chevron_left शान्ति पर्व अध्याय ९
युधिष्ठिर उवाच:
मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि |
१ क
युधिष्ठिर उवाच:
धारय़ित्वापि ते श्रुत्वा रोचतां वचनं मम ||
१ ख
युधिष्ठिर उवाच:
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः |
२ क
युधिष्ठिर उवाच:
गच्छेय़ं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत ||
२ ख
युधिष्ठिर उवाच:
क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम् |
३ क
युधिष्ठिर उवाच:
अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ||
३ ख
युधिष्ठिर उवाच:
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः |
४ क
युधिष्ठिर उवाच:
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ||
४ ख
युधिष्ठिर उवाच:
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् |
५ क
युधिष्ठिर उवाच:
कृशः परिमिताहारश्चर्मचीरजटाधरः ||
५ ख
युधिष्ठिर उवाच:
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः |
६ क
युधिष्ठिर उवाच:
तपसा विधिदृष्टेन शरीरमुपशोषय़न् ||
६ ख
युधिष्ठिर उवाच:
मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः |
७ क
युधिष्ठिर उवाच:
मुदितानामरण्येषु वसतां मृगपक्षिणाम् ||
७ ख
युधिष्ठिर उवाच:
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् |
८ क
युधिष्ठिर उवाच:
नानारूपान्वने पश्यन्रमणीय़ान्वनौकसः ||
८ ख
युधिष्ठिर उवाच:
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः |
९ क
युधिष्ठिर उवाच:
नाप्रिय़ाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ||
९ ख
युधिष्ठिर उवाच:
एकान्तशीली विमृशन्पक्वापक्वेन वर्तय़न् |
१० क
युधिष्ठिर उवाच:
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पय़न् ||
१० ख
युधिष्ठिर उवाच:
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् |
११ क
युधिष्ठिर उवाच:
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ||
११ ख
युधिष्ठिर उवाच:
अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ |
१२ क
युधिष्ठिर उवाच:
चरन्भैक्ष्यं मुनिर्मुण्डः क्षपय़िष्ये कलेवरम् ||
१२ ख
युधिष्ठिर उवाच:
पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रय़ः |
१३ क
युधिष्ठिर उवाच:
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रिय़ाप्रिय़ः ||
१३ ख
युधिष्ठिर उवाच:
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः |
१४ क
युधिष्ठिर उवाच:
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः ||
१४ ख
युधिष्ठिर उवाच:
आत्मारामः प्रसन्नात्मा जडान्धवधिराकृतिः |
१५ क
युधिष्ठिर उवाच:
अकुर्वाणः परैः काञ्चित्संविदं जातु केनचित् ||
१५ ख
युधिष्ठिर उवाच:
जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान् |
१६ क
युधिष्ठिर उवाच:
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ||
१६ ख
युधिष्ठिर उवाच:
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् |
१७ क
युधिष्ठिर उवाच:
प्रसन्नवदनो नित्यं सर्वेन्द्रिय़सुसंय़तः ||
१७ ख
युधिष्ठिर उवाच:
अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित् |
१८ क
युधिष्ठिर उवाच:
न देशं न दिशं काञ्चिद्गन्तुमिच्छन्विशेषतः ||
१८ ख
युधिष्ठिर उवाच:
गमने निरपेक्षश्च पश्चादनवलोकय़न् |
१९ क
युधिष्ठिर उवाच:
ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः ||
१९ ख
युधिष्ठिर उवाच:
स्वभावस्तु प्रय़ात्यग्रे प्रभवन्त्यशनान्यपि |
२० क
युधिष्ठिर उवाच:
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तय़न् ||
२० ख
युधिष्ठिर उवाच:
अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित् |
२१ क
युधिष्ठिर उवाच:
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरय़न् ||
२१ ख
युधिष्ठिर उवाच:
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने |
२२ क
युधिष्ठिर उवाच:
अतीतपात्रसञ्चारे काले विगतभिक्षुके ||
२२ ख
युधिष्ठिर उवाच:
एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च |
२३ क
युधिष्ठिर उवाच:
स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् ||
२३ ख
युधिष्ठिर उवाच:
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् |
२४ क
युधिष्ठिर उवाच:
जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् ||
२४ ख
युधिष्ठिर उवाच:
वास्यैकं तक्षतो वाहुं चन्दनेनैकमुक्षतः |
२५ क
युधिष्ठिर उवाच:
नाकल्याणं न कल्याणं चिन्तय़न्नुभय़ोस्तय़ोः ||
२५ ख
युधिष्ठिर उवाच:
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदय़क्रिय़ाः |
२६ क
युधिष्ठिर उवाच:
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ||
२६ ख
युधिष्ठिर उवाच:
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रिय़क्रिय़ः |
२७ क
युधिष्ठिर उवाच:
सुपरित्यक्तसङ्कल्पः सुनिर्णिक्तात्मकल्मषः ||
२७ ख
युधिष्ठिर उवाच:
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः |
२८ क
युधिष्ठिर उवाच:
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ||
२८ ख
युधिष्ठिर उवाच:
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम् |
२९ क
युधिष्ठिर उवाच:
तृष्णय़ा हि महत्पापमज्ञानादस्मि कारितः ||
२९ ख
युधिष्ठिर उवाच:
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः |
३० क
युधिष्ठिर उवाच:
कार्यकारणसंश्लिष्टं स्वजनं नाम विभ्रति ||
३० ख
युधिष्ठिर उवाच:
आय़ुषोऽन्ते प्रहाय़ेदं क्षीणप्राय़ं कलेवरम् |
३१ क
युधिष्ठिर उवाच:
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ||
३१ ख
युधिष्ठिर उवाच:
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् |
३२ क
युधिष्ठिर उवाच:
समेति भूतग्रामोऽय़ं भूतग्रामेण कार्यवान् ||
३२ ख
युधिष्ठिर उवाच:
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् |
३३ क
युधिष्ठिर उवाच:
असारमिममस्वन्तं संसारं त्यजतः सुखम् ||
३३ ख
युधिष्ठिर उवाच:
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु |
३४ क
युधिष्ठिर उवाच:
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ||
३४ ख
युधिष्ठिर उवाच:
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् |
३५ क
युधिष्ठिर उवाच:
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव वध्यते ||
३५ ख
युधिष्ठिर उवाच:
तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम् |
३६ क
युधिष्ठिर उवाच:
तत्प्राप्य प्रार्थय़े स्थानमव्ययं शाश्वतं ध्रुवम् ||
३६ ख
युधिष्ठिर उवाच:
एतय़ा सततं वृत्त्या चरन्नेवम्प्रकारय़ा |
३७ क
युधिष्ठिर उवाच:
देहं संस्थापय़िष्यामि निर्भय़ं मार्गमास्थितः ||
३७ ख