chevron_left आश्वमेधिक पर्व अध्याय ९
इन्द्र उवाच:
कच्चित्सुखं स्वपिषि त्वं वृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते |
१ क
इन्द्र उवाच:
कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालय़न्ति ||
१ ख
वृहस्पतिरु उवाच:
सुखं शय़ेऽहं शय़ने महेन्द्र; तथा मनोज्ञाः परिचारका मे |
२ क
वृहस्पतिरु उवाच:
तथा देवानां सुखकामोऽस्मि शक्र; देवाश्च मां सुभृशं पालय़न्ति ||
२ ख
इन्द्र उवाच:
कुतो दुःखं मानसं देहजं वा; पाण्डुर्विवर्णश्च कुतस्त्वमद्य |
३ क
इन्द्र उवाच:
आचक्ष्व मे तद्द्विज यावदेता; न्निहन्मि सर्वांस्तव दुःखकर्तॄन् ||
३ ख
वृहस्पतिरु उवाच:
मरुत्तमाहुर्मघवन्यक्ष्यमाणं; महाय़ज्ञेनोत्तमदक्षिणेन |
४ क
वृहस्पतिरु उवाच:
तं संवर्तो याजय़ितेति मे श्रुतं; तदिच्छामि न स तं याजय़ेत ||
४ ख
इन्द्र उवाच:
सर्वान्कामाननुजातोऽसि विप्र; यस्त्वं देवानां मन्त्रय़से पुरोधाः |
५ क
इन्द्र उवाच:
उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस्तव कर्ताद्य विप्र ||
५ ख
वृहस्पतिरु उवाच:
देवैः सह त्वमसुरान्सम्प्रणुद्य; जिघांससेऽद्याप्युत सानुवन्धान् |
६ क
वृहस्पतिरु उवाच:
यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः ||
६ ख
वृहस्पतिरु उवाच:
अतोऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन्निशम्य |
७ क
वृहस्पतिरु उवाच:
सर्वोपाय़ैर्मघवन्संनिय़च्छ; संवर्तं वा पार्थिवं वा मरुत्तम् ||
७ ख
इन्द्र उवाच:
एहि गच्छ प्रहितो जातवेदो; वृहस्पतिं परिदातुं मरुत्ते |
८ क
इन्द्र उवाच:
अय़ं वै त्वा याजय़िता वृहस्पति; स्तथामरं चैव करिष्यतीति ||
८ ख
अग्निरु उवाच:
अय़ं गच्छामि तव शक्राद्य दूतो; वृहस्पतिं परिदातुं मरुत्ते |
९ क
अग्निरु उवाच:
वाचं सत्यां पुरुहूतस्य कर्तुं; वृहस्पतेश्चापचितिं चिकीर्षुः ||
९ ख
व्यास उवाच:
ततः प्राय़ाद्धूमकेतुर्महात्मा; वनस्पतीन्वीरुधश्चावमृद्नन् |
१० क
व्यास उवाच:
कामाद्धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन् ||
१० ख
मरुत्त उवाच:
आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् |
११ क
मरुत्त उवाच:
आसनं सलिलं पाद्यं गां चोपानय़ वै मुने ||
११ ख
अग्निरु उवाच:
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ |
१२ क
अग्निरु उवाच:
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ||
१२ ख
मरुत्त उवाच:
कच्चिच्छ्रीमान्देवराजः सुखी च; कच्चिच्चास्मान्प्रीय़ते धूमकेतो |
१३ क
मरुत्त उवाच:
कच्चिद्देवाश्चास्य वशे यथाव; त्तद्व्रूहि त्वं मम कार्त्स्न्येन देव ||
१३ ख
अग्निरु उवाच:
शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्यजरां वै त्वय़ा सः |
१४ क
अग्निरु उवाच:
देवाश्च सर्वे वशगास्तस्य राज; न्सन्देशं त्वं शृणु मे देवराज्ञः ||
१४ ख
अग्निरु उवाच:
यदर्थं मां प्राहिणोत्त्वत्सकाशं; वृहस्पतिं परिदातुं मरुत्ते |
१५ क
अग्निरु उवाच:
अय़ं गुरुर्याजय़िता नृप त्वां; मर्त्यं सन्तममरं त्वां करोतु ||
१५ ख
मरुत्त उवाच:
संवर्तोऽय़ं याजय़िता द्विजो मे; वृहस्पतेरञ्जलिरेष तस्य |
१६ क
मरुत्त उवाच:
नासौ देवं याजय़ित्वा महेन्द्रं; मर्त्यं सन्तं याजय़न्नद्य शोभेत् ||
१६ ख
अग्निरु उवाच:
ये वै लोका देवलोके महान्तः; सम्प्राप्स्यसे तान्देवराजप्रसादात् |
१७ क
अग्निरु उवाच:
त्वां चेदसौ याजय़ेद्वै वृहस्पति; र्नूनं स्वर्गं त्वं जय़ेः कीर्तिय़ुक्तः ||
१७ ख
अग्निरु उवाच:
तथा लोका मानुषा ये च दिव्याः; प्रजापतेश्चापि ये वै महान्तः |
१८ क
अग्निरु उवाच:
ते ते जिता देवराज्यं च कृत्स्नं; वृहस्पतिश्चेद्याजय़ेत्त्वां नरेन्द्र ||
१८ ख
संवर्त उवाच:
मास्मानेवं त्वं पुनरागाः कथं चि; द्वृहस्पतिं परिदातुं मरुत्ते |
१९ क
संवर्त उवाच:
मा त्वां धक्ष्ये चक्षुषा दारुणेन; सङ्क्रुद्धोऽहं पावक तन्निवोध ||
१९ ख
व्यास उवाच:
ततो देवानगमद्धूमकेतु; र्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् |
२० क
व्यास उवाच:
तं वै दृष्ट्वा प्राह शक्रो महात्मा; वृहस्पतेः संनिधौ हव्यवाहम् ||
२० ख
व्यास उवाच:
यत्त्वं गतः प्रहितो जातवेदो; वृहस्पतिं परिदातुं मरुत्ते |
२१ क
व्यास उवाच:
तत्किं प्राह स नृपो यक्ष्यमाणः; कच्चिद्वचः प्रतिगृह्णाति तच्च ||
२१ ख
अग्निरु उवाच:
न ते वाचं रोचय़ते मरुत्तो; वृहस्पतेरञ्जलिं प्राहिणोत्सः |
२२ क
अग्निरु उवाच:
संवर्तो मां याजय़ितेत्यभीक्ष्णं; पुनः पुनः स मय़ा प्रोच्यमानः ||
२२ ख
अग्निरु उवाच:
उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर्ये च लोका महान्तः |
२३ क
अग्निरु उवाच:
तांश्चेल्लभेय़ं संविदं तेन कृत्वा; तथापि नेच्छेय़मिति प्रतीतः ||
२३ ख
इन्द्र उवाच:
पुनर्भवान्पार्थिवं तं समेत्य; वाक्यं मदीय़ं प्रापय़ स्वार्थय़ुक्तम् |
२४ क
इन्द्र उवाच:
पुनर्यद्युक्तो न करिष्यते वच; स्ततो वज्रं सम्प्रहर्तास्मि तस्मै ||
२४ ख
अग्निरु उवाच:
गन्धर्वराड्यात्वय़ं तत्र दूतो; विभेम्यहं वासव तत्र गन्तुम् |
२५ क
अग्निरु उवाच:
संरव्धो मामव्रवीत्तीक्ष्णरोषः; संवर्तो वाक्यं चरितव्रह्मचर्यः ||
२५ ख
अग्निरु उवाच:
यद्यागच्छेः पुनरेवं कथं चि; द्वृहस्पतिं परिदातुं मरुत्ते |
२६ क
अग्निरु उवाच:
दहेय़ं त्वां चक्षुषा दारुणेन; सङ्क्रुद्ध इत्येतदवैहि शक्र ||
२६ ख
इन्द्र उवाच:
त्वमेवान्यान्दहसे जातवेदो; न हि त्वदन्यो विद्यते भस्मकर्ता |
२७ क
इन्द्र उवाच:
त्वत्संस्पर्शात्सर्वलोको विभे; त्यश्रद्धेय़ं वदसे हव्यवाह ||
२७ ख
अग्निरु उवाच:
दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टय़ेस्त्वं स्ववलेनैव शक्र |
२८ क
अग्निरु उवाच:
एवंविधस्येह सतस्तवासौ; कथं वृत्रस्त्रिदिवं प्राग्जहार ||
२८ ख
इन्द्र उवाच:
न चण्डिका जङ्गमा नो करेणु; र्न वारिसोमं प्रपिवामि वह्ने |
२९ क
इन्द्र उवाच:
न दुर्वले वै विसृजामि वज्रं; को मेऽसुखाय़ प्रहरेन्मनुष्यः ||
२९ ख
इन्द्र उवाच:
प्रव्राजय़ेय़ं कालकेय़ान्पृथिव्या; मपाकर्षं दानवानन्तरिक्षात् |
३० क
इन्द्र उवाच:
दिवः प्रह्रादमवसानमानय़ं; को मेऽसुखाय़ प्रहरेत मर्त्यः ||
३० ख
अग्निरु उवाच:
यत्र शर्यातिं च्यवनो याजय़िष्य; न्सहाश्विभ्यां सोममगृह्णदेकः |
३१ क
अग्निरु उवाच:
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता; च्छर्यातिय़ज्ञं स्मर तं महेन्द्र ||
३१ ख
अग्निरु उवाच:
वज्रं गृहीत्वा च पुरन्दर त्वं; सम्प्राहार्षीश्च्यवनस्यातिघोरम् |
३२ क
अग्निरु उवाच:
स ते विप्रः सह वज्रेण वाहु; मपागृह्णात्तपसा जातमन्युः ||
३२ ख
अग्निरु उवाच:
ततो रोषात्सर्वतो घोररूपं; सपत्नं ते जनय़ामास भूय़ः |
३३ क
अग्निरु उवाच:
मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ||
३३ ख
अग्निरु उवाच:
हनुरेका जगतीस्था तथैका; दिवं गता महतो दानवस्य |
३४ क
अग्निरु उवाच:
सहस्रं दन्तानां शतय़ोजनानां; सुतीक्ष्णानां घोररूपं वभूव ||
३४ ख
अग्निरु उवाच:
वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश्चतस्रो द्वे शते योजनानाम् |
३५ क
अग्निरु उवाच:
स त्वां दन्तान्विदशन्नभ्यधाव; ज्जिघांसय़ा शूलमुद्यम्य घोरम् ||
३५ ख
अग्निरु उवाच:
अपश्यस्त्वं तं तदा घोररूपं; सर्वे त्वन्ये ददृशुर्दर्शनीय़म् |
३६ क
अग्निरु उवाच:
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि; मागच्छेथाः शरणं दानवघ्न ||
३६ ख
अग्निरु उवाच:
क्षत्रादेवं व्रह्मवलं गरीय़ो; न व्रह्मतः किञ्चिदन्यद्गरीय़ः |
३७ क
अग्निरु उवाच:
सोऽहं जानन्व्रह्मतेजो यथाव; न्न संवर्तं गन्तुमिच्छामि शक्र ||
३७ ख