वैशम्पाय़न उवाच:
स प्रविश्य यथान्याय़ं पाण्डवानां निवेशनम् |
१ क
वैशम्पाय़न उवाच:
पितामहीमभ्यवदत्साम्ना परमवल्गुना ||
१ ख
वैशम्पाय़न उवाच:
तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च |
२ क
वैशम्पाय़न उवाच:
पृथां कृष्णां च सहिते विनय़ेनाभिजग्मतुः |
२ ख
वैशम्पाय़न उवाच:
सुभद्रां च यथान्याय़ं याश्चान्याः कुरुय़ोषितः ||
२ ग
वैशम्पाय़न उवाच:
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च |
३ क
वैशम्पाय़न उवाच:
द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रिय़ः ||
३ ख
वैशम्पाय़न उवाच:
ऊषतुस्तत्र ते देव्यौ महार्हशय़नासने |
४ क
वैशम्पाय़न उवाच:
सुपूजिते स्वय़ं कुन्त्या पार्थस्य प्रिय़काम्यया ||
४ ख
वैशम्पाय़न उवाच:
स च राजा महावीर्यः पूजितो वभ्रुवाहनः |
५ क
वैशम्पाय़न उवाच:
धृतराष्ट्रं महीपालमुपतस्थे यथाविधि ||
५ ख
वैशम्पाय़न उवाच:
युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् |
६ क
वैशम्पाय़न उवाच:
उपगम्य महातेजा विनय़ेनाभ्यवादय़त् ||
६ ख
वैशम्पाय़न उवाच:
स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि |
७ क
वैशम्पाय़न उवाच:
धनं चास्मै ददुर्भूरि प्रीय़माणा महारथाः ||
७ ख
वैशम्पाय़न उवाच:
तथैव स महीपालः कृष्णं चक्रगदाधरम् |
८ क
वैशम्पाय़न उवाच:
प्रद्युम्न इव गोविन्दं विनय़ेनोपतस्थिवान् ||
८ ख
वैशम्पाय़न उवाच:
तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् |
९ क
वैशम्पाय़न उवाच:
रथं हेमपरिष्कारं दिव्याश्वय़ुजमुत्तमम् ||
९ ख
वैशम्पाय़न उवाच:
धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा |
१० क
वैशम्पाय़न उवाच:
पृथक्पृथगतीवैनं मानार्हं समपूजय़न् ||
१० ख
वैशम्पाय़न उवाच:
ततस्तृतीय़े दिवसे सत्यवत्याः सुतो मुनिः |
११ क
वैशम्पाय़न उवाच:
युधिष्ठिरं समभ्येत्य वाग्मी वचनमव्रवीत् ||
११ ख
वैशम्पाय़न उवाच:
अद्य प्रभृति कौन्तेय़ यजस्व समय़ो हि ते |
१२ क
वैशम्पाय़न उवाच:
मुहूर्तो यज्ञिय़ः प्राप्तश्चोदय़न्ति च याजकाः ||
१२ ख
वैशम्पाय़न उवाच:
अहीनो नाम राजेन्द्र क्रतुस्तेऽय़ं विकल्पवान् |
१३ क
वैशम्पाय़न उवाच:
वहुत्वात्काञ्चनस्यास्य ख्यातो वहुसुवर्णकः ||
१३ ख
वैशम्पाय़न उवाच:
एवमेव महाराज दक्षिणां त्रिगुणां कुरु |
१४ क
वैशम्पाय़न उवाच:
त्रित्वं व्रजतु ते राजन्व्राह्मणा ह्यत्र कारणम् ||
१४ ख
वैशम्पाय़न उवाच:
त्रीनश्वमेधानत्र त्वं सम्प्राप्य वहुदक्षिणान् |
१५ क
वैशम्पाय़न उवाच:
ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ||
१५ ख
वैशम्पाय़न उवाच:
पवित्रं परमं ह्येतत्पावनानां च पावनम् |
१६ क
वैशम्पाय़न उवाच:
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ||
१६ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा |
१७ क
वैशम्पाय़न उवाच:
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तय़े तदा |
१७ ख
वैशम्पाय़न उवाच:
नराधिपः प्राय़जत वाजिमेधं महाक्रतुम् ||
१७ ग
वैशम्पाय़न उवाच:
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः |
१८ क
वैशम्पाय़न उवाच:
परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः ||
१८ ख
वैशम्पाय़न उवाच:
न तेषां स्खलितं तत्र नासीदपहुतं तथा |
१९ क
वैशम्पाय़न उवाच:
क्रमय़ुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ||
१९ ख
वैशम्पाय़न उवाच:
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः |
२० क
वैशम्पाय़न उवाच:
चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ||
२० ख
वैशम्पाय़न उवाच:
अभिषूय़ ततो राजन्सोमं सोमपसत्तमाः |
२१ क
वैशम्पाय़न उवाच:
सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः ||
२१ ख
वैशम्पाय़न उवाच:
न तत्र कृपणः कश्चिन्न दरिद्रो वभूव ह |
२२ क
वैशम्पाय़न उवाच:
क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः ||
२२ ख
वैशम्पाय़न उवाच:
भोजनं भोजनार्थिभ्यो दापय़ामास नित्यदा |
२३ क
वैशम्पाय़न उवाच:
भीमसेनो महातेजाः सततं राजशासनात् ||
२३ ख
वैशम्पाय़न उवाच:
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः |
२४ क
वैशम्पाय़न उवाच:
दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ||
२४ ख
वैशम्पाय़न उवाच:
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः |
२५ क
वैशम्पाय़न उवाच:
नाव्रतो नानुपाध्याय़ो न च वादाक्षमो द्विजः ||
२५ ख
वैशम्पाय़न उवाच:
ततो यूपोच्छ्रय़े प्राप्ते षड्वैल्वान्भरतर्षभ |
२६ क
वैशम्पाय़न उवाच:
खादिरान्विल्वसमितांस्तावतः सर्ववर्णिनः ||
२६ ख
वैशम्पाय़न उवाच:
देवदारुमय़ौ द्वौ तु यूपौ कुरुपतेः क्रतौ |
२७ क
वैशम्पाय़न उवाच:
श्लेष्मातकमय़ं चैकं याजकाः समकारय़न् ||
२७ ख
वैशम्पाय़न उवाच:
शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ |
२८ क
वैशम्पाय़न उवाच:
स भीमः कारय़ामास धर्मराजस्य शासनात् ||
२८ ख
वैशम्पाय़न उवाच:
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः |
२९ क
वैशम्पाय़न उवाच:
नरेन्द्राभिगता देवान्यथा सप्तर्षय़ो दिवि ||
२९ ख
वैशम्पाय़न उवाच:
इष्टकाः काञ्चनीश्चात्र चय़नार्थं कृताभवन् |
३० क
वैशम्पाय़न उवाच:
शुशुभे चय़नं तत्र दक्षस्येव प्रजापतेः ||
३० ख
वैशम्पाय़न उवाच:
चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः |
३१ क
वैशम्पाय़न उवाच:
स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः ||
३१ ख
वैशम्पाय़न उवाच:
ततो निय़ुक्ताः पशवो यथाशास्त्रं मनीषिभिः |
३२ क
वैशम्पाय़न उवाच:
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ||
३२ ख
वैशम्पाय़न उवाच:
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये |
३३ क
वैशम्पाय़न उवाच:
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचय़कर्मणि ||
३३ ख
वैशम्पाय़न उवाच:
यूपेषु निय़तं चासीत्पशूनां त्रिशतं तथा |
३४ क
वैशम्पाय़न उवाच:
अश्वरत्नोत्तरं राज्ञः कौन्तेय़स्य महात्मनः ||
३४ ख
वैशम्पाय़न उवाच:
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः |
३५ क
वैशम्पाय़न उवाच:
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः ||
३५ ख
वैशम्पाय़न उवाच:
स किम्पुरुषगीतैश्च किंनरैरुपशोभितः |
३६ क
वैशम्पाय़न उवाच:
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ||
३६ ख
वैशम्पाय़न उवाच:
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः |
३७ क
वैशम्पाय़न उवाच:
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ||
३७ ख
वैशम्पाय़न उवाच:
नारदश्च वभूवात्र तुम्वुरुश्च महाद्युतिः |
३८ क
वैशम्पाय़न उवाच:
विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः ||
३८ ख
वैशम्पाय़न उवाच:
गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः |
३९ क
वैशम्पाय़न उवाच:
रमय़न्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ ||
३९ ख