सञ्जय़ उवाच:
ततो दुःशासनो राजञ्शैनेय़ं समुपाद्रवत् |
१ क
सञ्जय़ उवाच:
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ||
१ ख
सञ्जय़ उवाच:
स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः |
२ क
सञ्जय़ उवाच:
नाकम्पय़त्स्थितं युद्धे मैनाकमिव पर्वतम् ||
२ ख
सञ्जय़ उवाच:
स तु दुःशासनं वीरः साय़कैरावृणोद्भृशम् |
३ क
सञ्जय़ उवाच:
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णय़ा ||
३ ख
सञ्जय़ उवाच:
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् |
४ क
सञ्जय़ उवाच:
त्रिगर्तांश्चोदय़ामास युय़ुधानरथं प्रति ||
४ ख
सञ्जय़ उवाच:
तेऽगच्छन्युय़ुधानस्य समीपं क्रूरकारिणः |
५ क
सञ्जय़ उवाच:
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ||
५ ख
सञ्जय़ उवाच:
ते तु तं रथवंशेन महता पर्यवारय़न् |
६ क
सञ्जय़ उवाच:
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ||
६ ख
सञ्जय़ उवाच:
तेषां प्रय़ततां युद्धे शरवर्षाणि मुञ्चताम् |
७ क
सञ्जय़ उवाच:
योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथय़त् ||
७ ख
सञ्जय़ उवाच:
तेऽपतन्त हतास्तूर्णं शिनिप्रवरसाय़कैः |
८ क
सञ्जय़ उवाच:
महामारुतवेगेन रुग्णा इव महाद्रुमाः ||
८ ख
सञ्जय़ उवाच:
रथैश्च वहुधा छिन्नैर्ध्वजैश्चैव विशां पते |
९ क
सञ्जय़ उवाच:
हय़ैश्च कनकापीडैः पतितैस्तत्र मेदिनी ||
९ ख
सञ्जय़ उवाच:
शैनेय़शरसङ्कृत्तैः शोणितौघपरिप्लुतैः |
१० क
सञ्जय़ उवाच:
अशोभत महाराज किंशुकैरिव पुष्पितैः ||
१० ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे युय़ुधानेन तावकाः |
११ क
सञ्जय़ उवाच:
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ||
११ ख
सञ्जय़ उवाच:
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति |
१२ क
सञ्जय़ उवाच:
भय़ात्पतगराजस्य गर्तानीव महोरगाः ||
१२ ख
सञ्जय़ उवाच:
हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः |
१३ क
सञ्जय़ उवाच:
प्राय़ात्स शनकैर्वीरो धनञ्जय़रथं प्रति ||
१३ ख
सञ्जय़ उवाच:
तं प्रय़ान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव |
१४ क
सञ्जय़ उवाच:
विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः ||
१४ ख
सञ्जय़ उवाच:
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः |
१५ क
सञ्जय़ उवाच:
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ||
१५ ख
सञ्जय़ उवाच:
सात्यकिं तु महाराज प्रहसन्निव भारत |
१६ क
सञ्जय़ उवाच:
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ||
१६ ख
सञ्जय़ उवाच:
शैनेय़स्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः |
१७ क
सञ्जय़ उवाच:
धनुश्चास्य रणे छित्त्वा विस्मय़न्नर्जुनं यय़ौ ||
१७ ख
सञ्जय़ उवाच:
ततो दुःशासनः क्रुद्धो वृष्णिवीराय़ गच्छते |
१८ क
सञ्जय़ उवाच:
सर्वपारशवीं शक्तिं विससर्ज जिघांसय़ा ||
१८ ख
सञ्जय़ उवाच:
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः |
१९ क
सञ्जय़ उवाच:
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ||
१९ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ पुत्रस्तव जनेश्वर |
२० क
सञ्जय़ उवाच:
सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह ||
२० ख
सञ्जय़ उवाच:
सात्यकिस्तु रणे क्रुद्धो मोहय़ित्वा सुतं तव |
२१ क
सञ्जय़ उवाच:
शरैरग्निशिखाकारैराजघान स्तनान्तरे |
२१ ख
सञ्जय़ उवाच:
सर्वाय़सैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः ||
२१ ग
सञ्जय़ उवाच:
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत |
२२ क
सञ्जय़ उवाच:
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे |
२२ ख
सञ्जय़ उवाच:
त्रिभिरेव महावेगैः शरैः संनतपर्वभिः ||
२२ ग
सञ्जय़ उवाच:
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः |
२३ क
सञ्जय़ उवाच:
सारथिं च सुसङ्क्रुद्धः शरैः संनतपर्वभिः ||
२३ ख
सञ्जय़ उवाच:
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः |
२४ क
सञ्जय़ उवाच:
ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् |
२४ ख
सञ्जय़ उवाच:
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ||
२४ ग
सञ्जय़ उवाच:
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
२५ क
सञ्जय़ उवाच:
त्रिगर्तसेनापतिना स्वरथेनापवाहितः ||
२५ ख
सञ्जय़ उवाच:
तमभिद्रुत्य शैनेय़ो मुहूर्तमिव भारत |
२६ क
सञ्जय़ उवाच:
न जघान महावाहुर्भीमसेनवचः स्मरन् ||
२६ ख
सञ्जय़ उवाच:
भीमसेनेन हि वधः सुतानां तव भारत |
२७ क
सञ्जय़ उवाच:
प्रतिज्ञातः सभामध्ये सर्वेषामेव संय़ुगे ||
२७ ख
सञ्जय़ उवाच:
तथा दुःशासनं जित्वा सात्यकिः संय़ुगे प्रभो |
२८ क
सञ्जय़ उवाच:
जगाम त्वरितो राजन्येन यातो धनञ्जय़ः ||
२८ ख