मार्कण्डेय़ उवाच:
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर |
१ क
मार्कण्डेय़ उवाच:
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ||
१ ख
व्याध उवाच:
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते |
२ क
व्याध उवाच:
तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ||
२ ख
व्याध उवाच:
ततस्तदर्थं यतते कर्म चारभते महत् |
३ क
व्याध उवाच:
इष्टानां रूपगन्धानामभ्यासं च निषेवते ||
३ ख
व्याध उवाच:
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् |
४ क
व्याध उवाच:
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ||
४ ख
व्याध उवाच:
तस्य लोभाभिभूतस्य रागद्वेषहतस्य च |
५ क
व्याध उवाच:
न धर्मे जाय़ते वुद्धिर्व्याजाद्धर्मं करोति च ||
५ ख
व्याध उवाच:
व्याजेन चरते धर्ममर्थं व्याजेन रोचते |
६ क
व्याध उवाच:
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम |
६ ख
व्याध उवाच:
तत्रैव रमते वुद्धिस्ततः पापं चिकीर्षति ||
६ ग
व्याध उवाच:
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम |
७ क
व्याध उवाच:
उत्तरं श्रुतिसम्वद्धं व्रवीति श्रुतिय़ोजितम् ||
७ ख
व्याध उवाच:
अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः |
८ क
व्याध उवाच:
पापं चिन्तय़ते चापि व्रवीति च करोति च ||
८ ख
व्याध उवाच:
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः |
९ क
व्याध उवाच:
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ||
९ ख
व्याध उवाच:
स तेनासुखमाप्नोति परत्र च विहन्यते |
१० क
व्याध उवाच:
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु ||
१० ख
व्याध उवाच:
यस्त्वेतान्प्रज्ञय़ा दोषान्पूर्वमेवानुपश्यति |
११ क
व्याध उवाच:
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते |
११ ख
व्याध उवाच:
तस्य साधुसमारम्भाद्वुद्धिर्धर्मेषु जाय़ते ||
११ ग
व्राह्मण उवाच:
व्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते |
१२ क
व्राह्मण उवाच:
दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे ||
१२ ख
व्याध उवाच:
व्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा |
१३ क
व्याध उवाच:
तेषां सर्वात्मना कार्यं प्रिय़ं लोके मनीषिणा ||
१३ ख
व्याध उवाच:
यत्तेषां च प्रिय़ं तत्ते वक्ष्यामि द्विजसत्तम |
१४ क
व्याध उवाच:
नमस्कृत्वा व्राह्मणेभ्यो व्राह्मीं विद्यां निवोध मे ||
१४ ख
व्याध उवाच:
इदं विश्वं जगत्सर्वमजय़्यं चापि सर्वशः |
१५ क
व्याध उवाच:
महाभूतात्मकं व्रह्मन्नातः परतरं भवेत् ||
१५ ख
व्याध उवाच:
महाभूतानि खं वाय़ुरग्निरापस्तथा च भूः |
१६ क
व्याध उवाच:
शव्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ||
१६ ख
व्याध उवाच:
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् |
१७ क
व्याध उवाच:
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ||
१७ ख
व्याध उवाच:
षष्ठस्तु चेतना नाम मन इत्यभिधीय़ते |
१८ क
व्याध उवाच:
सप्तमी तु भवेद्वुद्धिरहङ्कारस्ततः परम् ||
१८ ख
व्याध उवाच:
इन्द्रिय़ाणि च पञ्चैव रजः सत्त्वं तमस्तथा |
१९ क
व्याध उवाच:
इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ||
१९ ख
व्याध उवाच:
सर्वैरिहेन्द्रिय़ार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः |
२० क
व्याध उवाच:
चतुर्विंशक इत्येष व्यक्ताव्यक्तमय़ो गुणः |
२० ख
व्याध उवाच:
एतत्ते सर्वमाख्यातं किं भूय़ो श्रोतुमिच्छसि ||
२० ग