वैशम्पाय़न उवाच:
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः |
१ क
वैशम्पाय़न उवाच:
महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ||
१ ख
वैशम्पाय़न उवाच:
सोऽश्वमेधसहस्रेण वाजपेय़शतेन च |
२ क
वैशम्पाय़न उवाच:
तोषय़ामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ||
२ ख
वैशम्पाय़न उवाच:
ततः कदाचिद्व्रह्माणमुपासां चक्रिरे सुराः |
३ क
वैशम्पाय़न उवाच:
तत्र राजर्षय़ो आसन्स च राजा महाभिषः ||
३ ख
वैशम्पाय़न उवाच:
अथ गङ्गा सरिच्छ्रेष्ठा समुपाय़ात्पितामहम् |
४ क
वैशम्पाय़न उवाच:
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ||
४ ख
वैशम्पाय़न उवाच:
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा |
५ क
वैशम्पाय़न उवाच:
महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ||
५ ख
वैशम्पाय़न उवाच:
अपध्यातो भगवता व्रह्मणा स महाभिषः |
६ क
वैशम्पाय़न उवाच:
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ||
६ ख
वैशम्पाय़न उवाच:
स चिन्तय़ित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् |
७ क
वैशम्पाय़न उवाच:
प्रतीपं रोचय़ामास पितरं भूरिवर्चसम् ||
७ ख
वैशम्पाय़न उवाच:
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् |
८ क
वैशम्पाय़न उवाच:
तमेव मनसाध्याय़मुपावर्तत्सरिद्वरा ||
८ ख
वैशम्पाय़न उवाच:
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः |
९ क
वैशम्पाय़न उवाच:
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ||
९ ख
वैशम्पाय़न उवाच:
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा |
१० क
वैशम्पाय़न उवाच:
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ||
१० ख
वैशम्पाय़न उवाच:
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि |
११ क
वैशम्पाय़न उवाच:
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ||
११ ख
वैशम्पाय़न उवाच:
विमूढा हि वय़ं सर्वे प्रच्छन्नमृषिसत्तमम् |
१२ क
वैशम्पाय़न उवाच:
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ||
१२ ख
वैशम्पाय़न उवाच:
तेन कोपाद्वय़ं शप्ता योनौ सम्भवतेति ह |
१३ क
वैशम्पाय़न उवाच:
न शक्यमन्यथा कर्तुं यदुक्तं व्रह्मवादिना ||
१३ ख
वैशम्पाय़न उवाच:
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि |
१४ क
वैशम्पाय़न उवाच:
न मानुषीणां जठरं प्रविशेमाशुभं वय़म् ||
१४ ख
वैशम्पाय़न उवाच:
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाव्रवीदिदम् |
१५ क
वैशम्पाय़न उवाच:
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ||
१५ ख
वसव ऊचुः:
प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः |
१६ क
वसव ऊचुः:
भविता मानुषे लोके स नः कर्ता भविष्यति ||
१६ ख
गङ्गो उवाच:
ममाप्येवं मतं देवा यथावदत मानघाः |
१७ क
गङ्गो उवाच:
प्रिय़ं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ||
१७ ख
वसव ऊचुः:
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि |
१८ क
वसव ऊचुः:
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ||
१८ ख
गङ्गो उवाच:
एवमेतत्करिष्यामि पुत्रस्तस्य विधीय़ताम् |
१९ क
गङ्गो उवाच:
नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मय़ा सह ||
१९ ख
वसव ऊचुः:
तुरीय़ार्धं प्रदास्यामो वीर्यस्यैकैकशो वय़म् |
२० क
वसव ऊचुः:
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ||
२० ख
वसव ऊचुः:
न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः |
२१ क
वसव ऊचुः:
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ||
२१ ख
वैशम्पाय़न उवाच:
एवं ते समय़ं कृत्वा गङ्गय़ा वसवः सह |
२२ क
वैशम्पाय़न उवाच:
जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा ||
२२ ख