chevron_left उद्योग पर्व अध्याय ९
युधिष्ठिर उवाच:
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना |
१ क
युधिष्ठिर उवाच:
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ||
१ ख
शल्य उवाच:
शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् |
२ क
शल्य उवाच:
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ||
२ ख
शल्य उवाच:
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः |
३ क
शल्य उवाच:
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ||
३ ख
शल्य उवाच:
ऐन्द्रं स प्रार्थय़त्स्थानं विश्वरूपो महाद्युतिः |
४ क
शल्य उवाच:
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ||
४ ख
शल्य उवाच:
वेदानेकेन सोऽधीते सुरामेकेन चापिवत् |
५ क
शल्य उवाच:
एकेन च दिशः सर्वाः पिवन्निव निरीक्षते ||
५ ख
शल्य उवाच:
स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः |
६ क
शल्य उवाच:
तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिन्दम ||
६ ख
शल्य उवाच:
तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः |
७ क
शल्य उवाच:
विषादमगमच्छक्र इन्द्रोऽय़ं मा भवेदिति ||
७ ख
शल्य उवाच:
कथं सज्जेत भोगेषु न च तप्येन्महत्तपः |
८ क
शल्य उवाच:
विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् ||
८ ख
शल्य उवाच:
इति सञ्चिन्त्य वहुधा वुद्धिमान्भरतर्षभ |
९ क
शल्य उवाच:
आज्ञापय़त्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ||
९ ख
शल्य उवाच:
यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम् |
१० क
शल्य उवाच:
क्षिप्रं कुरुत गच्छध्वं प्रलोभय़त माचिरम् ||
१० ख
शल्य उवाच:
शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः |
११ क
शल्य उवाच:
प्रलोभय़त भद्रं वः शमय़ध्वं भय़ं मम ||
११ ख
शल्य उवाच:
अस्वस्थं ह्यात्मनात्मानं लक्षय़ामि वराङ्गनाः |
१२ क
शल्य उवाच:
भय़मेतन्महाघोरं क्षिप्रं नाशय़तावलाः ||
१२ ख
अप्सरस ऊचुः:
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने |
१३ क
अप्सरस ऊचुः:
यथा नावाप्स्यसि भय़ं तस्माद्वलनिषूदन ||
१३ ख
अप्सरस ऊचुः:
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः |
१४ क
अप्सरस ऊचुः:
तं प्रलोभय़ितुं देव गच्छामः सहिता वय़म् |
१४ ख
अप्सरस ऊचुः:
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भय़म् ||
१४ ग
शल्य उवाच:
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् |
१५ क
शल्य उवाच:
तत्र ता विविधैर्भावैर्लोभय़न्त्यो वराङ्गनाः |
१५ ख
शल्य उवाच:
नृत्यं सन्दर्शय़न्त्यश्च तथैवाङ्गेषु सौष्ठवम् ||
१५ ग
शल्य उवाच:
विचेरुः सम्प्रहर्षं च नाभ्यगच्छन्महातपाः |
१६ क
शल्य उवाच:
इन्द्रिय़ाणि वशे कृत्वा पूर्णसागरसंनिभः ||
१६ ख
शल्य उवाच:
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः |
१७ क
शल्य उवाच:
कृताञ्जलिपुटाः सर्वा देवराजमथाव्रुवन् ||
१७ ख
शल्य उवाच:
न स शक्यः सुदुर्धर्षो धैर्याच्चालय़ितुं प्रभो |
१८ क
शल्य उवाच:
यत्ते कार्यं महाभाग क्रिय़तां तदनन्तरम् ||
१८ ख
शल्य उवाच:
सम्पूज्याप्सरसः शक्रो विसृज्य च महामतिः |
१९ क
शल्य उवाच:
चिन्तय़ामास तस्यैव वधोपाय़ं महात्मनः ||
१९ ख
शल्य उवाच:
स तूष्णीं चिन्तय़न्वीरो देवराजः प्रतापवान् |
२० क
शल्य उवाच:
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् ||
२० ख
शल्य उवाच:
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति |
२१ क
शल्य उवाच:
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्वलोऽपि वलीय़सा ||
२१ ख
शल्य उवाच:
शास्त्रवुद्ध्या विनिश्चित्य कृत्वा वुद्धिं वधे दृढाम् |
२२ क
शल्य उवाच:
अथ वैश्वानरनिभं घोररूपं भय़ावहम् |
२२ ख
शल्य उवाच:
मुमोच वज्रं सङ्क्रुद्धः शक्रस्त्रिशिरसं प्रति ||
२२ ग
शल्य उवाच:
स पपात हतस्तेन वज्रेण दृढमाहतः |
२३ क
शल्य उवाच:
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ||
२३ ख
शल्य उवाच:
तं तु वज्रहतं दृष्ट्वा शय़ानमचलोपमम् |
२४ क
शल्य उवाच:
न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा |
२४ ख
शल्य उवाच:
हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते ||
२४ ग
शल्य उवाच:
अभितस्तत्र तक्षाणं घटमानं शचीपतिः |
२५ क
शल्य उवाच:
अपश्यदव्रवीच्चैनं सत्वरं पाकशासनः |
२५ ख
शल्य उवाच:
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ||
२५ ग
तक्षो उवाच:
महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति |
२६ क
तक्षो उवाच:
कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् ||
२६ ख
इन्द्र उवाच:
मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम |
२७ क
इन्द्र उवाच:
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ||
२७ ख
तक्षो उवाच:
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै |
२८ क
तक्षो उवाच:
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथय़स्व मे ||
२८ ख
इन्द्र उवाच:
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते |
२९ क
इन्द्र उवाच:
कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय़ ||
२९ ख
तक्षो उवाच:
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा |
३० क
तक्षो उवाच:
ऋषिपुत्रमिमं हत्वा व्रह्महत्याभय़ं न ते ||
३० ख
इन्द्र उवाच:
पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् |
३१ क
इन्द्र उवाच:
शत्रुरेष महावीर्यो वज्रेण निहतो मय़ा ||
३१ ख
इन्द्र उवाच:
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्विभेमि वै |
३२ क
इन्द्र उवाच:
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ||
३२ ख
इन्द्र उवाच:
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः |
३३ क
इन्द्र उवाच:
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रिय़म् ||
३३ ख
शल्य उवाच:
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा |
३४ क
शल्य उवाच:
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ||
३४ ख
शल्य उवाच:
निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ |
३५ क
शल्य उवाच:
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ||
३५ ख
शल्य उवाच:
येन वेदानधीते स्म पिवते सोममेव च |
३६ क
शल्य उवाच:
तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः ||
३६ ख
शल्य उवाच:
येन सर्वा दिशो राजन्पिवन्निव निरीक्षते |
३७ क
शल्य उवाच:
तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव ||
३७ ख
शल्य उवाच:
यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा |
३८ क
शल्य उवाच:
कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ ||
३८ ख
शल्य उवाच:
ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् |
३९ क
शल्य उवाच:
जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ ||
३९ ख
शल्य उवाच:
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् |
४० क
शल्य उवाच:
क्रोधसंरक्तनय़न इदं वचनमव्रवीत् ||
४० ख
शल्य उवाच:
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रिय़म् |
४१ क
शल्य उवाच:
अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम ||
४१ ख
शल्य उवाच:
तस्माच्छक्रवधार्थाय़ वृत्रमुत्पादय़ाम्यहम् |
४२ क
शल्य उवाच:
लोकाः पश्यन्तु मे वीर्यं तपसश्च वलं महत् |
४२ ख
शल्य उवाच:
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ||
४२ ग
शल्य उवाच:
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहाय़शाः |
४३ क
शल्य उवाच:
अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह |
४३ ख
शल्य उवाच:
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम ||
४३ ग
शल्य उवाच:
सोऽवर्धत दिवं स्तव्ध्वा सूर्यवैश्वानरोपमः |
४४ क
शल्य उवाच:
किं करोमीति चोवाच कालसूर्य इवोदितः |
४४ ख
शल्य उवाच:
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ||
४४ ग
शल्य उवाच:
ततो युद्धं समभवद्वृत्रवासवय़ोस्तदा |
४५ क
शल्य उवाच:
सङ्क्रुद्धय़ोर्महाघोरं प्रसक्तं कुरुसत्तम ||
४५ ख
शल्य उवाच:
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् |
४६ क
शल्य उवाच:
अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः ||
४६ ख