जनमेजय़ उवाच:
गते भगवति व्यासे धृतराष्ट्रो महीपतिः |
१ क
जनमेजय़ उवाच:
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ||
१ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः |
२ क
वैशम्पाय़न उवाच:
सञ्जय़ं योजय़ेत्युक्त्वा विदुरं प्रत्यभाषत ||
२ ख
वैशम्पाय़न उवाच:
क्षिप्रमानय़ गान्धारीं सर्वाश्च भरतस्त्रिय़ः |
३ क
वैशम्पाय़न उवाच:
वधूं कुन्तीमुपादाय़ याश्चान्यास्तत्र योषितः ||
३ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् |
४ क
वैशम्पाय़न उवाच:
शोकविप्रहतज्ञानो यानमेवान्वपद्यत ||
४ ख
वैशम्पाय़न उवाच:
गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता |
५ क
वैशम्पाय़न उवाच:
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् ||
५ ख
वैशम्पाय़न उवाच:
ताः समासाद्य राजानं भृशं शोकसमन्विताः |
६ क
वैशम्पाय़न उवाच:
आमन्त्र्यान्योन्यमीय़ुः स्म भृशमुच्चुक्रुशुस्ततः ||
६ ख
वैशम्पाय़न उवाच:
ताः समाश्वासय़त्क्षत्ता ताभ्यश्चार्ततरः स्वय़म् |
७ क
वैशम्पाय़न उवाच:
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् ||
७ ख
वैशम्पाय़न उवाच:
ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु |
८ क
वैशम्पाय़न उवाच:
आकुमारं पुरं सर्वमभवच्छोककर्शितम् ||
८ ख
वैशम्पाय़न उवाच:
अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि |
९ क
वैशम्पाय़न उवाच:
पृथग्जनेन दृश्यन्त तास्तदा निहतेश्वराः ||
९ ख
वैशम्पाय़न उवाच:
प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च |
१० क
वैशम्पाय़न उवाच:
एकवस्त्रधरा नार्यः परिपेतुरनाथवत् ||
१० ख
वैशम्पाय़न उवाच:
श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन् |
११ क
वैशम्पाय़न उवाच:
गुहाभ्य इव शैलानां पृषत्यो हतय़ूथपाः ||
११ ख
वैशम्पाय़न उवाच:
तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः |
१२ क
वैशम्पाय़न उवाच:
शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गने ||
१२ ख
वैशम्पाय़न उवाच:
प्रगृह्य वाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि |
१३ क
वैशम्पाय़न उवाच:
दर्शय़न्तीव ता ह स्म युगान्ते लोकसङ्क्षय़म् ||
१३ ख
वैशम्पाय़न उवाच:
विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः |
१४ क
वैशम्पाय़न उवाच:
शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे ||
१४ ख
वैशम्पाय़न उवाच:
व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः |
१५ क
वैशम्पाय़न उवाच:
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् ||
१५ ख
वैशम्पाय़न उवाच:
परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासय़न्स्म याः |
१६ क
वैशम्पाय़न उवाच:
ताः शोकविह्वला राजन्नुपैक्षन्त परस्परम् ||
१६ ख
वैशम्पाय़न उवाच:
ताभिः परिवृतो राजा रुदतीभिः सहस्रशः |
१७ क
वैशम्पाय़न उवाच:
निर्ययौ नगराद्दीनस्तूर्णमाय़ोधनं प्रति ||
१७ ख
वैशम्पाय़न उवाच:
शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः |
१८ क
वैशम्पाय़न उवाच:
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्वहिः ||
१८ ख
वैशम्पाय़न उवाच:
तासां विक्रोशमानानामार्तानां कुरुसङ्क्षय़े |
१९ क
वैशम्पाय़न उवाच:
प्रादुरासीन्महाञ्शव्दो व्यथय़न्भुवनान्युत ||
१९ ख
वैशम्पाय़न उवाच:
युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव |
२० क
वैशम्पाय़न उवाच:
अभावः स्यादय़ं प्राप्त इति भूतानि मेनिरे ||
२० ख
वैशम्पाय़न उवाच:
भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षय़े |
२१ क
वैशम्पाय़न उवाच:
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् ||
२१ ख