chevron_left मौसल पर्व अध्याय ९
वैशम्पाय़न उवाच:
प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः |
१ क
वैशम्पाय़न उवाच:
ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् ||
१ ख
वैशम्पाय़न उवाच:
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् |
२ क
वैशम्पाय़न उवाच:
अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः ||
२ ख
वैशम्पाय़न उवाच:
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः |
३ क
वैशम्पाय़न उवाच:
आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ||
३ ख
वैशम्पाय़न उवाच:
तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः |
४ क
वैशम्पाय़न उवाच:
निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽव्रवीदिदम् ||
४ ख
वैशम्पाय़न उवाच:
अवीरजोऽभिघातस्ते व्राह्मणो वा हतस्त्वय़ा |
५ क
वैशम्पाय़न उवाच:
युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे ||
५ ख
वैशम्पाय़न उवाच:
न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ |
६ क
वैशम्पाय़न उवाच:
श्रोतव्यं चेन्मय़ा पार्थ क्षिप्रमाख्यातुमर्हसि ||
६ ख
अर्जुन उवाच:
यः स मेधवपुः श्रीमान्वृहत्पङ्कजलोचनः |
७ क
अर्जुन उवाच:
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ||
७ ख
अर्जुन उवाच:
मौसले वृष्णिवीराणां विनाशो व्रह्मशापजः |
८ क
अर्जुन उवाच:
वभूव वीरान्तकरः प्रभासे रोमहर्षणः ||
८ ख
अर्जुन उवाच:
ये ते शूरा महात्मानः सिंहदर्पा महावलाः |
९ क
अर्जुन उवाच:
भोजवृष्ण्यन्धका व्रह्मन्नन्योन्यं तैर्हतं युधि ||
९ ख
अर्जुन उवाच:
गदापरिघशक्तीनां सहाः परिघवाहवः |
१० क
अर्जुन उवाच:
त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ||
१० ख
अर्जुन उवाच:
हतं पञ्चशतं तेषां सहस्रं वाहुशालिनाम् |
११ क
अर्जुन उवाच:
निधनं समनुप्राप्तं समासाद्येतरेतरम् ||
११ ख
अर्जुन उवाच:
पुनः पुनर्न मृश्यामि विनाशममितौजसाम् |
१२ क
अर्जुन उवाच:
चिन्तय़ानो यदूनां च कृष्णस्य च यशस्विनः ||
१२ ख
अर्जुन उवाच:
शोषणं सागरस्येव पर्वतस्येव चालनम् |
१३ क
अर्जुन उवाच:
नभसः पतनं चैव शैत्यमग्नेस्तथैव च ||
१३ ख
अर्जुन उवाच:
अश्रद्धेय़महं मन्ये विनाशं शार्ङ्गधन्वनः |
१४ क
अर्जुन उवाच:
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ||
१४ ख
अर्जुन उवाच:
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन |
१५ क
अर्जुन उवाच:
मनो मे दीर्यते येन चिन्तय़ानस्य वै मुहुः ||
१५ ख
अर्जुन उवाच:
पश्यतो वृष्णिदाराश्च मम व्रह्मन्सहस्रशः |
१६ क
अर्जुन उवाच:
आभीरैरनुसृत्याजौ हृताः पञ्चनदालय़ैः ||
१६ ख
अर्जुन उवाच:
धनुरादाय़ तत्राहं नाशकं तस्य पूरणे |
१७ क
अर्जुन उवाच:
यथा पुरा च मे वीर्यं भुजय़ोर्न तथाभवत् ||
१७ ख
अर्जुन उवाच:
अस्त्राणि मे प्रनष्टानि विविधानि महामुने |
१८ क
अर्जुन उवाच:
शराश्च क्षय़मापन्नाः क्षणेनैव समन्ततः ||
१८ ख
अर्जुन उवाच:
पुरुषश्चाप्रमेय़ात्मा शङ्खचक्रगदाधरः |
१९ क
अर्जुन उवाच:
चतुर्भुजः पीतवासा श्यामः पद्माय़तेक्षणः ||
१९ ख
अर्जुन उवाच:
यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः |
२० क
अर्जुन उवाच:
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ||
२० ख
अर्जुन उवाच:
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा |
२१ क
अर्जुन उवाच:
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशय़म् ||
२१ ख
अर्जुन उवाच:
तमपश्यन्विषीदामि घूर्णामीव च सत्तम |
२२ क
अर्जुन उवाच:
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ||
२२ ख
अर्जुन उवाच:
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे |
२३ क
अर्जुन उवाच:
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ||
२३ ख
अर्जुन उवाच:
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः |
२४ क
अर्जुन उवाच:
उपदेष्टुं मम श्रेय़ो भवानर्हति सत्तम ||
२४ ख
व्यास उवाच:
व्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः |
२५ क
व्यास उवाच:
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ||
२५ ख
व्यास उवाच:
भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम् |
२६ क
व्यास उवाच:
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ||
२६ ख
व्यास उवाच:
त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् |
२७ क
व्यास उवाच:
प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ||
२७ ख
व्यास उवाच:
रथस्य पुरतो याति यः स चक्रगदाधरः |
२८ क
व्यास उवाच:
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ||
२८ ख
व्यास उवाच:
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः |
२९ क
व्यास उवाच:
मोक्षय़ित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ||
२९ ख
व्यास उवाच:
त्वय़ा त्विह महत्कर्म देवानां पुरुषर्षभ |
३० क
व्यास उवाच:
कृतं भीमसहाय़ेन यमाभ्यां च महाभुज ||
३० ख
व्यास उवाच:
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव |
३१ क
व्यास उवाच:
गमनं प्राप्तकालं च तद्धि श्रेय़ो मतं मम ||
३१ ख
व्यास उवाच:
वलं वुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत |
३२ क
व्यास उवाच:
भवन्ति भवकालेषु विपद्यन्ते विपर्यये ||
३२ ख
व्यास उवाच:
कालमूलमिदं सर्वं जगद्वीजं धनञ्जय़ |
३३ क
व्यास उवाच:
काल एव समादत्ते पुनरेव यदृच्छय़ा ||
३३ ख
व्यास उवाच:
स एव वलवान्भूत्वा पुनर्भवति दुर्वलः |
३४ क
व्यास उवाच:
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ||
३४ ख
व्यास उवाच:
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् |
३५ क
व्यास उवाच:
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ||
३५ ख
व्यास उवाच:
कालो गन्तुं गतिं मुख्यां भवतामपि भारत |
३६ क
व्यास उवाच:
एतच्छ्रेय़ो हि वो मन्ये परमं भरतर्षभ ||
३६ ख
व्यास उवाच:
एतद्वचनमाज्ञाय़ व्यासस्यामिततेजसः |
३७ क
व्यास उवाच:
अनुज्ञातो यय़ौ पार्थो नगरं नागसाह्वय़म् ||
३७ ख
व्यास उवाच:
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् |
३८ क
व्यास उवाच:
आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति ||
३८ ख