chevron_left आश्रमवासिक पर्व अध्याय ९
वैशम्पाय़न उवाच:
ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् |
१ क
वैशम्पाय़न उवाच:
यय़ौ स्वभवनं राजा गान्धार्यानुगतस्तदा ||
१ ख
वैशम्पाय़न उवाच:
मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन् |
२ क
वैशम्पाय़न उवाच:
पदातिः स महीपालो जीर्णो गजपतिर्यथा ||
२ ख
वैशम्पाय़न उवाच:
तमन्वगच्छद्विदुरो विद्वान्सूतश्च सञ्जय़ः |
३ क
वैशम्पाय़न उवाच:
स चापि परमेष्वासः कृपः शारद्वतस्तथा ||
३ ख
वैशम्पाय़न उवाच:
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रिय़ः |
४ क
वैशम्पाय़न उवाच:
तर्पय़ित्वा द्विजश्रेष्ठानाहारमकरोत्तदा ||
४ ख
वैशम्पाय़न उवाच:
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी |
५ क
वैशम्पाय़न उवाच:
वधूभिरुपचारेण पूजिताभुङ्क्त भारत ||
५ ख
वैशम्पाय़न उवाच:
कृताहारं कृताहाराः सर्वे ते विदुरादय़ः |
६ क
वैशम्पाय़न उवाच:
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ||
६ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीन्महाराज कुन्तीपुत्रमुपह्वरे |
७ क
वैशम्पाय़न उवाच:
निषण्णं पाणिना पृष्ठे संस्पृशन्नम्विकासुतः ||
७ ख
वैशम्पाय़न उवाच:
अप्रमादस्त्वय़ा कार्यः सर्वथा कुरुनन्दन |
८ क
वैशम्पाय़न उवाच:
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते ||
८ ख
वैशम्पाय़न उवाच:
तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन |
९ क
वैशम्पाय़न उवाच:
राज्यं धर्मं च कौन्तेय़ विद्वानसि निवोध तत् ||
९ ख
वैशम्पाय़न उवाच:
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर |
१० क
वैशम्पाय़न उवाच:
शृणुय़ास्ते च यद्व्रूय़ुः कुर्याश्चैवाविचारय़न् ||
१० ख
वैशम्पाय़न उवाच:
प्रातरुत्थाय़ तान्राजन्पूजय़ित्वा यथाविधि |
११ क
वैशम्पाय़न उवाच:
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ||
११ ख
वैशम्पाय़न उवाच:
ते तु संमानिता राजंस्त्वय़ा राज्यहितार्थिना |
१२ क
वैशम्पाय़न उवाच:
प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन ||
१२ ख
वैशम्पाय़न उवाच:
इन्द्रिय़ाणि च सर्वाणि वाजिवत्परिपालय़ |
१३ क
वैशम्पाय़न उवाच:
हिताय़ वै भविष्यन्ति रक्षितं द्रविणं यथा ||
१३ ख
वैशम्पाय़न उवाच:
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् |
१४ क
वैशम्पाय़न उवाच:
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजय़ेः ||
१४ ख
वैशम्पाय़न उवाच:
चारय़ेथाश्च सततं चारैरविदितैः परान् |
१५ क
वैशम्पाय़न उवाच:
परीक्षितैर्वहुविधं स्वराष्ट्रेषु परेषु च ||
१५ ख
वैशम्पाय़न उवाच:
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् |
१६ क
वैशम्पाय़न उवाच:
अट्टाट्टालकसम्वाधं षट्पथं सर्वतोदिशम् ||
१६ ख
वैशम्पाय़न उवाच:
तस्य द्वाराणि कार्याणि पर्याप्तानि वृहन्ति च |
१७ क
वैशम्पाय़न उवाच:
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च ||
१७ ख
वैशम्पाय़न उवाच:
पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः |
१८ क
वैशम्पाय़न उवाच:
आत्मा च रक्ष्यः सततं भोजनादिषु भारत ||
१८ ख
वैशम्पाय़न उवाच:
विहाराहारकालेषु माल्यशय़्यासनेषु च |
१९ क
वैशम्पाय़न उवाच:
स्त्रिय़श्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः |
१९ ख
वैशम्पाय़न उवाच:
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ||
१९ ग
वैशम्पाय़न उवाच:
मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान् |
२० क
वैशम्पाय़न उवाच:
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् ||
२० ख
वैशम्पाय़न उवाच:
तैः सार्धं मन्त्रय़ेथास्त्वं नात्यर्थं वहुभिः सह |
२१ क
वैशम्पाय़न उवाच:
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ||
२१ ख
वैशम्पाय़न उवाच:
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रय़ेः |
२२ क
वैशम्पाय़न उवाच:
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन ||
२२ ख
वैशम्पाय़न उवाच:
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः |
२३ क
वैशम्पाय़न उवाच:
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः ||
२३ ख
वैशम्पाय़न उवाच:
मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् |
२४ क
वैशम्पाय़न उवाच:
न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः ||
२४ ख
वैशम्पाय़न उवाच:
दोषांश्च मन्त्रभेदेषु व्रूय़ास्त्वं मन्त्रिमण्डले |
२५ क
वैशम्पाय़न उवाच:
अभेदे च गुणान्राजन्पुनः पुनररिन्दम ||
२५ ख
वैशम्पाय़न उवाच:
पौरजानपदानां च शौचाशौचं युधिष्ठिर |
२६ क
वैशम्पाय़न उवाच:
यथा स्याद्विदितं राजंस्तथा कार्यमरिन्दम ||
२६ ख