भगवानु उवाच:
यथा व्रूय़ान्महाप्राज्ञो यथा व्रूय़ाद्विचक्षणः |
१ क
भगवानु उवाच:
यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् ||
१ ख
भगवानु उवाच:
धर्मार्थय़ुक्तं तथ्यं च यथा त्वय़्युपपद्यते |
२ क
भगवानु उवाच:
तथा वचनमुक्तोऽस्मि त्वय़ैतत्पितृमातृवत् ||
२ ख
भगवानु उवाच:
सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम् |
३ क
भगवानु उवाच:
शृणुष्वागमने हेतुं विदुरावहितो भव ||
३ ख
भगवानु उवाच:
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रिय़ाणां च वैरिताम् |
४ क
भगवानु उवाच:
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् ||
४ ख
भगवानु उवाच:
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् |
५ क
भगवानु उवाच:
यो मोचय़ेन्मृत्युपाशात्प्राप्नुय़ाद्धर्ममुत्तमम् ||
५ ख
भगवानु उवाच:
धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः |
६ क
भगवानु उवाच:
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशय़ः ||
६ ख
भगवानु उवाच:
मनसा चिन्तय़न्पापं कर्मणा नाभिरोचय़न् |
७ क
भगवानु उवाच:
न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः ||
७ ख
भगवानु उवाच:
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममाय़या |
८ क
भगवानु उवाच:
कुरूणां सृञ्जय़ानां च सङ्ग्रामे विनशिष्यताम् ||
८ ख
भगवानु उवाच:
सेय़मापन्महाघोरा कुरुष्वेव समुत्थिता |
९ क
भगवानु उवाच:
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वय़ाः ||
९ ख
भगवानु उवाच:
व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते |
१० क
भगवानु उवाच:
अनुनीय़ यथाशक्ति तं नृशंसं विदुर्वुधाः ||
१० ख
भगवानु उवाच:
आ केशग्रहणान्मित्रमकार्यात्संनिवर्तय़न् |
११ क
भगवानु उवाच:
अवाच्यः कस्यचिद्भवति कृतय़त्नो यथावलम् ||
११ ख
भगवानु उवाच:
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् |
१२ क
भगवानु उवाच:
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ||
१२ ख
भगवानु उवाच:
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च |
१३ क
भगवानु उवाच:
पृथिव्यां क्षत्रिय़ाणां च यतिष्येऽहममाय़या ||
१३ ख
भगवानु उवाच:
हिते प्रय़तमानं मां शङ्केद्दुर्योधनो यदि |
१४ क
भगवानु उवाच:
हृदय़स्य च मे प्रीतिरानृण्यं च भविष्यति ||
१४ ख
भगवानु उवाच:
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते |
१५ क
भगवानु उवाच:
सर्वय़त्नेन मध्यस्थं न तन्मित्रं विदुर्वुधाः ||
१५ ख
भगवानु उवाच:
न मां व्रूय़ुरधर्मज्ञा मूढा असुहृदस्तथा |
१६ क
भगवानु उवाच:
शक्तो नावारय़त्कृष्णः संरव्धान्कुरुपाण्डवान् ||
१६ ख
भगवानु उवाच:
उभय़ोः साधय़न्नर्थमहमागत इत्युत |
१७ क
भगवानु उवाच:
तत्र यत्नमहं कृत्वा गच्छेय़ं नृष्ववाच्यताम् ||
१७ ख
भगवानु उवाच:
मम धर्मार्थय़ुक्तं हि श्रुत्वा वाक्यमनामय़म् |
१८ क
भगवानु उवाच:
न चेदादास्यते वालो दिष्टस्य वशमेष्यति ||
१८ ख
भगवानु उवाच:
अहापय़न्पाण्डवार्थं यथाव; च्छमं कुरूणां यदि चाचरेय़म् |
१९ क
भगवानु उवाच:
पुण्यं च मे स्याच्चरितं महार्थं; मुच्येरंश्च कुरवो मृत्युपाशात् ||
१९ ख
भगवानु उवाच:
अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम् |
२० क
भगवानु उवाच:
अवेक्षेरन्धार्तराष्ट्राः समर्थां; मां च प्राप्तं कुरवः पूजय़ेय़ुः ||
२० ख
भगवानु उवाच:
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः |
२१ क
भगवानु उवाच:
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ||
२१ ख
वैशम्पाय़न उवाच:
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा |
२२ क
वैशम्पाय़न उवाच:
शय़ने सुखसंस्पर्शे शिश्ये यदुसुखावहः ||
२२ ख