सञ्जय़ उवाच:
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् |
१ क
सञ्जय़ उवाच:
जघान समरे शूरः शरैः संनतपर्वभिः ||
१ ख
सञ्जय़ उवाच:
तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् |
२ क
सञ्जय़ उवाच:
कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः ||
२ ख
सञ्जय़ उवाच:
कर्णो राजन्महावाहुर्न्यवधीत्पाण्डवीं चमूम् |
३ क
सञ्जय़ उवाच:
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ||
३ ख
सञ्जय़ उवाच:
तत्र भारत कर्णेन नाराचैस्ताडिता गजाः |
४ क
सञ्जय़ उवाच:
नेदुः सेदुश्च मम्लुश्च वभ्रमुश्च दिशो दश ||
४ ख
सञ्जय़ उवाच:
वध्यमाने वले तस्मिन्सूतपुत्रेण मारिष |
५ क
सञ्जय़ उवाच:
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ||
५ ख
सञ्जय़ उवाच:
भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् |
६ क
सञ्जय़ उवाच:
विन्दानुविन्दौ कैकेय़ौ सात्यकिः समवारय़त् ||
६ ख
सञ्जय़ उवाच:
श्रुतकर्माणमाय़ान्तं चित्रसेनो महीपतिः |
७ क
सञ्जय़ उवाच:
प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः ||
७ ख
सञ्जय़ उवाच:
दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् |
८ क
सञ्जय़ उवाच:
संशप्तकगणान्क्रुद्धो अभ्यधावद्धनञ्जय़ः ||
८ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षय़े |
९ क
सञ्जय़ उवाच:
शिखण्डी कृतवर्माणं समासादय़दच्युतम् ||
९ ख
सञ्जय़ उवाच:
श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव |
१० क
सञ्जय़ उवाच:
दुःशासनं महाराज सहदेवः प्रतापवान् ||
१० ख
सञ्जय़ उवाच:
केकय़ौ सात्यकिं युद्धे शरवर्षेण भास्वता |
११ क
सञ्जय़ उवाच:
सात्यकिः केकय़ौ चैव छादय़ामास भारत ||
११ ख
सञ्जय़ उवाच:
तावेनं भ्रातरौ वीरं जघ्नतुर्हृदय़े भृशम् |
१२ क
सञ्जय़ उवाच:
विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे ||
१२ ख
सञ्जय़ उवाच:
शरसम्भिन्नवर्माणौ तावुभौ भ्रातरौ रणे |
१३ क
सञ्जय़ उवाच:
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ||
१३ ख
सञ्जय़ उवाच:
तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम् |
१४ क
सञ्जय़ उवाच:
छादय़ञ्शरवर्षेण वारय़ामास भारत ||
१४ ख
सञ्जय़ उवाच:
वार्यमाणौ ततस्तौ तु शैनेय़शरवृष्टिभिः |
१५ क
सञ्जय़ उवाच:
शैनेय़स्य रथं तूर्णं छादय़ामासतुः शरैः ||
१५ ख
सञ्जय़ उवाच:
तय़ोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे |
१६ क
सञ्जय़ उवाच:
अथ तौ साय़कैस्तीक्ष्णैश्छादय़ामास दुःसहैः ||
१६ ख
सञ्जय़ उवाच:
अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् |
१७ क
सञ्जय़ उवाच:
सात्यकिं पूरय़न्तौ तौ चेरतुर्लघु सुष्ठु च ||
१७ ख
सञ्जय़ उवाच:
ताभ्यां मुक्ता महावाणाः कङ्कवर्हिणवाससः |
१८ क
सञ्जय़ उवाच:
द्योतय़न्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः ||
१८ ख
सञ्जय़ उवाच:
वाणान्धकारमभवत्तय़ो राजन्महाहवे |
१९ क
सञ्जय़ उवाच:
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ||
१९ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः |
२० क
सञ्जय़ उवाच:
धनुरन्यत्समादाय़ सज्यं कृत्वा च संय़ुगे |
२० ख
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ||
२० ग
सञ्जय़ उवाच:
तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् |
२१ क
सञ्जय़ उवाच:
शम्वरस्य शिरो यद्वन्निहतस्य महारणे |
२१ ख
सञ्जय़ उवाच:
शोषय़न्केकय़ान्सर्वाञ्जगामाशु वसुन्धराम् ||
२१ ग
सञ्जय़ उवाच:
तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः |
२२ क
सञ्जय़ उवाच:
सज्यमन्यद्धनुः कृत्वा शैनेय़ं प्रत्यवारय़त् ||
२२ ख
सञ्जय़ उवाच:
स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः |
२३ क
सञ्जय़ उवाच:
ननाद वलवन्नादं तिष्ठ तिष्ठेति चाव्रवीत् ||
२३ ख
सञ्जय़ उवाच:
स सात्यकिं पुनः क्रुद्धः केकय़ानां महारथः |
२४ क
सञ्जय़ उवाच:
शरैरग्निशिखाकारैर्वाह्वोरुरसि चार्दय़त् ||
२४ ख
सञ्जय़ उवाच:
स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः |
२५ क
सञ्जय़ उवाच:
रराज समरे राजन्सपत्र इव किंशुकः ||
२५ ख
सञ्जय़ उवाच:
सात्यकिः समरे विद्धः केकय़ेन महात्मना |
२६ क
सञ्जय़ उवाच:
केकय़ं पञ्चविंशत्या विव्याध प्रहसन्निव ||
२६ ख
सञ्जय़ उवाच:
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ |
२७ क
सञ्जय़ उवाच:
व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ |
२७ ख
सञ्जय़ उवाच:
यथा देवासुरे युद्धे जम्भशक्रौ महावलौ ||
२७ ग
सञ्जय़ उवाच:
मण्डलानि ततस्तौ च विचरन्तौ महारणे |
२८ क
सञ्जय़ उवाच:
अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे ||
२८ ख
सञ्जय़ उवाच:
केकय़स्य ततश्चर्म द्विधा चिच्छेद सात्वतः |
२९ क
सञ्जय़ उवाच:
सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः ||
२९ ख
सञ्जय़ उवाच:
चर्म च्छित्त्वा तु कैकेय़स्तारागणशतैर्वृतम् |
३० क
सञ्जय़ उवाच:
चचार मण्डलान्येव गतप्रत्यागतानि च ||
३० ख
सञ्जय़ उवाच:
तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् |
३१ क
सञ्जय़ उवाच:
अपहस्तेन चिच्छेद शैनेय़स्त्वरय़ान्वितः ||
३१ ख
सञ्जय़ उवाच:
सवर्मा केकय़ो राजन्द्विधा छिन्नो महाहवे |
३२ क
सञ्जय़ उवाच:
निपपात महेष्वासो वज्रनुन्न इवाचलः ||
३२ ख
सञ्जय़ उवाच:
तं निहत्य रणे शूरः शैनेय़ो रथसत्तमः |
३३ क
सञ्जय़ उवाच:
युधामन्यो रथं तूर्णमारुरोह परन्तपः ||
३३ ख
सञ्जय़ उवाच:
ततोऽन्यं रथमास्थाय़ विधिवत्कल्पितं पुनः |
३४ क
सञ्जय़ उवाच:
केकय़ानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ||
३४ ख
सञ्जय़ उवाच:
सा वध्यमाना समरे केकय़स्य महाचमूः |
३५ क
सञ्जय़ उवाच:
तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश ||
३५ ख