chevron_left आदि पर्व अध्याय ९०
वैशम्पाय़न उवाच:
तस्यामस्य जज्ञे भीमसेनः ||
४४ ख
वैशम्पाय़न उवाच:
भीमसेनः खलु कैकेय़ीमुपय़ेमे सुकुमारीं नाम |
४५ क
वैशम्पाय़न उवाच:
तस्यामस्य जज्ञे पर्यश्रवाः |
४५ ख
वैशम्पाय़न उवाच:
यमाहुः प्रतीपं नाम ||
४५ ग
वैशम्पाय़न उवाच:
प्रतीपः खलु शैव्यामुपय़ेमे सुनन्दां नाम |
४६ क
वैशम्पाय़न उवाच:
तस्यां पुत्रानुत्पादय़ामास देवापिं शन्तनुं वाह्लीकं चेति ||
४६ ख
वैशम्पाय़न उवाच:
देवापिः खलु वाल एवारण्यं प्रविवेश |
४७ क
वैशम्पाय़न उवाच:
शन्तनुस्तु महीपालोऽभवत् |
४७ ख
वैशम्पाय़न उवाच:
अत्रानुवंशो भवति ||
४७ ग
वैशम्पाय़न उवाच:
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते |
४८ क
वैशम्पाय़न उवाच:
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ||
४८ ख
वैशम्पाय़न उवाच:
तदस्य शन्तनुत्वम् ||
४९ क
वैशम्पाय़न उवाच:
शन्तनुः खलु गङ्गां भागीरथीमुपय़ेमे |
५० क
वैशम्पाय़न उवाच:
तस्यामस्य जज्ञे देवव्रतः |
५० ख
वैशम्पाय़न उवाच:
यमाहुर्भीष्म इति ||
५० ग
वैशम्पाय़न उवाच:
भीष्मः खलु पितुः प्रिय़चिकीर्षय़ा सत्यवतीमुदवहन्मातरम् |
५१ क
वैशम्पाय़न उवाच:
यामाहुर्गन्धकालीति ||
५१ ख
वैशम्पाय़न उवाच:
तस्यां कानीनो गर्भः पराशराद्द्वैपाय़नः |
५२ क
वैशम्पाय़न उवाच:
तस्यामेव शन्तनोर्द्वौ पुत्रौ वभूवतुः |
५२ ख
वैशम्पाय़न उवाच:
चित्राङ्गदो विचित्रवीर्यश्च ||
५२ ग
वैशम्पाय़न उवाच:
तय़ोरप्राप्तय़ौवन एव चित्राङ्गदो गन्धर्वेण हतः |
५३ क
वैशम्पाय़न उवाच:
विचित्रवीर्यस्तु राजा समभवत् ||
५३ ख
वैशम्पाय़न उवाच:
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्विकाम्वालिके काशिराजदुहितरावुपय़ेमे ||
५४ क
वैशम्पाय़न उवाच:
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः ||
५५ क
वैशम्पाय़न उवाच:
ततः सत्यवती चिन्तय़ामास |
५६ क
वैशम्पाय़न उवाच:
दौःषन्तो वंश उच्छिद्यते इति ||
५६ ख
वैशम्पाय़न उवाच:
सा द्वैपाय़नमृषिं चिन्तय़ामास ||
५७ क
वैशम्पाय़न उवाच:
स तस्याः पुरतः स्थितः किं करवाणीति ||
५८ क
वैशम्पाय़न उवाच:
सा तमुवाच |
५९ क
वैशम्पाय़न उवाच:
भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः |
५९ ख
वैशम्पाय़न उवाच:
साध्वपत्यं तस्योत्पादय़ेति ||
५९ ग
वैशम्पाय़न उवाच:
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादय़ामास धृतराष्ट्रं पाण्डुं विदुरं चेति ||
६० क
वैशम्पाय़न उवाच:
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं वभूव गान्धार्यां वरदानाद्द्वैपाय़नस्य ||
६१ क
वैशम्पाय़न उवाच:
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना वभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति ||
६२ क
वैशम्पाय़न उवाच:
पाण्डोस्तु द्वे भार्ये वभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने ||
६३ क
वैशम्पाय़न उवाच:
अथ पाण्डुर्मृगय़ां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् |
६४ क
वैशम्पाय़न उवाच:
तथैवाप्लुतमनासादितकामरसमतृप्तं वाणेनाभिजघान ||
६४ ख
वैशम्पाय़न उवाच:
स वाणविद्ध उवाच पाण्डुम् |
६५ क
वैशम्पाय़न उवाच:
चरता धर्ममिमं येन त्वय़ाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति ||
६५ ख
वैशम्पाय़न उवाच:
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये ||
६६ क
वैशम्पाय़न उवाच:
वाक्यं चोवाच |
६७ क
वैशम्पाय़न उवाच:
स्वचापल्यादिदं प्राप्तवानहम् |
६७ ख
वैशम्पाय़न उवाच:
शृणोमि च नानपत्यस्य लोका सन्तीति ||
६७ ग
वैशम्पाय़न उवाच:
सा त्वं मदर्थे पुत्रानुत्पादय़ेति कुन्तीमुवाच ||
६८ क
वैशम्पाय़न उवाच:
सा तत्र पुत्रानुत्पादय़ामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति ||
६९ क
वैशम्पाय़न उवाच:
स तां हृष्टरूपः पाण्डुरुवाच |
७० क
वैशम्पाय़न उवाच:
इय़ं ते सपत्न्यनपत्या |
७० ख
वैशम्पाय़न उवाच:
साध्वस्यामपत्यमुत्पाद्यतामिति ||
७० ग
वैशम्पाय़न उवाच:
स एवमस्त्वित्युक्तः कुन्त्या ||
७१ क
वैशम्पाय़न उवाच:
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ ||
७२ क
वैशम्पाय़न उवाच:
माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे ||
७३ क
वैशम्पाय़न उवाच:
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः ||
७४ क
वैशम्पाय़न उवाच:
तत्रैनं चितास्थं माद्री समन्वारुरोह ||
७५ क
वैशम्पाय़न उवाच:
उवाच कुन्तीम् |
७६ क
वैशम्पाय़न उवाच:
यमय़ोरार्ययाप्रमत्तय़ा भवितव्यमिति ||
७६ ख
वैशम्पाय़न उवाच:
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय़ तापसैर्भीष्मस्य विदुरस्य च निवेदिताः ||
७७ क
वैशम्पाय़न उवाच:
तत्रापि जतुगृहे दग्धुं समारव्धा न शकिता विदुरमन्त्रितेन ||
७८ क
वैशम्पाय़न उवाच:
ततश्च हिडिम्वमन्तरा हत्वा एकचक्रां गताः ||
७९ क
वैशम्पाय़न उवाच:
तस्यामप्येकचक्राय़ां वकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः ||
८० क
वैशम्पाय़न उवाच:
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषय़ं चाजग्मुः कुशलिनः ||
८१ क
वैशम्पाय़न उवाच:
पुत्रांश्चोत्पादय़ामासुः |
८२ क
वैशम्पाय़न उवाच:
प्रतिविन्ध्यं युधिष्ठिरः |
८२ ख
वैशम्पाय़न उवाच:
सुतसोमं वृकोदरः |
८२ ग
वैशम्पाय़न उवाच:
श्रुतकीर्तिमर्जुनः |
८२ घ
वैशम्पाय़न उवाच:
शतानीकं नकुलः |
८२ 5
वैशम्पाय़न उवाच:
श्रुतकर्माणं सहदेव इति ||
८२ 6
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु गोवासनस्य शैव्यस्य देविकां नाम कन्यां स्वय़ंवरे लेभे |
८३ क
वैशम्पाय़न उवाच:
तस्यां पुत्रं जनय़ामास यौधेय़ं नाम ||
८३ ख
वैशम्पाय़न उवाच:
भीमसेनोऽपि काश्यां वलधरां नामोपय़ेमे वीर्यशुल्काम् |
८४ क
वैशम्पाय़न उवाच:
तस्यां पुत्रं सर्वगं नामोत्पादय़ामास ||
८४ ख
वैशम्पाय़न उवाच:
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् |
८५ क
वैशम्पाय़न उवाच:
तस्यां पुत्रमभिमन्युं नाम जनय़ामास ||
८५ ख
वैशम्पाय़न उवाच:
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् |
८६ क
वैशम्पाय़न उवाच:
तस्यां पुत्रं निरमित्रं नामाजनय़त् ||
८६ ख
वैशम्पाय़न उवाच:
सहदेवोऽपि माद्रीमेव स्वय़ंवरे विजय़ां नामोपय़ेमे |
८७ क
वैशम्पाय़न उवाच:
तस्यां पुत्रमजनय़त्सुहोत्रं नाम ||
८७ ख
वैशम्पाय़न उवाच:
भीमसेनस्तु पूर्वमेव हिडिम्वाय़ां राक्षस्यां घटोत्कचं नाम पुत्रं जनय़ामास ||
८८ क
वैशम्पाय़न उवाच:
इत्येते एकादश पाण्डवानां पुत्राः ||
८९ क
वैशम्पाय़न उवाच:
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपय़ेमे |
९० क
वैशम्पाय़न उवाच:
तस्यामस्य परासुर्गर्भोऽजाय़त ||
९० ख
वैशम्पाय़न उवाच:
तमुत्सङ्गेन प्रतिजग्राह पृथा निय़ोगात्पुरुषोत्तमस्य वासुदेवस्य |
९१ क
वैशम्पाय़न उवाच:
षाण्मासिकं गर्भमहमेनं जीवय़िष्यामीति ||
९१ ख
वैशम्पाय़न उवाच:
सञ्जीवय़ित्वा चैनमुवाच |
९२ क
वैशम्पाय़न उवाच:
परिक्षीणे कुले जातो भवत्वय़ं परिक्षिन्नामेति ||
९२ ख
वैशम्पाय़न उवाच:
परिक्षित्तु खलु माद्रवतीं नामोपय़ेमे |
९३ क
वैशम्पाय़न उवाच:
तस्यामस्य जनमेजय़ः ||
९३ ख
वैशम्पाय़न उवाच:
जनमेजय़ात्तु वपुष्टमाय़ां द्वौ पुत्रौ शतानीकः शङ्कुश्च ||
९४ क
वैशम्पाय़न उवाच:
शतानीकस्तु खलु वैदेहीमुपय़ेमे |
९५ क
वैशम्पाय़न उवाच:
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ||
९५ ख
वैशम्पाय़न उवाच:
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः |
९६ क
वैशम्पाय़न उवाच:
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ||
९६ ख