धृतराष्ट्र उवाच:
वर्षाणां चैव नामानि पर्वतानां च सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ||
१ ख
सञ्जय़ उवाच:
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु |
२ क
सञ्जय़ उवाच:
वर्षं रमणकं नाम जाय़न्ते तत्र मानवाः ||
२ ख
सञ्जय़ उवाच:
शुक्लाभिजनसम्पन्नाः सर्वे सुप्रिय़दर्शनाः |
३ क
सञ्जय़ उवाच:
रतिप्रधानाश्च तथा जाय़न्ते तत्र मानवाः ||
३ ख
सञ्जय़ उवाच:
दश वर्षसहस्राणि शतानि दश पञ्च च |
४ क
सञ्जय़ उवाच:
जीवन्ति ते महाराज नित्यं मुदितमानसाः ||
४ ख
सञ्जय़ उवाच:
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च |
५ क
सञ्जय़ उवाच:
वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ||
५ ख
सञ्जय़ उवाच:
यक्षानुगा महाराज धनिनः प्रिय़दर्शनाः |
६ क
सञ्जय़ उवाच:
महावलास्तत्र सदा राजन्मुदितमानसाः ||
६ ख
सञ्जय़ उवाच:
एकादश सहस्राणि वर्षाणां ते जनाधिप |
७ क
सञ्जय़ उवाच:
आय़ुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ||
७ ख
सञ्जय़ उवाच:
शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप |
८ क
सञ्जय़ उवाच:
एकं मणिमय़ं तत्र तथैकं रौक्ममद्भुतम् ||
८ ख
सञ्जय़ उवाच:
सर्वरत्नमय़ं चैकं भवनैरुपशोभितम् |
९ क
सञ्जय़ उवाच:
तत्र स्वय़म्प्रभा देवी नित्यं वसति शाण्डिली ||
९ ख
सञ्जय़ उवाच:
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप |
१० क
सञ्जय़ उवाच:
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ||
१० ख
सञ्जय़ उवाच:
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः |
११ क
सञ्जय़ उवाच:
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ||
११ ख
सञ्जय़ उवाच:
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः |
१२ क
सञ्जय़ उवाच:
पद्मपत्रसुगन्धाश्च जाय़न्ते तत्र मानवाः ||
१२ ख
सञ्जय़ उवाच:
अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रिय़ाः |
१३ क
सञ्जय़ उवाच:
देवलोकच्युताः सर्वे तथा विरजसो नृप ||
१३ ख
सञ्जय़ उवाच:
त्रय़ोदश सहस्राणि वर्षाणां ते जनाधिप |
१४ क
सञ्जय़ उवाच:
आय़ुष्प्रमाणं जीवन्ति नरा भरतसत्तम ||
१४ ख
सञ्जय़ उवाच:
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः |
१५ क
सञ्जय़ उवाच:
हरिर्वसति वैकुण्ठः शकटे कनकात्मके ||
१५ ख
सञ्जय़ उवाच:
अष्टचक्रं हि तद्यानं भूतय़ुक्तं मनोजवम् |
१६ क
सञ्जय़ उवाच:
अग्निवर्णं महावेगं जाम्वूनदपरिष्कृतम् ||
१६ ख
सञ्जय़ उवाच:
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ |
१७ क
सञ्जय़ उवाच:
सङ्क्षेपो विस्तरश्चैव कर्ता कारय़िता च सः ||
१७ ख
सञ्जय़ उवाच:
पृथिव्यापस्तथाकाशं वाय़ुस्तेजश्च पार्थिव |
१८ क
सञ्जय़ उवाच:
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ||
१८ ख
वैशम्पाय़न उवाच:
एवमुक्तः सञ्जय़ेन धृतराष्ट्रो महामनाः |
१९ क
वैशम्पाय़न उवाच:
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ||
१९ ख
वैशम्पाय़न उवाच:
स विचिन्त्य महाराज पुनरेवाव्रवीद्वचः |
२० क
वैशम्पाय़न उवाच:
असंशय़ं सूतपुत्र कालः सङ्क्षिपते जगत् |
२० ख
वैशम्पाय़न उवाच:
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ||
२० ग
वैशम्पाय़न उवाच:
नरो नाराय़णश्चैव सर्वज्ञः सर्वभूतभृत् |
२१ क
वैशम्पाय़न उवाच:
देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् ||
२१ ख