युधिष्ठिर उवाच:
कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह |
१ क
युधिष्ठिर उवाच:
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ||
१ ख
भीष्म उवाच:
व्राह्मणान्न परीक्षेत क्षत्रिय़ो दानधर्मवित् |
२ क
भीष्म उवाच:
दैवे कर्मणि पित्र्ये तु न्याय़्यमाहुः परीक्षणम् ||
२ ख
भीष्म उवाच:
देवताः पूजय़न्तीह दैवेनैवेह तेजसा |
३ क
भीष्म उवाच:
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापय़ेन्नरः ||
३ ख
भीष्म उवाच:
श्राद्धे त्वथ महाराज परीक्षेद्व्राह्मणान्वुधः |
४ क
भीष्म उवाच:
कुलशीलवय़ोरूपैर्विद्ययाभिजनेन च ||
४ ख
भीष्म उवाच:
एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः |
५ क
भीष्म उवाच:
अपाङ्क्तेय़ास्तु ये राजन्कीर्तय़िष्यामि ताञ्शृणु ||
५ ख
भीष्म उवाच:
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः |
६ क
भीष्म उवाच:
ग्रामप्रेष्यो वार्धुषिको गाय़नः सर्वविक्रय़ी ||
६ ख
भीष्म उवाच:
अगारदाही गरदः कुण्डाशी सोमविक्रय़ी |
७ क
भीष्म उवाच:
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ||
७ ख
भीष्म उवाच:
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे |
८ क
भीष्म उवाच:
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ||
८ ख
भीष्म उवाच:
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः |
९ क
भीष्म उवाच:
अव्रतानामुपाध्याय़ः काण्डपृष्ठस्तथैव च ||
९ ख
भीष्म उवाच:
श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च |
१० क
भीष्म उवाच:
परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः |
१० ख
भीष्म उवाच:
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ||
१० ग
भीष्म उवाच:
एतानिह विजानीय़ादपाङ्क्तेय़ान्द्विजाधमान् |
११ क
भीष्म उवाच:
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ||
११ ख
भीष्म उवाच:
षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति |
१२ क
भीष्म उवाच:
पङ्क्त्यां समुपविष्टाय़ां तावद्दूषय़ते नृप ||
१२ ख
भीष्म उवाच:
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः |
१३ क
भीष्म उवाच:
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ||
१३ ख
भीष्म उवाच:
असूय़ता च यद्दत्तं यच्च श्रद्धाविवर्जितम् |
१४ क
भीष्म उवाच:
सर्वं तदसुरेन्द्राय़ व्रह्मा भागमकल्पय़त् ||
१४ ख
भीष्म उवाच:
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन |
१५ क
भीष्म उवाच:
तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरय़ेत् ||
१५ ख
भीष्म उवाच:
तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः |
१६ क
भीष्म उवाच:
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ||
१६ ख
भीष्म उवाच:
यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति |
१७ क
भीष्म उवाच:
तावत्फलाद्भ्रंशय़ति दातारं तस्य वालिशम् ||
१७ ख
भीष्म उवाच:
इमे तु भरतश्रेष्ठ विज्ञेय़ाः पङ्क्तिपावनाः |
१८ क
भीष्म उवाच:
ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ||
१८ ख
भीष्म उवाच:
वेदविद्याव्रतस्नाता व्राह्मणाः सर्व एव हि |
१९ क
भीष्म उवाच:
पाङ्क्तेय़ान्यांस्तु वक्ष्यामि ज्ञेय़ास्ते पङ्क्तिपावनाः ||
१९ ख
भीष्म उवाच:
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् |
२० क
भीष्म उवाच:
व्रह्मदेय़ानुसन्तानश्छन्दोगो ज्येष्ठसामगः ||
२० ख
भीष्म उवाच:
मातापित्रोर्यश्च वश्यः श्रोत्रिय़ो दशपूरुषः |
२१ क
भीष्म उवाच:
ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा |
२१ ख
भीष्म उवाच:
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ||
२१ ग
भीष्म उवाच:
अथर्वशिरसोऽध्येता व्रह्मचारी यतव्रतः |
२२ क
भीष्म उवाच:
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः ||
२२ ख
भीष्म उवाच:
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः |
२३ क
भीष्म उवाच:
मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः ||
२३ ख
भीष्म उवाच:
अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रिय़ाः |
२४ क
भीष्म उवाच:
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रय़ेत् |
२४ ख
भीष्म उवाच:
एतेषु दत्तमक्षय़्यमेते वै पङ्क्तिपावनाः ||
२४ ग
भीष्म उवाच:
इमे परे महाराज विज्ञेय़ाः पङ्क्तिपावनाः |
२५ क
भीष्म उवाच:
यतय़ो मोक्षधर्मज्ञा योगाः सुचरितव्रताः ||
२५ ख
भीष्म उवाच:
ये चेतिहासं प्रय़ताः श्रावय़न्ति द्विजोत्तमान् |
२६ क
भीष्म उवाच:
ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ||
२६ ख
भीष्म उवाच:
अधीय़ते पुराणं ये धर्मशास्त्राण्यथापि च |
२७ क
भीष्म उवाच:
अधीत्य च यथान्याय़ं विधिवत्तस्य कारिणः ||
२७ ख
भीष्म उवाच:
उपपन्नो गुरुकुले सत्यवादी सहस्रदः |
२८ क
भीष्म उवाच:
अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च ||
२८ ख
भीष्म उवाच:
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत |
२९ क
भीष्म उवाच:
ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते ||
२९ ख
भीष्म उवाच:
क्रोशादर्धतृतीय़ात्तु पावय़ेदेक एव हि |
३० क
भीष्म उवाच:
व्रह्मदेय़ानुसन्तान इति व्रह्मविदो विदुः ||
३० ख
भीष्म उवाच:
अनृत्विगनुपाध्याय़ः स चेदग्रासनं व्रजेत् |
३१ क
भीष्म उवाच:
ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ||
३१ ख
भीष्म उवाच:
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः |
३२ क
भीष्म उवाच:
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ||
३२ ख
भीष्म उवाच:
तस्मात्सर्वप्रय़त्नेन परीक्ष्यामन्त्रय़ेद्द्विजान् |
३३ क
भीष्म उवाच:
स्वकर्मनिरतान्दान्तान्कुले जातान्वहुश्रुतान् ||
३३ ख
भीष्म उवाच:
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च |
३४ क
भीष्म उवाच:
न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति ||
३४ ख
भीष्म उवाच:
यश्च श्राद्धे कुरुते सङ्गतानि; न देवय़ानेन पथा स याति |
३५ क
भीष्म उवाच:
स वै मुक्तः पिप्पलं वन्धनाद्वा; स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः ||
३५ ख
भीष्म उवाच:
तस्मान्मित्रं श्राद्धकृन्नाद्रिय़ेत; दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि |
३६ क
भीष्म उवाच:
यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भोजय़ेद्धव्यकव्ये ||
३६ ख
भीष्म उवाच:
यथोषरे वीजमुप्तं न रोहे; न्न चास्योप्ता प्राप्नुय़ाद्वीजभागम् |
३७ क
भीष्म उवाच:
एवं श्राद्धं भुक्तमनर्हमाणै; र्न चेह नामुत्र फलं ददाति ||
३७ ख
भीष्म उवाच:
व्राह्मणो ह्यनधीय़ानस्तृणाग्निरिव शाम्यति |
३८ क
भीष्म उवाच:
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूय़ते ||
३८ ख
भीष्म उवाच:
सम्भोजनी नाम पिशाचदक्षिणा; सा नैव देवान्न पितॄनुपैति |
३९ क
भीष्म उवाच:
इहैव सा भ्राम्यति क्षीणपुण्या; शालान्तरे गौरिव नष्टवत्सा ||
३९ ख
भीष्म उवाच:
यथाग्नौ शान्ते घृतमाजुहोति; तन्नैव देवान्न पितॄनुपैति |
४० क
भीष्म उवाच:
तथा दत्तं नर्तने गाय़ने च; यां चानृचे दक्षिणामावृणोति ||
४० ख
भीष्म उवाच:
उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीय़ते वै |
४१ क
भीष्म उवाच:
आघातनी गर्हितैषा पतन्ती; तेषां प्रेतान्पातय़ेद्देवय़ानात् ||
४१ ख
भीष्म उवाच:
ऋषीणां समय़ं नित्यं ये चरन्ति युधिष्ठिर |
४२ क
भीष्म उवाच:
निश्चिताः सर्वधर्मज्ञास्तान्देवा व्राह्मणान्विदुः ||
४२ ख
भीष्म उवाच:
स्वाध्याय़निष्ठा ऋषय़ो ज्ञाननिष्ठास्तथैव च |
४३ क
भीष्म उवाच:
तपोनिष्ठाश्च वोद्धव्याः कर्मनिष्ठाश्च भारत ||
४३ ख
भीष्म उवाच:
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत |
४४ क
भीष्म उवाच:
तत्र ये व्राह्मणाः केचिन्न निन्दति हि ते वराः ||
४४ ख
भीष्म उवाच:
ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजय़ेत् |
४५ क
भीष्म उवाच:
व्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम् ||
४५ ख
भीष्म उवाच:
वैखानसानां वचनमृषीणां श्रूय़ते नृप |
४६ क
भीष्म उवाच:
दूरादेव परीक्षेत व्राह्मणान्वेदपारगान् |
४६ ख
भीष्म उवाच:
प्रिय़ान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् ||
४६ ग
भीष्म उवाच:
यः सहस्रं सहस्राणां भोजय़ेदनृचां नरः |
४७ क
भीष्म उवाच:
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ||
४७ ख