वैशम्पाय़न उवाच:
शमय़ित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः |
१ क
वैशम्पाय़न उवाच:
तुरगं तं यथाशास्त्रमालभन्त द्विजातय़ः ||
१ ख
वैशम्पाय़न उवाच:
ततः सञ्ज्ञाप्य तुरगं विधिवद्याजकर्षभाः |
२ क
वैशम्पाय़न उवाच:
उपसंवेशय़न्राजंस्ततस्तां द्रुपदात्मजाम् |
२ ख
वैशम्पाय़न उवाच:
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ||
२ ग
वैशम्पाय़न उवाच:
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः |
३ क
वैशम्पाय़न उवाच:
श्रपय़ामासुरव्यग्राः शास्त्रवद्भरतर्षभ ||
३ ख
वैशम्पाय़न उवाच:
तं वपाधूमगन्धं तु धर्मराजः सहानुजः |
४ क
वैशम्पाय़न उवाच:
उपाजिघ्रद्यथान्याय़ं सर्वपाप्मापहं तदा ||
४ ख
वैशम्पाय़न उवाच:
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप |
५ क
वैशम्पाय़न उवाच:
तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ||
५ ख
वैशम्पाय़न उवाच:
संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः |
६ क
वैशम्पाय़न उवाच:
व्यासः सशिष्यो भगवान्वर्धय़ामास तं नृपम् ||
६ ख
वैशम्पाय़न उवाच:
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि |
७ क
वैशम्पाय़न उवाच:
कोटीसहस्रं निष्काणां व्यासाय़ तु वसुन्धराम् ||
७ ख
वैशम्पाय़न उवाच:
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः |
८ क
वैशम्पाय़न उवाच:
अव्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ||
८ ख
वैशम्पाय़न उवाच:
पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम |
९ क
वैशम्पाय़न उवाच:
निष्क्रय़ो दीय़तां मह्यं व्राह्मणा हि धनार्थिनः ||
९ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः |
१० क
वैशम्पाय़न उवाच:
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ||
१० ख
वैशम्पाय़न उवाच:
अश्वमेधे महाय़ज्ञे पृथिवी दक्षिणा स्मृता |
११ क
वैशम्पाय़न उवाच:
अर्जुनेन जिता सेय़मृत्विग्भ्यः प्रापिता मय़ा ||
११ ख
वैशम्पाय़न उवाच:
वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् |
१२ क
वैशम्पाय़न उवाच:
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ||
१२ ख
वैशम्पाय़न उवाच:
नाहमादातुमिच्छामि व्रह्मस्वं मुनिसत्तमाः |
१३ क
वैशम्पाय़न उवाच:
इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः ||
१३ ख
वैशम्पाय़न उवाच:
इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा |
१४ क
वैशम्पाय़न उवाच:
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ||
१४ ख
वैशम्पाय़न उवाच:
ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत |
१५ क
वैशम्पाय़न उवाच:
तथैव द्विजसङ्घानां शंसतां विवभौ स्वनः ||
१५ ख
वैशम्पाय़न उवाच:
द्वैपाय़नस्तथोक्तस्तु पुनरेव युधिष्ठिरम् |
१६ क
वैशम्पाय़न उवाच:
उवाच मध्ये विप्राणामिदं सम्पूजय़न्मुनिः ||
१६ ख
वैशम्पाय़न उवाच:
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् |
१७ क
वैशम्पाय़न उवाच:
हिरण्यं दीय़तामेभ्यो द्विजातिभ्यो धरास्तु ते ||
१७ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् |
१८ क
वैशम्पाय़न उवाच:
यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि ||
१८ ख
वैशम्पाय़न उवाच:
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह |
१९ क
वैशम्पाय़न उवाच:
कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः ||
१९ ख
वैशम्पाय़न उवाच:
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः |
२० क
वैशम्पाय़न उवाच:
यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता ||
२० ख
वैशम्पाय़न उवाच:
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपाय़नः प्रभुः |
२१ क
वैशम्पाय़न उवाच:
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ||
२१ ख
वैशम्पाय़न उवाच:
पृथिव्या निष्क्रय़ं दत्त्वा तद्धिरण्यं युधिष्ठिरः |
२२ क
वैशम्पाय़न उवाच:
धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह ||
२२ ख
वैशम्पाय़न उवाच:
ऋत्विजस्तमपर्यन्तं सुवर्णनिचय़ं तदा |
२३ क
वैशम्पाय़न उवाच:
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथावलम् ||
२३ ख
वैशम्पाय़न उवाच:
यज्ञवाटे तु यत्किञ्चिद्धिरण्यमपि भूषणम् |
२४ क
वैशम्पाय़न उवाच:
तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः |
२४ ख
वैशम्पाय़न उवाच:
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ||
२४ ग
वैशम्पाय़न उवाच:
अनन्तरं व्राह्मणेभ्यः क्षत्रिय़ा जह्रिरे वसु |
२५ क
वैशम्पाय़न उवाच:
तथा विट्शूद्रसङ्घाश्च तथान्ये म्लेच्छजातय़ः |
२५ ख
वैशम्पाय़न उवाच:
कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ||
२५ ग
वैशम्पाय़न उवाच:
ततस्ते व्राह्मणाः सर्वे मुदिता जग्मुरालय़ान् |
२६ क
वैशम्पाय़न उवाच:
तर्पिता वसुना तेन धर्मराज्ञा महात्मना ||
२६ ख
वैशम्पाय़न उवाच:
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात् |
२७ क
वैशम्पाय़न उवाच:
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ||
२७ ख
वैशम्पाय़न उवाच:
श्वशुरात्प्रीतिदाय़ं तं प्राप्य सा प्रीतमानसा |
२८ क
वैशम्पाय़न उवाच:
चकार पुण्यं लोके तु सुमहान्तं पृथा तदा ||
२८ ख
वैशम्पाय़न उवाच:
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह |
२९ क
वैशम्पाय़न उवाच:
सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव ||
२९ ख
वैशम्पाय़न उवाच:
पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा |
३० क
वैशम्पाय़न उवाच:
अशोभन्त महाराज ग्रहास्तारागणैरिव ||
३० ख
वैशम्पाय़न उवाच:
राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च |
३१ क
वैशम्पाय़न उवाच:
गजानश्वानलङ्कारान्स्त्रिय़ो वस्त्राणि काञ्चनम् ||
३१ ख
वैशम्पाय़न उवाच:
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले |
३२ क
वैशम्पाय़न उवाच:
विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा ||
३२ ख
वैशम्पाय़न उवाच:
आनाय़्य च तथा वीरं राजानं वभ्रुवाहनम् |
३३ क
वैशम्पाय़न उवाच:
प्रदाय़ विपुलं वित्तं गृहान्प्रास्थापय़त्तदा ||
३३ ख
वैशम्पाय़न उवाच:
दुःशलाय़ाश्च तं पौत्रं वालकं पार्थिवर्षभ |
३४ क
वैशम्पाय़न उवाच:
स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचय़त् ||
३४ ख
वैशम्पाय़न उवाच:
राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान् |
३५ क
वैशम्पाय़न उवाच:
प्रस्थापय़ामास वशी कुरुराजो युधिष्ठिरः ||
३५ ख
वैशम्पाय़न उवाच:
एवं वभूव यज्ञः स धर्मराजस्य धीमतः |
३६ क
वैशम्पाय़न उवाच:
वह्वन्नधनरत्नौघः सुरामैरेय़सागरः ||
३६ ख
वैशम्पाय़न उवाच:
सर्पिःपङ्का ह्रदा यत्र वहवश्चान्नपर्वताः |
३७ क
वैशम्पाय़न उवाच:
रसालाकर्दमाः कुल्या वभूवुर्भरतर्षभ ||
३७ ख
वैशम्पाय़न उवाच:
भक्ष्यषाण्डवरागाणां क्रिय़तां भुज्यतामिति |
३८ क
वैशम्पाय़न उवाच:
पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते ||
३८ ख
वैशम्पाय़न उवाच:
मत्तोन्मत्तप्रमुदितं प्रगीतय़ुवतीजनम् |
३९ क
वैशम्पाय़न उवाच:
मृदङ्गशङ्खशव्दैश्च मनोरममभूत्तदा ||
३९ ख
वैशम्पाय़न उवाच:
दीय़तां भुज्यतां चेति दिवारात्रमवारितम् |
४० क
वैशम्पाय़न उवाच:
तं महोत्सवसङ्काशमतिहृष्टजनाकुलम् |
४० ख
वैशम्पाय़न उवाच:
कथय़न्ति स्म पुरुषा नानादेशनिवासिनः ||
४० ग
वैशम्पाय़न उवाच:
वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा |
४१ क
वैशम्पाय़न उवाच:
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ||
४१ ख