वैशम्पाय़न उवाच:
सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम् |
१ क
वैशम्पाय़न उवाच:
भाषां चैषां समास्थाय़ विराटमुपय़ादथ ||
१ ख
वैशम्पाय़न उवाच:
तमाय़ान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम् |
२ क
वैशम्पाय़न उवाच:
समुपस्थाय़ वै राजा पप्रच्छ कुरुनन्दनम् ||
२ ख
वैशम्पाय़न उवाच:
कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि |
३ क
वैशम्पाय़न उवाच:
न हि मे दृष्टपूर्वस्त्वं तत्त्वं व्रूहि नरर्षभ ||
३ ख
वैशम्पाय़न उवाच:
स प्राप्य राजानममित्रतापन; स्ततोऽव्रवीन्मेघमहौघनिःस्वनः |
४ क
वैशम्पाय़न उवाच:
वैश्योऽस्मि नाम्नाहमरिष्टनेमि; र्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ||
४ ख
वैशम्पाय़न उवाच:
वस्तुं त्वय़ीच्छामि विशां वरिष्ठ; तान्राजसिंहान्न हि वेद्मि पार्थान् |
५ क
वैशम्पाय़न उवाच:
न शक्यते जीवितुमन्यकर्मणा; न च त्वदन्यो मम रोचते नृपः ||
५ ख
विराट उवाच:
त्वं व्राह्मणो यदि वा क्षत्रिय़ोऽसि; समुद्रनेमीश्वररूपवानसि |
६ क
विराट उवाच:
आचक्ष्व मे तत्त्वममित्रकर्शन; न वैश्यकर्म त्वय़ि विद्यते समम् ||
६ ख
विराट उवाच:
कस्यासि राज्ञो विषय़ादिहागतः; किं चापि शिल्पं तव विद्यते कृतम् |
७ क
विराट उवाच:
कथं त्वमस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम् ||
७ ख
सहदेव उवाच:
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः |
८ क
सहदेव उवाच:
तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः ||
८ ख
सहदेव उवाच:
अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे |
९ क
सहदेव उवाच:
तेषां गोसङ्ख्य आसं वै तन्तिपालेति मां विदुः ||
९ ख
सहदेव उवाच:
भूतं भव्यं भविष्यच्च यच्च सङ्ख्यागतं क्वचित् |
१० क
सहदेव उवाच:
न मेऽस्त्यविदितं किञ्चित्समन्ताद्दशय़ोजनम् ||
१० ख
सहदेव उवाच:
गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः |
११ क
सहदेव उवाच:
आसीच्च स मय़ा तुष्टः कुरुराजो युधिष्ठिरः ||
११ ख
सहदेव उवाच:
क्षिप्रं हि गावो वहुला भवन्ति; न तासु रोगो भवतीह कश्चित् |
१२ क
सहदेव उवाच:
तैस्तैरुपाय़ैर्विदितं मय़ैत; देतानि शिल्पानि मय़ि स्थितानि ||
१२ ख
सहदेव उवाच:
वृषभांश्चापि जानामि राजन्पूजितलक्षणान् |
१३ क
सहदेव उवाच:
येषां मूत्रमुपाघ्राय़ अपि वन्ध्या प्रसूय़ते ||
१३ ख
विराट उवाच:
शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः |
१४ क
विराट उवाच:
पशून्सपालान्भवते ददाम्यहं; त्वदाश्रय़ा मे पशवो भवन्त्विह ||
१४ ख
वैशम्पाय़न उवाच:
तथा स राज्ञोऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः |
१५ क
वैशम्पाय़न उवाच:
न चैनमन्येऽपि विदुः कथञ्चन; प्रादाच्च तस्मै भरणं यथेप्सितम् ||
१५ ख