chevron_left सभा पर्व अध्याय ९
नारद उवाच:
युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा |
१ क
नारद उवाच:
प्रमाणेन यथा याम्या शुभप्राकारतोरणा ||
१ ख
नारद उवाच:
अन्तःसलिलमास्थाय़ विहिता विश्वकर्मणा |
२ क
नारद उवाच:
दिव्यरत्नमय़ैर्वृक्षैः फलपुष्पप्रदैर्युता ||
२ ख
नारद उवाच:
नीलपीतासितश्यामैः सितैर्लोहितकैरपि |
३ क
नारद उवाच:
अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः ||
३ ख
नारद उवाच:
तथा शकुनय़स्तस्यां नानारूपा मृदुस्वराः |
४ क
नारद उवाच:
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ||
४ ख
नारद उवाच:
सा सभा सुखसंस्पर्शा न शीता न च घर्मदा |
५ क
नारद उवाच:
वेश्मासनवती रम्या सिता वरुणपालिता ||
५ ख
नारद उवाच:
यस्यामास्ते स वरुणो वारुण्या सह भारत |
६ क
नारद उवाच:
दिव्यरत्नाम्वरधरो भूषणैरुपशोभितः ||
६ ख
नारद उवाच:
स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः |
७ क
नारद उवाच:
आदित्यास्तत्र वरुणं जलेश्वरमुपासते ||
७ ख
नारद उवाच:
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा |
८ क
नारद उवाच:
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ||
८ ख
नारद उवाच:
कम्वलाश्वतरौ नागौ धृतराष्ट्रवलाहकौ |
९ क
नारद उवाच:
मणिमान्कुण्डलधरः कर्कोटकधनञ्जय़ौ ||
९ ख
नारद उवाच:
प्रह्लादो मूषिकादश्च तथैव जनमेजय़ः |
१० क
नारद उवाच:
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः ||
१० ख
नारद उवाच:
एते चान्ये च वहवः सर्पास्तस्यां युधिष्ठिर |
११ क
नारद उवाच:
उपासते महात्मानं वरुणं विगतक्लमाः ||
११ ख
नारद उवाच:
वलिर्वैरोचनो राजा नरकः पृथिवीञ्जय़ः |
१२ क
नारद उवाच:
प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः ||
१२ ख
नारद उवाच:
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः |
१३ क
नारद उवाच:
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ||
१३ ख
नारद उवाच:
विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः |
१४ क
नारद उवाच:
दशग्रीवश्च वाली च मेघवासा दशावरः ||
१४ ख
नारद उवाच:
कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः |
१५ क
नारद उवाच:
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः ||
१५ ख
नारद उवाच:
स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः |
१६ क
नारद उवाच:
सर्वे लव्धवराः शूराः सर्वे विगतमृत्यवः ||
१६ ख
नारद उवाच:
ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा |
१७ क
नारद उवाच:
उपासते महात्मानं सर्वे सुचरितव्रताः ||
१७ ख
नारद उवाच:
तथा समुद्राश्चत्वारो नदी भागीरथी च या |
१८ क
नारद उवाच:
कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी ||
१८ ख
नारद उवाच:
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती |
१९ क
नारद उवाच:
इरावती वितस्ता च सिन्धुर्देवनदस्तथा ||
१९ ख
नारद उवाच:
गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा |
२० क
नारद उवाच:
एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च ||
२० ख
नारद उवाच:
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर |
२१ क
नारद उवाच:
पल्वलानि तडागानि देहवन्त्यथ भारत ||
२१ ख
नारद उवाच:
दिशस्तथा मही चैव तथा सर्वे महीधराः |
२२ क
नारद उवाच:
उपासते महात्मानं सर्वे जलचरास्तथा ||
२२ ख
नारद उवाच:
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः |
२३ क
नारद उवाच:
स्तुवन्तो वरुणं तस्यां सर्व एव समासते ||
२३ ख
नारद उवाच:
महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः |
२४ क
नारद उवाच:
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ||
२४ ख
नारद उवाच:
एषा मय़ा सम्पतता वारुणी भरतर्षभ |
२५ क
नारद उवाच:
दृष्टपूर्वा सभा रम्या कुवेरस्य सभां शृणु ||
२५ ख