chevron_left द्रोण पर्व अध्याय ९०
सञ्जय़ उवाच:
आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ |
१ क
सञ्जय़ उवाच:
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ||
१ ख
सञ्जय़ उवाच:
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च |
२ क
सञ्जय़ उवाच:
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् |
२ ख
सञ्जय़ उवाच:
आर्तप्रलापांश्च वहून्मनुजाधिपसत्तम ||
२ ग
सञ्जय़ उवाच:
सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः |
३ क
सञ्जय़ उवाच:
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ||
३ ख
सञ्जय़ उवाच:
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षय़ः |
४ क
सञ्जय़ उवाच:
न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत |
४ ख
सञ्जय़ उवाच:
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजय़ः ||
४ ग
सञ्जय़ उवाच:
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णय़म् |
५ क
सञ्जय़ उवाच:
शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ||
५ ख
सञ्जय़ उवाच:
प्रविष्टे तव सैन्यं तु शैनेय़े सत्यविक्रमे |
६ क
सञ्जय़ उवाच:
भीमसेनमुखाः पार्थाः प्रतीय़ुर्वाहिनीं तव ||
६ ख
सञ्जय़ उवाच:
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् |
७ क
सञ्जय़ उवाच:
दधारैको रणे पाण्डून्कृतवर्मा महारथः ||
७ ख
सञ्जय़ उवाच:
यथोद्वृत्तं धारय़ते वेला वै सलिलार्णवम् |
८ क
सञ्जय़ उवाच:
पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारय़त् ||
८ ख
सञ्जय़ उवाच:
तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् |
९ क
सञ्जय़ उवाच:
यदेनं सहिताः पार्था नातिचक्रमुराहवे ||
९ ख
सञ्जय़ उवाच:
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमाय़सैः |
१० क
सञ्जय़ उवाच:
शङ्खं दध्मौ महावाहुर्हर्षय़न्सर्वपाण्डवान् ||
१० ख
सञ्जय़ उवाच:
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः |
११ क
सञ्जय़ उवाच:
शतेन नकुलश्चापि हार्दिक्यं समविध्यत ||
११ ख
सञ्जय़ उवाच:
द्रौपदेय़ास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः |
१२ क
सञ्जय़ उवाच:
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दय़त् |
१२ ख
सञ्जय़ उवाच:
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ||
१२ ग
सञ्जय़ उवाच:
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः |
१३ क
सञ्जय़ उवाच:
पुनर्विव्याध विंशत्या साय़कानां हसन्निव ||
१३ ख
सञ्जय़ उवाच:
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् |
१४ क
सञ्जय़ उवाच:
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः |
१४ ख
सञ्जय़ उवाच:
धनुर्ध्वजं च संय़त्तो रथाद्भूमावपातय़त् ||
१४ ग
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं त्वरमाणो महारथः |
१५ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ||
१५ ख
सञ्जय़ उवाच:
स गाढविद्धो वलवान्हार्दिक्यस्य शरोत्तमैः |
१६ क
सञ्जय़ उवाच:
चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ||
१६ ख
सञ्जय़ उवाच:
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः |
१७ क
सञ्जय़ उवाच:
विसृजन्तः शरान्घोरान्कृतवर्माणमार्दय़न् ||
१७ ख
सञ्जय़ उवाच:
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष |
१८ क
सञ्जय़ उवाच:
विव्यधुः साय़कैर्हृष्टा रक्षार्थं मारुतेर्मृधे ||
१८ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महावलः |
१९ क
सञ्जय़ उवाच:
शक्तिं जग्राह समरे हेमदण्डामय़स्मय़ीम् |
१९ ख
सञ्जय़ उवाच:
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ||
१९ ग
सञ्जय़ उवाच:
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा |
२० क
सञ्जय़ उवाच:
कृतवर्माणमभितः प्रजज्वाल सुदारुणा ||
२० ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् |
२१ क
सञ्जय़ उवाच:
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ||
२१ ख
सञ्जय़ उवाच:
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा |
२२ क
सञ्जय़ उवाच:
द्योतय़न्ती दिशो राजन्महोल्केव दिवश्च्युता |
२२ ख
सञ्जय़ उवाच:
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ||
२२ ग
सञ्जय़ उवाच:
ततोऽन्यद्धनुरादाय़ वेगवत्सुमहास्वनम् |
२३ क
सञ्जय़ उवाच:
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारय़त् ||
२३ ख
सञ्जय़ उवाच:
अथैनं पञ्चभिर्वाणैराजघान स्तनान्तरे |
२४ क
सञ्जय़ उवाच:
भीमो भीमवलो राजंस्तव दुर्मन्त्रितेन ह ||
२४ ख
सञ्जय़ उवाच:
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष |
२५ क
सञ्जय़ उवाच:
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ||
२५ ख
सञ्जय़ उवाच:
ततः क्रुद्धस्त्रिभिर्वाणैर्भीमसेनं हसन्निव |
२६ क
सञ्जय़ उवाच:
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ||
२६ ख
सञ्जय़ उवाच:
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् |
२७ क
सञ्जय़ उवाच:
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ||
२७ ख
सञ्जय़ उवाच:
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः |
२८ क
सञ्जय़ उवाच:
धनुश्चिच्छेद समरे प्रहसन्निव भारत ||
२८ ख
सञ्जय़ उवाच:
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् |
२९ क
सञ्जय़ उवाच:
असिं जग्राह समरे शतचन्द्रं च भास्वरम् ||
२९ ख
सञ्जय़ उवाच:
भ्रामय़ित्वा महाचर्म चामीकरविभूषितम् |
३० क
सञ्जय़ उवाच:
तमसिं प्रेषय़ामास कृतवर्मरथं प्रति ||
३० ख
सञ्जय़ उवाच:
स तस्य सशरं चापं छित्त्वा सङ्ख्ये महानसिः |
३१ क
सञ्जय़ उवाच:
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्वरात् ||
३१ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु त्वरमाणा महारथाः |
३२ क
सञ्जय़ उवाच:
विव्यधुः साय़कैर्गाढं कृतवर्माणमाहवे ||
३२ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ त्यक्त्वा तच्च महद्धनुः |
३३ क
सञ्जय़ उवाच:
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ||
३३ ख
सञ्जय़ उवाच:
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः |
३४ क
सञ्जय़ उवाच:
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ||
३४ ख
सञ्जय़ उवाच:
धनुरन्यत्समादाय़ शिखण्डी तु महाय़शाः |
३५ क
सञ्जय़ उवाच:
अवारय़त्कूर्मनखैराशुगैर्हृदिकात्मजम् ||
३५ ख
सञ्जय़ उवाच:
ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः |
३६ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ||
३६ ख
सञ्जय़ उवाच:
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः |
३७ क
सञ्जय़ उवाच:
विदर्शय़न्वलं शूरः शार्दूल इव कुञ्जरम् ||
३७ ख
सञ्जय़ उवाच:
तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ |
३८ क
सञ्जय़ उवाच:
समासेदतुरन्योन्यं शरसङ्घैररिन्दमौ ||
३८ ख
सञ्जय़ उवाच:
विधुन्वानौ धनुःश्रेष्ठे सन्दधानौ च साय़कान् |
३९ क
सञ्जय़ उवाच:
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ||
३९ ख
सञ्जय़ उवाच:
तापय़न्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ |
४० क
सञ्जय़ उवाच:
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ||
४० ख
सञ्जय़ उवाच:
कृतवर्मा तु रभसं याज्ञसेनिं महारथम् |
४१ क
सञ्जय़ उवाच:
विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ||
४१ ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |
४२ क
सञ्जय़ उवाच:
विसृजन्सशरं चापं मूर्छय़ाभिपरिप्लुतः ||
४२ ख
सञ्जय़ उवाच:
तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ |
४३ क
सञ्जय़ उवाच:
हार्दिक्यं पूजय़ामासुर्वासांस्यादुधुवुश्च ह ||
४३ ख
सञ्जय़ उवाच:
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् |
४४ क
सञ्जय़ उवाच:
अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ||
४४ ख
सञ्जय़ उवाच:
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् |
४५ क
सञ्जय़ उवाच:
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ||
४५ ख
सञ्जय़ उवाच:
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः |
४६ क
सञ्जय़ उवाच:
यदेकः समरे पार्थान्वारय़ामास सानुगान् ||
४६ ख
सञ्जय़ उवाच:
पार्थाञ्जित्वाजय़च्चेदीन्पाञ्चालान्सृञ्जय़ानपि |
४७ क
सञ्जय़ उवाच:
केकय़ांश्च महावीर्यान्कृतवर्मा महारथः ||
४७ ख