भीष्म उवाच:
यानङ्गिराः क्षत्रधर्मानुतथ्यो व्रह्मवित्तमः |
१ क
भीष्म उवाच:
मान्धात्रे यौवनाश्वाय़ प्रीतिमानभ्यभाषत ||
१ ख
भीष्म उवाच:
स यथानुशशासैनमुतथ्यो व्रह्मवित्तमः |
२ क
भीष्म उवाच:
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ||
२ ख
उतथ्य उवाच:
धर्माय़ राजा भवति न कामकरणाय़ तु |
३ क
उतथ्य उवाच:
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ||
३ ख
उतथ्य उवाच:
राजा चरति वै धर्मं देवत्वाय़ैव गच्छति |
४ क
उतथ्य उवाच:
न चेद्धर्मं स चरति नरकाय़ैव गच्छति ||
४ ख
उतथ्य उवाच:
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति |
५ क
उतथ्य उवाच:
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ||
५ ख
उतथ्य उवाच:
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते |
६ क
उतथ्य उवाच:
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ||
६ ख
उतथ्य उवाच:
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते |
७ क
उतथ्य उवाच:
तदेव मङ्गलं सर्वं लोकः समनुवर्तते ||
७ ख
उतथ्य उवाच:
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् |
८ क
उतथ्य उवाच:
भय़माहुर्दिवारात्रं यदा पापो न वार्यते ||
८ ख
उतथ्य उवाच:
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातय़ः |
९ क
उतथ्य उवाच:
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ||
९ ख
उतथ्य उवाच:
वध्यानामिव सर्वेषां मनो भवति विह्वलम् |
१० क
उतथ्य उवाच:
मनुष्याणां महाराज यदा पापो न वार्यते ||
१० ख
उतथ्य उवाच:
उभौ लोकावभिप्रेक्ष्य राजानमृषय़ः स्वय़म् |
११ क
उतथ्य उवाच:
असृजन्सुमहद्भूतमय़ं धर्मो भविष्यति ||
११ ख
उतथ्य उवाच:
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते |
१२ क
उतथ्य उवाच:
यस्मिन्विलीय़ते धर्मस्तं देवा वृषलं विदुः ||
१२ ख
उतथ्य उवाच:
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् |
१३ क
उतथ्य उवाच:
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपय़ेत् ||
१३ ख
उतथ्य उवाच:
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा |
१४ क
उतथ्य उवाच:
तस्मिन्ह्रसति हीय़न्ते तस्माद्धर्मं प्रवर्धय़ेत् ||
१४ ख
उतथ्य उवाच:
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चय़ः |
१५ क
उतथ्य उवाच:
अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः ||
१५ ख
उतथ्य उवाच:
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वय़म्भुवा |
१६ क
उतथ्य उवाच:
तस्मात्प्रवर्धय़ेद्धर्मं प्रजानुग्रहकारणात् ||
१६ ख
उतथ्य उवाच:
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः |
१७ क
उतथ्य उवाच:
स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः ||
१७ ख
उतथ्य उवाच:
कामक्रोधावनादृत्य धर्ममेवानुपालय़ेत् |
१८ क
उतथ्य उवाच:
धर्मः श्रेय़स्करतमो राज्ञां भरतसत्तम ||
१८ ख
उतथ्य उवाच:
धर्मस्य व्राह्मणा योनिस्तस्मात्तान्पूजय़ेत्सदा |
१९ क
उतथ्य उवाच:
व्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ||
१९ ख
उतथ्य उवाच:
तेषां ह्यकामकरणाद्राज्ञः सञ्जाय़ते भय़म् |
२० क
उतथ्य उवाच:
मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि ||
२० ख
उतथ्य उवाच:
व्राह्मणान्वै तदासूय़ाद्यदा वैरोचनो वलिः |
२१ क
उतथ्य उवाच:
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ||
२१ ख
उतथ्य उवाच:
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् |
२२ क
उतथ्य उवाच:
अथ सोऽन्वतपत्पश्चाच्छ्रिय़ं दृष्ट्वा पुरन्दरे ||
२२ ख
उतथ्य उवाच:
एतत्फलमसूय़ाय़ा अभिमानस्य चाभिभो |
२३ क
उतथ्य उवाच:
तस्माद्वुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ||
२३ ख
उतथ्य उवाच:
दर्पो नाम श्रिय़ः पुत्रो जज्ञेऽधर्मादिति श्रुतिः |
२४ क
उतथ्य उवाच:
तेन देवासुरा राजन्नीताः सुवहुशो वशम् ||
२४ ख
उतथ्य उवाच:
राजर्षय़श्च वहवस्तस्माद्वुध्यस्व पार्थिव |
२५ क
उतथ्य उवाच:
राजा भवति तं जित्वा दासस्तेन पराजितः ||
२५ ख
उतथ्य उवाच:
स यथा दर्पसहितमधर्मं नानुसेवसे |
२६ क
उतथ्य उवाच:
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ||
२६ ख
उतथ्य उवाच:
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः |
२७ क
उतथ्य उवाच:
तदभ्यासादुपावर्तादहितानां च सेवनात् ||
२७ ख
उतथ्य उवाच:
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः |
२८ क
उतथ्य उवाच:
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ||
२८ ख
उतथ्य उवाच:
एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जय़ेत् |
२९ क
उतथ्य उवाच:
अत्याय़ं चातिमानं च दम्भं क्रोधं च वर्जय़ेत् ||
२९ ख
उतथ्य उवाच:
अविज्ञातासु च स्त्रीषु क्लीवासु स्वैरिणीषु च |
३० क
उतथ्य उवाच:
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ||
३० ख
उतथ्य उवाच:
कुलेषु पापरक्षांसि जाय़न्ते वर्णसङ्करात् |
३१ क
उतथ्य उवाच:
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ||
३१ ख
उतथ्य उवाच:
एते चान्ये च जाय़न्ते यदा राजा प्रमाद्यति |
३२ क
उतथ्य उवाच:
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ||
३२ ख
उतथ्य उवाच:
क्षत्रिय़स्य प्रमत्तस्य दोषः सञ्जाय़ते महान् |
३३ क
उतथ्य उवाच:
अधर्माः सम्प्रवर्तन्ते प्रजासङ्करकारकाः ||
३३ ख
उतथ्य उवाच:
अशीते विद्यते शीतं शीते शीतं न विद्यते |
३४ क
उतथ्य उवाच:
अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः ||
३४ ख
उतथ्य उवाच:
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे |
३५ क
उतथ्य उवाच:
उत्पाताश्चात्र दृश्यन्ते वहवो राजनाशनाः ||
३५ ख
उतथ्य उवाच:
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति |
३६ क
उतथ्य उवाच:
प्रजाश्च तस्य क्षीय़न्ते ताश्च सोऽनु विनश्यति ||
३६ ख
उतथ्य उवाच:
द्वावाददाते ह्येकस्य द्वय़ोश्च वहवोऽपरे |
३७ क
उतथ्य उवाच:
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृपदूषणम् ||
३७ ख
उतथ्य उवाच:
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते |
३८ क
उतथ्य उवाच:
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ||
३८ ख