युधिष्ठिर उवाच:
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम् |
१ क
युधिष्ठिर उवाच:
भृग्वङ्गिरसके काले मुनिना कतरेण वा ||
१ ख
युधिष्ठिर उवाच:
कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च |
२ क
युधिष्ठिर उवाच:
धान्यजातिश्च का वर्ज्या तन्मे व्रूहि पितामह ||
२ ख
भीष्म उवाच:
यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले यदात्मकम् |
३ क
भीष्म उवाच:
येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप ||
३ ख
भीष्म उवाच:
स्वाय़म्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् |
४ क
भीष्म उवाच:
तस्य वंशे महाराज दत्तात्रेय़ इति स्मृतः ||
४ ख
भीष्म उवाच:
दत्तात्रेय़स्य पुत्रोऽभून्निमिर्नाम तपोधनः |
५ क
भीष्म उवाच:
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिय़ा वृतः ||
५ ख
भीष्म उवाच:
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः |
६ क
भीष्म उवाच:
कालधर्मपरीतात्मा निधनं समुपागतः ||
६ ख
भीष्म उवाच:
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा |
७ क
भीष्म उवाच:
सन्तापमगमत्तीव्रं पुत्रशोकपराय़णः ||
७ ख
भीष्म उवाच:
अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः |
८ क
भीष्म उवाच:
तमेव गणय़ञ्शोकं विरात्रे प्रत्यवुध्यत ||
८ ख
भीष्म उवाच:
तस्यासीत्प्रतिवुद्धस्य शोकेन पिहितात्मनः |
९ क
भीष्म उवाच:
मनः संहृत्य विषय़े वुद्धिर्विस्तरगामिनी ||
९ ख
भीष्म उवाच:
ततः सञ्चिन्तय़ामास श्राद्धकल्पं समाहितः |
१० क
भीष्म उवाच:
यानि तस्यैव भोज्यानि मूलानि च फलानि च ||
१० ख
भीष्म उवाच:
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह |
११ क
भीष्म उवाच:
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ||
११ ख
भीष्म उवाच:
अमावास्यां महाप्राज्ञ विप्रानानाय़्य पूजितान् |
१२ क
भीष्म उवाच:
दक्षिणावर्तिकाः सर्वा वृसीः स्वय़मथाकरोत् ||
१२ ख
भीष्म उवाच:
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानय़त् |
१३ क
भीष्म उवाच:
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ||
१३ ख
भीष्म उवाच:
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः |
१४ क
भीष्म उवाच:
पादय़ोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ||
१४ ख
भीष्म उवाच:
कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रय़तः शुचिः |
१५ क
भीष्म उवाच:
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ||
१५ ख
भीष्म उवाच:
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः |
१६ क
भीष्म उवाच:
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तय़त् ||
१६ ख
भीष्म उवाच:
अकृतं मुनिभिः पूर्वं किं मय़ैतदनुष्ठितम् |
१७ क
भीष्म उवाच:
कथं नु शापेन न मां दहेय़ुर्व्राह्मणा इति ||
१७ ख
भीष्म उवाच:
ततः सञ्चिन्तय़ामास वंशकर्तारमात्मनः |
१८ क
भीष्म उवाच:
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ||
१८ ख
भीष्म उवाच:
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् |
१९ क
भीष्म उवाच:
भृशमाश्वासय़ामास वाग्भिरिष्टाभिरव्ययः ||
१९ ख
भीष्म उवाच:
निमे सङ्कल्पितस्तेऽय़ं पितृय़ज्ञस्तपोधनः |
२० क
भीष्म उवाच:
मा ते भूद्भीः पूर्वदृष्टो धर्मोऽय़ं व्रह्मणा स्वय़म् ||
२० ख
भीष्म उवाच:
सोऽय़ं स्वय़म्भुविहितो धर्मः सङ्कल्पितस्त्वय़ा |
२१ क
भीष्म उवाच:
ऋते स्वय़म्भुवः कोऽन्यः श्राद्धेय़ं विधिमाहरेत् ||
२१ ख
भीष्म उवाच:
आख्यास्यामि च ते भूय़ः श्राद्धेय़ं विधिमुत्तमम् |
२२ क
भीष्म उवाच:
स्वय़म्भुविहितं पुत्र तत्कुरुष्व निवोध मे ||
२२ ख
भीष्म उवाच:
कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन |
२३ क
भीष्म उवाच:
ततोऽर्यम्णे च सोमाय़ वरुणाय़ च नित्यशः ||
२३ ख
भीष्म उवाच:
विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः |
२४ क
भीष्म उवाच:
तेभ्यः सङ्कल्पिता भागाः स्वय़मेव स्वय़म्भुवा ||
२४ ख
भीष्म उवाच:
स्तोतव्या चेह पृथिवी निवापस्येह धारिणी |
२५ क
भीष्म उवाच:
वैष्णवी काश्यपी चेति तथैवेहाक्षय़ेति च ||
२५ ख
भीष्म उवाच:
उदकानय़ने चैव स्तोतव्यो वरुणो विभुः |
२६ क
भीष्म उवाच:
ततोऽग्निश्चैव सोमश्च आप्याय़्याविह तेऽनघ ||
२६ ख
भीष्म उवाच:
देवास्तु पितरो नाम निर्मिता वै स्वय़म्भुवा |
२७ क
भीष्म उवाच:
ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः ||
२७ ख
भीष्म उवाच:
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्विषात् |
२८ क
भीष्म उवाच:
सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वय़म्भुवा ||
२८ ख
भीष्म उवाच:
विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्वमेव ते |
२९ क
भीष्म उवाच:
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ||
२९ ख
भीष्म उवाच:
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा |
३० क
भीष्म उवाच:
ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च ||
३० ख
भीष्म उवाच:
विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च |
३१ क
भीष्म उवाच:
विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः ||
३१ ख
भीष्म उवाच:
सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीय़कः |
३२ क
भीष्म उवाच:
उष्णीनाभो नभोदश्च विश्वाय़ुर्दीप्तिरेव च ||
३२ ख
भीष्म उवाच:
चमूहरः सुवेषश्च व्योमारिः शङ्करो भवः |
३३ क
भीष्म उवाच:
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ||
३३ ख
भीष्म उवाच:
गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा |
३४ क
भीष्म उवाच:
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ||
३४ ख
भीष्म उवाच:
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च |
३५ क
भीष्म उवाच:
जितात्मा मुनिवीर्यश्च दीप्तलोमा भय़ङ्करः ||
३५ ख
भीष्म उवाच:
अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा |
३६ क
भीष्म उवाच:
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ||
३६ ख
भीष्म उवाच:
स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः |
३७ क
भीष्म उवाच:
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ||
३७ ख
भीष्म उवाच:
अश्राद्धेय़ानि धान्यानि कोद्रवाः पुलकास्तथा |
३८ क
भीष्म उवाच:
हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा ||
३८ ख
भीष्म उवाच:
पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादय़ः |
३९ क
भीष्म उवाच:
कूष्माण्डजात्यलावुं च कृष्णं लवणमेव च ||
३९ ख
भीष्म उवाच:
ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत् |
४० क
भीष्म उवाच:
कृष्णाजाजी विडश्चैव शीतपाकी तथैव च |
४० ख
भीष्म उवाच:
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ||
४० ग
भीष्म उवाच:
वर्जय़ेल्लवणं सर्वं तथा जम्वूफलानि च |
४१ क
भीष्म उवाच:
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जय़ेत् ||
४१ ख
भीष्म उवाच:
निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् |
४२ क
भीष्म उवाच:
पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः ||
४२ ख
भीष्म उवाच:
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते |
४३ क
भीष्म उवाच:
काषाय़वासी कुष्ठी वा पतितो व्रह्महापि वा ||
४३ ख
भीष्म उवाच:
सङ्कीर्णय़ोनिर्विप्रश्च सम्वन्धी पतितश्च यः |
४४ क
भीष्म उवाच:
वर्जनीय़ा वुधैरेते निवापे समुपस्थिते ||
४४ ख
भीष्म उवाच:
इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा |
४५ क
भीष्म उवाच:
पितामहसभां दिव्यां जगामात्रिस्तपोधनः ||
४५ ख