chevron_left उद्योग पर्व अध्याय ९०
वैशम्पाय़न उवाच:
तं भुक्तवन्तमाश्वस्तं निशाय़ां विदुरोऽव्रवीत् |
१ क
वैशम्पाय़न उवाच:
नेदं सम्यग्व्यवसितं केशवागमनं तव ||
१ ख
वैशम्पाय़न उवाच:
अर्थधर्मातिगो मूढः संरम्भी च जनार्दन |
२ क
वैशम्पाय़न उवाच:
मानघ्नो मानकामश्च वृद्धानां शासनातिगः ||
२ ख
वैशम्पाय़न उवाच:
धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः |
३ क
वैशम्पाय़न उवाच:
अनेय़ः श्रेय़सां पापो धार्तराष्ट्रो जनार्दन ||
३ ख
वैशम्पाय़न उवाच:
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः |
४ क
वैशम्पाय़न उवाच:
अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रिय़ानृतः ||
४ ख
वैशम्पाय़न उवाच:
एतैश्चान्यैश्च वहुभिर्दोषैरेष समन्वितः |
५ क
वैशम्पाय़न उवाच:
त्वय़ोच्यमानः श्रेय़ोऽपि संरम्भान्न ग्रहीष्यति ||
५ ख
वैशम्पाय़न उवाच:
सेनासमुदय़ं दृष्ट्वा पार्थिवं मधुसूदन |
६ क
वैशम्पाय़न उवाच:
कृतार्थं मन्यते वाल आत्मानमविचक्षणः ||
६ ख
वैशम्पाय़न उवाच:
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् |
७ क
वैशम्पाय़न उवाच:
धार्तराष्ट्रस्य दुर्वुद्धेः स शमं नोपय़ास्यति ||
७ ख
वैशम्पाय़न उवाच:
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जय़द्रथे |
८ क
वैशम्पाय़न उवाच:
भूय़सीं वर्तते वृत्तिं न शमे कुरुते मनः ||
८ ख
वैशम्पाय़न उवाच:
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन |
९ क
वैशम्पाय़न उवाच:
भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् ||
९ ख
वैशम्पाय़न उवाच:
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव |
१० क
वैशम्पाय़न उवाच:
शमे प्रय़तमानस्य तव सौभ्रात्रकाङ्क्षिणः ||
१० ख
वैशम्पाय़न उवाच:
न पाण्डवानामस्माभिः प्रतिदेय़ं यथोचितम् |
११ क
वैशम्पाय़न उवाच:
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ||
११ ख
वैशम्पाय़न उवाच:
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन |
१२ क
वैशम्पाय़न उवाच:
न तत्र प्रलपेत्प्राज्ञो वधिरेष्विव गाय़नः ||
१२ ख
वैशम्पाय़न उवाच:
अविजानत्सु मूढेषु निर्मर्यादेषु माधव |
१३ क
वैशम्पाय़न उवाच:
न त्वं वाक्यं व्रुवन्युक्तश्चाण्डालेषु द्विजो यथा ||
१३ ख
वैशम्पाय़न उवाच:
सोऽय़ं वलस्थो मूढश्च न करिष्यति ते वचः |
१४ क
वैशम्पाय़न उवाच:
तस्मिन्निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव ||
१४ ख
वैशम्पाय़न उवाच:
तेषां समुपविष्टानां सर्वेषां पापचेतसाम् |
१५ क
वैशम्पाय़न उवाच:
तव मध्यावतरणं मम कृष्ण न रोचते ||
१५ ख
वैशम्पाय़न उवाच:
दुर्वुद्धीनामशिष्टानां वहूनां पापचेतसाम् |
१६ क
वैशम्पाय़न उवाच:
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ||
१६ ख
वैशम्पाय़न उवाच:
अनुपासितवृद्धत्वाच्छ्रिय़ा मोहाच्च दर्पितः |
१७ क
वैशम्पाय़न उवाच:
वय़ोदर्पादमर्षाच्च न ते श्रेय़ो ग्रहीष्यति ||
१७ ख
वैशम्पाय़न उवाच:
वलं वलवदप्यस्य यदि वक्ष्यसि माधव |
१८ क
वैशम्पाय़न उवाच:
त्वय़्यस्य महती शङ्का न करिष्यति ते वचः ||
१८ ख
वैशम्पाय़न उवाच:
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः |
१९ क
वैशम्पाय़न उवाच:
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ||
१९ ख
वैशम्पाय़न उवाच:
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु |
२० क
वैशम्पाय़न उवाच:
समर्थमपि ते वाक्यमसमर्थं भविष्यति ||
२० ख
वैशम्पाय़न उवाच:
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो; रथाश्वय़ुक्तस्य वलस्य मूढः |
२१ क
वैशम्पाय़न उवाच:
दुर्योधनो मन्यते वीतमन्युः; कृत्स्ना मय़ेय़ं पृथिवी जितेति ||
२१ ख
वैशम्पाय़न उवाच:
आशंसते धृतराष्ट्रस्य पुत्रो; महाराज्यमसपत्नं पृथिव्याम् |
२२ क
वैशम्पाय़न उवाच:
तस्मिञ्शमः केवलो नोपलभ्यो; वद्धं सन्तमागतं मन्यतेऽर्थम् ||
२२ ख
वैशम्पाय़न उवाच:
पर्यस्तेय़ं पृथिवी कालपक्वा; दुर्योधनार्थे पाण्डवान्योद्धुकामाः |
२३ क
वैशम्पाय़न उवाच:
समागताः सर्वय़ोधाः पृथिव्यां; राजानश्च क्षितिपालैः समेताः ||
२३ ख
वैशम्पाय़न उवाच:
सर्वे चैते कृतवैराः पुरस्ता; त्त्वय़ा राजानो हृतसाराश्च कृष्ण |
२४ क
वैशम्पाय़न उवाच:
तवोद्वेगात्संश्रिता धार्तराष्ट्रा; न्सुसंहताः सह कर्णेन वीराः ||
२४ ख
वैशम्पाय़न उवाच:
त्यक्तात्मानः सह दुर्योधनेन; सृष्टा योद्धुं पाण्डवान्सर्वय़ोधाः |
२५ क
वैशम्पाय़न उवाच:
तेषां मध्ये प्रविशेथा यदि त्वं; न तन्मतं मम दाशार्ह वीर ||
२५ ख
वैशम्पाय़न उवाच:
तेषां समुपविष्टानां वहूनां दुष्टचेतसाम् |
२६ क
वैशम्पाय़न उवाच:
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ||
२६ ख
वैशम्पाय़न उवाच:
सर्वथा त्वं महावाहो देवैरपि दुरुत्सहः |
२७ क
वैशम्पाय़न उवाच:
प्रभावं पौरुषं वुद्धिं जानामि तव शत्रुहन् ||
२७ ख
वैशम्पाय़न उवाच:
या मे प्रीतिः पाण्डवेषु भूय़ः सा त्वय़ि माधव |
२८ क
वैशम्पाय़न उवाच:
प्रेम्णा च वहुमानाच्च सौहृदाच्च व्रवीम्यहम् ||
२८ ख