chevron_left भीष्म पर्व अध्याय ९०
सञ्जय़ उवाच:
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वय़म् |
१ क
सञ्जय़ उवाच:
अभ्यधावत सङ्क्रुद्धो भीमसेनमरिन्दमम् ||
१ ख
सञ्जय़ उवाच:
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् |
२ क
सञ्जय़ उवाच:
महता शरवर्षेण पाण्डवं समवाकिरत् ||
२ ख
सञ्जय़ उवाच:
अर्धचन्द्रं च सन्धाय़ सुतीक्ष्णं लोमवाहिनम् |
३ क
सञ्जय़ उवाच:
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ||
३ ख
सञ्जय़ उवाच:
तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः |
४ क
सञ्जय़ उवाच:
सन्दधे निशितं वाणं गिरीणामपि दारणम् |
४ ख
सञ्जय़ उवाच:
तेनोरसि महावाहुर्भीमसेनमताडय़त् ||
४ ग
सञ्जय़ उवाच:
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् |
५ क
सञ्जय़ उवाच:
समाललम्वे तेजस्वी ध्वजं हेमपरिष्कृतम् ||
५ ख
सञ्जय़ उवाच:
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः |
६ क
सञ्जय़ उवाच:
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ||
६ ख
सञ्जय़ उवाच:
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः |
७ क
सञ्जय़ उवाच:
समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः ||
७ ख
सञ्जय़ उवाच:
सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् |
८ क
सञ्जय़ उवाच:
भारद्वाजोऽव्रवीद्वाक्यं तावकानां महारथान् ||
८ ख
सञ्जय़ उवाच:
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत |
९ क
सञ्जय़ उवाच:
संशय़ं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ||
९ ख
सञ्जय़ उवाच:
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः |
१० क
सञ्जय़ उवाच:
भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ||
१० ख
सञ्जय़ उवाच:
नानाविधानि शस्त्राणि विसृजन्तो जय़े रताः |
११ क
सञ्जय़ उवाच:
नदन्तो भैरवान्नादांस्त्रासय़न्तश्च भूमिमाम् ||
११ ख
सञ्जय़ उवाच:
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः |
१२ क
सञ्जय़ उवाच:
तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ||
१२ ख
सञ्जय़ उवाच:
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः |
१३ क
सञ्जय़ उवाच:
चित्रसेनो विकर्णश्च सैन्धवोऽथ वृहद्वलः |
१३ ख
सञ्जय़ उवाच:
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारय़न् ||
१३ ग
सञ्जय़ उवाच:
ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे |
१४ क
सञ्जय़ उवाच:
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ||
१४ ख
सञ्जय़ उवाच:
एवमुक्त्वा महावाहुर्महद्विस्फार्य कार्मुकम् |
१५ क
सञ्जय़ उवाच:
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पय़त् ||
१५ ख
सञ्जय़ उवाच:
भूय़श्चैनं महावाहुः शरैः शीघ्रमवाकिरत् |
१६ क
सञ्जय़ उवाच:
पर्वतं वारिधाराभिः शरदीव वलाहकः ||
१६ ख
सञ्जय़ उवाच:
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः |
१७ क
सञ्जय़ उवाच:
त्वरमाणो महेष्वासः सव्ये पार्श्वे महावलः ||
१७ ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितो वय़ोवृद्धश्च भारत |
१८ क
सञ्जय़ उवाच:
प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् ||
१८ ख
सञ्जय़ उवाच:
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वय़म् |
१९ क
सञ्जय़ उवाच:
द्रौणाय़निश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ ||
१९ ख
सञ्जय़ उवाच:
तावापतन्तौ सम्प्रेक्ष्य कालान्तकय़मोपमौ |
२० क
सञ्जय़ उवाच:
भीमसेनो महावाहुर्गदामादाय़ सत्वरः ||
२० ख
सञ्जय़ उवाच:
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः |
२१ क
सञ्जय़ उवाच:
समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ||
२१ ख
सञ्जय़ उवाच:
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |
२२ क
सञ्जय़ उवाच:
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ||
२२ ख
सञ्जय़ उवाच:
तावापतन्तौ सहितौ त्वरितौ वलिनां वरौ |
२३ क
सञ्जय़ उवाच:
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ||
२३ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् |
२४ क
सञ्जय़ उवाच:
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ||
२४ ख
सञ्जय़ उवाच:
भारद्वाजमुखाः सर्वे भीमसेनजिघांसय़ा |
२५ क
सञ्जय़ उवाच:
नानाविधानि शस्त्राणि भीमस्योरस्यपातय़न् |
२५ ख
सञ्जय़ उवाच:
सहिताः पाण्डवं सर्वे पीडय़न्तः समन्ततः ||
२५ ग
सञ्जय़ उवाच:
तं दृष्ट्वा संशय़ं प्राप्तं पीड्यमानं महारथम् |
२६ क
सञ्जय़ उवाच:
अभिमन्युप्रभृतय़ः पाण्डवानां महारथाः |
२६ ख
सञ्जय़ उवाच:
अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ||
२६ ग
सञ्जय़ उवाच:
अनूपाधिपतिः शूरो भीमस्य दय़ितः सखा |
२७ क
सञ्जय़ उवाच:
नीलो नीलाम्वुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् |
२७ ख
सञ्जय़ उवाच:
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ||
२७ ग
सञ्जय़ उवाच:
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा |
२८ क
सञ्जय़ उवाच:
यथा शक्रो महाराज पुरा विव्याध दानवम् ||
२८ ख
सञ्जय़ उवाच:
विप्रचित्तिं दुराधर्षं देवतानां भय़ङ्करम् |
२९ क
सञ्जय़ उवाच:
येन लोकत्रय़ं क्रोधात्त्रासितं स्वेन तेजसा ||
२९ ख
सञ्जय़ उवाच:
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा |
३० क
सञ्जय़ उवाच:
सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ||
३० ख
सञ्जय़ उवाच:
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् |
३१ क
सञ्जय़ उवाच:
दध्रे नीलविनाशाय़ मतिं मतिमतां वरः ||
३१ ख
सञ्जय़ उवाच:
ततः सन्धाय़ विमलान्भल्लान्कर्मारपाय़ितान् |
३२ क
सञ्जय़ उवाच:
जघान चतुरो वाहान्पातय़ामास च ध्वजम् ||
३२ ख
सञ्जय़ उवाच:
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि |
३३ क
सञ्जय़ उवाच:
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ||
३३ ख
सञ्जय़ उवाच:
मोहितं वीक्ष्य राजानं नीलमभ्रचय़ोपमम् |
३४ क
सञ्जय़ उवाच:
घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः ||
३४ ख
सञ्जय़ उवाच:
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् |
३५ क
सञ्जय़ उवाच:
तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ||
३५ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् |
३६ क
सञ्जय़ उवाच:
अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ||
३६ ख
सञ्जय़ उवाच:
निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् |
३७ क
सञ्जय़ उवाच:
योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ||
३७ ख
सञ्जय़ उवाच:
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः |
३८ क
सञ्जय़ उवाच:
अक्रुध्यत महाकाय़ो भैमसेनिर्घटोत्कचः ||
३८ ख
सञ्जय़ उवाच:
प्रादुश्चक्रे महामाय़ां घोररूपां सुदारुणाम् |
३९ क
सञ्जय़ उवाच:
मोहय़न्समरे द्रौणिं माय़ावी राक्षसाधिपः ||
३९ ख
सञ्जय़ उवाच:
ततस्ते तावकाः सर्वे माय़या विमुखीकृताः |
४० क
सञ्जय़ उवाच:
अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले |
४० ख
सञ्जय़ उवाच:
विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ||
४० ग
सञ्जय़ उवाच:
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च |
४१ क
सञ्जय़ उवाच:
प्राय़शश्च महेष्वासा ये प्रधानाश्च कौरवाः ||
४१ ख
सञ्जय़ उवाच:
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः |
४२ क
सञ्जय़ उवाच:
हय़ाश्च सहय़ारोहा विनिकृत्ताः सहस्रशः ||
४२ ख
सञ्जय़ उवाच:
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिविरं प्रति |
४३ क
सञ्जय़ उवाच:
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ||
४३ ख
सञ्जय़ उवाच:
युध्यध्वं मा पलाय़ध्वं माय़ैषा राक्षसी रणे |
४४ क
सञ्जय़ उवाच:
घटोत्कचप्रय़ुक्तेति नातिष्ठन्त विमोहिताः |
४४ ख
सञ्जय़ उवाच:
नैव ते श्रद्दधुर्भीता वदतोरावय़ोर्वचः ||
४४ ग
सञ्जय़ उवाच:
तांश्च प्रद्रवतो दृष्ट्वा जय़ं प्राप्ताश्च पाण्डवाः |
४५ क
सञ्जय़ उवाच:
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे |
४५ ख
सञ्जय़ उवाच:
शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ||
४५ ग
सञ्जय़ उवाच:
एवं तव वलं सर्वं हैडिम्वेन दुरात्मना |
४६ क
सञ्जय़ उवाच:
सूर्यास्तमनवेलाय़ां प्रभग्नं विद्रुतं दिशः ||
४६ ख