chevron_left शल्य पर्व अध्याय ९
सञ्जय़ उवाच:
तत्प्रभग्नं वलं दृष्ट्वा मद्रराजः प्रतापवान् |
१ क
सञ्जय़ उवाच:
उवाच सारथिं तूर्णं चोदय़ाश्वान्महाजवान् ||
१ ख
सञ्जय़ उवाच:
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः |
२ क
सञ्जय़ उवाच:
छत्रेण ध्रिय़माणेन पाण्डुरेण विराजता ||
२ ख
सञ्जय़ उवाच:
अत्र मां प्रापय़ क्षिप्रं पश्य मे सारथे वलम् |
३ क
सञ्जय़ उवाच:
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ||
३ ख
सञ्जय़ उवाच:
एवमुक्तस्ततः प्राय़ान्मद्रराजस्य सारथिः |
४ क
सञ्जय़ उवाच:
यत्र राजा सत्यसन्धो धर्मराजो युधिष्ठिरः ||
४ ख
सञ्जय़ उवाच:
आपतन्तं च सहसा पाण्डवानां महद्वलम् |
५ क
सञ्जय़ उवाच:
दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् ||
५ ख
सञ्जय़ उवाच:
पाण्डवानां वलौघस्तु शल्यमासाद्य मारिष |
६ क
सञ्जय़ उवाच:
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ||
६ ख
सञ्जय़ उवाच:
मद्रराजं तु समरे दृष्ट्वा युद्धाय़ विष्ठितम् |
७ क
सञ्जय़ उवाच:
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ||
७ ख
सञ्जय़ उवाच:
तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः |
८ क
सञ्जय़ उवाच:
प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः |
८ ख
सञ्जय़ उवाच:
समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः ||
८ ग
सञ्जय़ उवाच:
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ |
९ क
सञ्जय़ उवाच:
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ||
९ ख
सञ्जय़ उवाच:
शरतोय़ैः सिषिचतुस्तौ परस्परमाहवे |
१० क
सञ्जय़ उवाच:
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ||
१० ख
सञ्जय़ उवाच:
उभौ कृतास्त्रौ वलिनौ रथचर्याविशारदौ |
११ क
सञ्जय़ उवाच:
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ||
११ ख
सञ्जय़ उवाच:
चित्रसेनस्तु भल्लेन पीतेन निशितेन च |
१२ क
सञ्जय़ उवाच:
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ||
१२ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः |
१३ क
सञ्जय़ उवाच:
त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समर्पय़त् ||
१३ ख
सञ्जय़ उवाच:
हय़ांश्चास्य शरैस्तीक्ष्णैः प्रेषय़ामास मृत्यवे |
१४ क
सञ्जय़ उवाच:
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातय़त् ||
१४ ख
सञ्जय़ उवाच:
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः |
१५ क
सञ्जय़ उवाच:
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ||
१५ ख
सञ्जय़ उवाच:
स छिन्नधन्वा विरथः खड्गमादाय़ चर्म च |
१६ क
सञ्जय़ उवाच:
रथादवातरद्वीरः शैलाग्रादिव केसरी ||
१६ ख
सञ्जय़ उवाच:
पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत् |
१७ क
सञ्जय़ उवाच:
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ||
१७ ख
सञ्जय़ उवाच:
चित्रसेनरथं प्राप्य चित्रय़ोधी जितश्रमः |
१८ क
सञ्जय़ उवाच:
आरुरोह महावाहुः सर्वसैन्यस्य पश्यतः ||
१८ ख
सञ्जय़ उवाच:
सकुण्डलं समुकुटं सुनसं स्वाय़तेक्षणम् |
१९ क
सञ्जय़ उवाच:
चित्रसेनशिरः काय़ादपाहरत पाण्डवः |
१९ ख
सञ्जय़ उवाच:
स पपात रथोपस्थाद्दिवाकरसमप्रभः ||
१९ ग
सञ्जय़ उवाच:
चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः |
२० क
सञ्जय़ उवाच:
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ||
२० ख
सञ्जय़ उवाच:
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ |
२१ क
सञ्जय़ उवाच:
सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् ||
२१ ख
सञ्जय़ उवाच:
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् |
२२ क
सञ्जय़ उवाच:
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ||
२२ ख
सञ्जय़ उवाच:
तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् |
२३ क
सञ्जय़ उवाच:
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ||
२३ ख
सञ्जय़ उवाच:
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः |
२४ क
सञ्जय़ उवाच:
अन्यत्कार्मुकमादाय़ रथमारुह्य वीर्यवान् |
२४ ख
सञ्जय़ उवाच:
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ||
२४ ग
सञ्जय़ उवाच:
तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः |
२५ क
सञ्जय़ उवाच:
रथं विशकलीकर्तुं समारव्धौ विशां पते ||
२५ ख
सञ्जय़ उवाच:
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे |
२६ क
सञ्जय़ उवाच:
जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः ||
२६ ख
सञ्जय़ उवाच:
ततः सन्धाय़ नाराचं रुक्मपुङ्खं शिलाशितम् |
२७ क
सञ्जय़ उवाच:
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ||
२७ ख
सञ्जय़ उवाच:
अथान्यं रथमास्थाय़ धनुरादाय़ चापरम् |
२८ क
सञ्जय़ उवाच:
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ||
२८ ख
सञ्जय़ उवाच:
अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान् |
२९ क
सञ्जय़ उवाच:
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ||
२९ ख
सञ्जय़ उवाच:
सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः |
३० क
सञ्जय़ उवाच:
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ||
३० ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ नकुलः क्रोधमूर्छितः |
३१ क
सञ्जय़ उवाच:
सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ||
३१ ख
सञ्जय़ उवाच:
सत्यसेनस्य च धनुर्हस्तावापं च मारिष |
३२ क
सञ्जय़ उवाच:
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ||
३२ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ वेगघ्नं भारसाधनम् |
३३ क
सञ्जय़ उवाच:
शरैः सञ्छादय़ामास समन्तात्पाण्डुनन्दनम् ||
३३ ख
सञ्जय़ उवाच:
संनिवार्य तु तान्वाणान्नकुलः परवीरहा |
३४ क
सञ्जय़ उवाच:
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ||
३४ ख
सञ्जय़ उवाच:
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः |
३५ क
सञ्जय़ उवाच:
सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः ||
३५ ख
सञ्जय़ उवाच:
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा |
३६ क
सञ्जय़ उवाच:
पृथक्षराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ||
३६ ख
सञ्जय़ उवाच:
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् |
३७ क
सञ्जय़ उवाच:
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ||
३७ ख
सञ्जय़ उवाच:
लेलिहानामिव विभो नागकन्यां महाविषाम् |
३८ क
सञ्जय़ उवाच:
समुद्यम्य च चिक्षेप सत्यसेनस्य संय़ुगे ||
३८ ख
सञ्जय़ उवाच:
सा तस्य हृदय़ं सङ्ख्ये विभेद शतधा नृप |
३९ क
सञ्जय़ उवाच:
स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः ||
३९ ख
सञ्जय़ उवाच:
भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः |
४० क
सञ्जय़ उवाच:
अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् ||
४० ख
सञ्जय़ उवाच:
नकुलं विरथं दृष्ट्वा द्रौपदेय़ो महावलः |
४१ क
सञ्जय़ उवाच:
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ||
४१ ख
सञ्जय़ उवाच:
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् |
४२ क
सञ्जय़ उवाच:
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी |
४२ ख
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ सुषेणं समय़ोधय़त् ||
४२ ग
सञ्जय़ उवाच:
तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् |
४३ क
सञ्जय़ उवाच:
परस्परवधे यत्नं चक्रतुः सुमहारथौ ||
४३ ख
सञ्जय़ उवाच:
सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः |
४४ क
सञ्जय़ उवाच:
सुतसोमं च विंशत्या वाह्वोरुरसि चार्पय़त् ||
४४ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज नकुलः परवीरहा |
४५ क
सञ्जय़ उवाच:
शरैस्तस्य दिशः सर्वाश्छादय़ामास वीर्यवान् ||
४५ ख
सञ्जय़ उवाच:
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् |
४६ क
सञ्जय़ उवाच:
स वेगय़ुक्तं चिक्षेप कर्णपुत्रस्य संय़ुगे ||
४६ ख
सञ्जय़ उवाच:
तस्य तेन शिरः काय़ाज्जहार नृपसत्तम |
४७ क
सञ्जय़ उवाच:
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ||
४७ ख
सञ्जय़ उवाच:
स हतः प्रापतद्राजन्नकुलेन महात्मना |
४८ क
सञ्जय़ उवाच:
नदीवेगादिवारुग्णस्तीरजः पादपो महान् ||
४८ ख