्रे यातः परन्तपः |
१४ क
कृप उवाच:
स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् ||
१४ ख
कृप उवाच:
येनाजौ निहता भूमावशेरत पुरा द्विषः |
१५ क
कृप उवाच:
स भूमौ निहतः शेते कुरुराजः परैरय़म् ||
१५ ख
कृप उवाच:
भय़ान्नमन्ति राजानो यस्य स्म शतसङ्घशः |
१६ क
कृप उवाच:
स वीरशय़ने शेते क्रव्याद्भिः परिवारितः ||
१६ ख
कृप उवाच:
उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम् |
१७ क
कृप उवाच:
धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् ||
१७ ख
सञ्जय़ उवाच:
तं शय़ानं नृपश्रेष्ठं ततो भरतसत्तम |
१८ क
सञ्जय़ उवाच:
अश्वत्थामा समालोक्य करुणं पर्यदेवय़त् ||
१८ ख
सञ्जय़ उवाच:
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् |
१९ क
सञ्जय़ उवाच:
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य ह ||
१९ ख
सञ्जय़ उवाच:
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ |
२० क
सञ्जय़ उवाच:
वलिनः कृतिनो नित्यं स च पापात्मवान्नृप ||
२० ख
सञ्जय़ उवाच:
कालो नूनं महाराज लोकेऽस्मिन्वलवत्तरः |
२१ क
सञ्जय़ उवाच:
पश्यामो निहतं त्वां चेद्भीमसेनेन संय़ुगे ||
२१ ख
सञ्जय़ उवाच:
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः |
२२ क
सञ्जय़ उवाच:
निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः ||
२२ ख
सञ्जय़ उवाच:
धर्मय़ुद्धे ह्यधर्मेण समाहूय़ौजसा मृधे |
२३ क
सञ्जय़ उवाच:
गदय़ा भीमसेनेन निर्भिन्ने सक्थिनी तव ||
२३ ख
सञ्जय़ उवाच:
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः |
२४ क
सञ्जय़ उवाच:
यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् ||
२४ ख
सञ्जय़ उवाच:
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् |
२५ क
सञ्जय़ उवाच:
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ||
२५ ख
सञ्जय़ उवाच:
ननु रामोऽव्रवीद्राजंस्त्वां सदा यदुनन्दनः |
२६ क
सञ्जय़ उवाच:
दुर्योधनसमो नास्ति गदय़ा इति वीर्यवान् ||
२६ ख
सञ्जय़ उवाच:
श्लाघते त्वां हि वार्ष्णेय़ो राजन्संसत्सु भारत |
२७ क
सञ्जय़ उवाच:
सुशिष्यो मम कौरव्यो गदाय़ुद्ध इति प्रभो ||
२७ ख
सञ्जय़ उवाच:
यां गतिं क्षत्रिय़स्याहुः प्रशस्तां परमर्षय़ः |
२८ क
सञ्जय़ उवाच:
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ||
२८ ख
सञ्जय़ उवाच:
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ |
२९ क
सञ्जय़ उवाच:
हतपुत्रां तु शोचामि गान्धारीं पितरं च ते |
२९ ख
सञ्जय़ उवाच:
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ||
२९ ग
सञ्जय़ उवाच:
धिगस्तु कृष्णं वार्ष्णेय़मर्जुनं चापि दुर्मतिम् |
३० क
सञ्जय़ उवाच:
धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् ||
३० ख
सञ्जय़ उवाच:
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान् |
३१ क
सञ्जय़ उवाच:
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ||
३१ ख
सञ्जय़ उवाच:
धन्यस्त्वमसि गान्धारे यस्त्वमाय़ोधने हतः |
३२ क
सञ्जय़ उवाच:
प्रय़ातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ||
३२ ख
सञ्जय़ उवाच:
हतपुत्रा हि गान्धारी निहतज्ञातिवान्धवा |
३३ क
सञ्जय़ उवाच:
प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते ||
३३ ख
सञ्जय़ उवाच:
धिगस्तु कृतवर्माणं मां कृपं च महारथम् |
३४ क
सञ्जय़ उवाच:
ये वय़ं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ||
३४ ख
सञ्जय़ उवाच:
दातारं सर्वकामानां रक्षितारं प्रजाहितम् |
३५ क
सञ्जय़ उवाच:
यद्वय़ं नानुगच्छामस्त्वां धिगस्मान्नराधमान् ||
३५ ख
सञ्जय़ उवाच:
कृपस्य तव वीर्येण मम चैव पितुश्च मे |
३६ क
सञ्जय़ उवाच:
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ||
३६ ख
सञ्जय़ उवाच:
भवत्प्रसादादस्माभिः समित्रैः सहवान्धवैः |
३७ क
सञ्जय़ उवाच:
अवाप्ताः क्रतवो मुख्या वहवो भूरिदक्षिणाः ||
३७ ख
सञ्जय़ उवाच:
कुतश्चापीदृशं सार्थमुपलप्स्यामहे वय़म् |
३८ क
सञ्जय़ उवाच:
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ||
३८ ख
सञ्जय़ उवाच:
वय़मेव त्रय़ो राजन्गच्छन्तं परमां गतिम् |
३९ क
सञ्जय़ उवाच:
यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वय़म् ||
३९ ख
सञ्जय़ उवाच:
त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते |
४० क
सञ्जय़ उवाच:
किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै ||
४० ख
सञ्जय़ उवाच:
दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम् |
४१ क
सञ्जय़ उवाच:
हीनानां नस्त्वय़ा राजन्कुतः शान्तिः कुतः सुखम् ||
४१ ख
सञ्जय़ उवाच:
गत्वैतांस्तु महाराज समेत्य त्वं महारथान् |
४२ क
सञ्जय़ उवाच:
यथाश्रेष्ठं यथाज्येष्ठं पूजय़ेर्वचनान्मम ||
४२ ख
सञ्जय़ उवाच:
आचार्यं पूजय़ित्वा च केतुं सर्वधनुष्मताम् |
४३ क
सञ्जय़ उवाच:
हतं मय़ाद्य शंसेथा धृष्टद्युम्नं नराधिप ||
४३ ख
सञ्जय़ उवाच:
परिष्वजेथा राजानं वाह्लिकं सुमहारथम् |
४४ क
सञ्जय़ उवाच:
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ||
४४ ख
सञ्जय़ उवाच:
तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान् |
४५ क
सञ्जय़ उवाच:
अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामय़म् ||
४५ ख
सञ्जय़ उवाच:
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम् |
४६ क
सञ्जय़ उवाच:
अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमव्रवीत् ||
४६ ख
सञ्जय़ उवाच:
दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु |
४७ क
सञ्जय़ उवाच:
सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रय़ो वय़म् ||
४७ ख
सञ्जय़ उवाच:
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः |
४८ क
सञ्जय़ उवाच:
अहं च कृतवर्मा च कृपः शारद्वतस्तथा ||
४८ ख
सञ्जय़ उवाच:
द्रौपदेय़ा हताः सर्वे धृष्टद्युम्नस्य चात्मजाः |
४९ क
सञ्जय़ उवाच:
पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ||
४९ ख