सञ्जय़ उवाच:
तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा |
१ क
सञ्जय़ उवाच:
गाङ्गेय़मुपसङ्गम्य विनय़ेनाभिवाद्य च ||
१ ख
सञ्जय़ उवाच:
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे |
२ क
सञ्जय़ उवाच:
घटोत्कचस्य विजय़मात्मनश्च पराजय़म् ||
२ ख
सञ्जय़ उवाच:
कथय़ामास दुर्धर्षो विनिःश्वस्य पुनः पुनः |
३ क
सञ्जय़ उवाच:
अव्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ||
३ ख
सञ्जय़ उवाच:
भवन्तं समुपाश्रित्य वासुदेवं यथा परैः |
४ क
सञ्जय़ उवाच:
पाण्डवैर्विग्रहो घोरः समारव्धो मय़ा प्रभो ||
४ ख
सञ्जय़ उवाच:
एकादश समाख्याता अक्षौहिण्यश्च या मम |
५ क
सञ्जय़ उवाच:
निदेशे तव तिष्ठन्ति मय़ा सार्धं परन्तप ||
५ ख
सञ्जय़ उवाच:
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः |
६ क
सञ्जय़ उवाच:
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ||
६ ख
सञ्जय़ उवाच:
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः |
७ क
सञ्जय़ उवाच:
तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप ||
७ ख
सञ्जय़ उवाच:
राक्षसापसदं हन्तुं स्वय़मेव पितामह |
८ क
सञ्जय़ उवाच:
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ||
८ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम |
९ क
सञ्जय़ उवाच:
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽव्रवीत् ||
९ ख
सञ्जय़ उवाच:
शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव |
१० क
सञ्जय़ उवाच:
यथा त्वय़ा महाराज वर्तितव्यं परन्तप ||
१० ख
सञ्जय़ उवाच:
आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिन्दम |
११ क
सञ्जय़ उवाच:
धर्मराजेन सङ्ग्रामस्त्वय़ा कार्यः सदानघ ||
११ ख
सञ्जय़ उवाच:
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः |
१२ क
सञ्जय़ उवाच:
राजधर्मं पुरस्कृत्य राजा राजानमृच्छति ||
१२ ख
सञ्जय़ उवाच:
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः |
१३ क
सञ्जय़ उवाच:
शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः ||
१३ ख
सञ्जय़ उवाच:
तव च भ्रातरः शूरा दुःशासनपुरोगमाः |
१४ क
सञ्जय़ उवाच:
त्वदर्थं प्रतिय़ोत्स्यामो राक्षसं तं महावलम् ||
१४ ख
सञ्जय़ उवाच:
तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छय़ो महान् |
१५ क
सञ्जय़ उवाच:
अय़ं वा गच्छतु रणे तस्य युद्धाय़ दुर्मतेः |
१५ ख
सञ्जय़ उवाच:
भगदत्तो महीपालः पुरन्दरसमो युधि ||
१५ ग
सञ्जय़ उवाच:
एतावदुक्त्वा राजानं भगदत्तमथाव्रवीत् |
१६ क
सञ्जय़ उवाच:
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ||
१६ ख
सञ्जय़ उवाच:
गच्छ शीघ्रं महाराज हैडिम्वं युद्धदुर्मदम् |
१७ क
सञ्जय़ उवाच:
वारय़स्व रणे यत्तो मिषतां सर्वधन्विनाम् |
१७ ख
सञ्जय़ उवाच:
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ||
१७ ग
सञ्जय़ उवाच:
तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप |
१८ क
सञ्जय़ उवाच:
समागमश्च वहुभिः पुराभूदसुरैः सह ||
१८ ख
सञ्जय़ उवाच:
त्वं तस्य राजशार्दूल प्रतिय़ोद्धा महाहवे |
१९ क
सञ्जय़ उवाच:
स्ववलेन वृतो राजञ्जहि राक्षसपुङ्गवम् ||
१९ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः |
२० क
सञ्जय़ उवाच:
प्रय़यौ सिंहनादेन परानभिमुखो द्रुतम् ||
२० ख
सञ्जय़ उवाच:
तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोय़दम् |
२१ क
सञ्जय़ उवाच:
अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः ||
२१ ख
सञ्जय़ उवाच:
भिमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः |
२२ क
सञ्जय़ उवाच:
द्रौपदेय़ाः सत्यधृतिः क्षत्रदेवश्च मारिष ||
२२ ख
सञ्जय़ उवाच:
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा |
२३ क
सञ्जय़ उवाच:
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ||
२३ ख
सञ्जय़ उवाच:
ततः समभवद्युद्धं घोररूपं भय़ानकम् |
२४ क
सञ्जय़ उवाच:
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ||
२४ ख
सञ्जय़ उवाच:
प्रमुक्ता रथिभिर्वाणा भीमवेगाः सुतेजनाः |
२५ क
सञ्जय़ उवाच:
ते निपेतुर्महाराज नागेषु च रथेषु च ||
२५ ख
सञ्जय़ उवाच:
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः |
२६ क
सञ्जय़ उवाच:
परस्परं समासाद्य संनिपेतुरभीतवत् ||
२६ ख
सञ्जय़ उवाच:
मदान्धा रोषसंरव्धा विषाणाग्रैर्महाहवे |
२७ क
सञ्जय़ उवाच:
विभिदुर्दन्तमुसलैः समासाद्य परस्परम् ||
२७ ख
सञ्जय़ उवाच:
हय़ाश्च चामरापीडाः प्रासपाणिभिरास्थिताः |
२८ क
सञ्जय़ उवाच:
चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् ||
२८ ख
सञ्जय़ उवाच:
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः |
२९ क
सञ्जय़ उवाच:
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ||
२९ ख
सञ्जय़ उवाच:
रथिनश्च तथा राजन्कर्णिनालीकसाय़कैः |
३० क
सञ्जय़ उवाच:
निहत्य समरे वीरान्सिंहनादान्विनेदिरे ||
३० ख
सञ्जय़ उवाच:
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे |
३१ क
सञ्जय़ उवाच:
भगदत्तो महेष्वासो भीमसेनमथाद्रवत् ||
३१ ख
सञ्जय़ उवाच:
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् |
३२ क
सञ्जय़ उवाच:
पर्वतेन यथा तोय़ं स्रवमाणेन सर्वतः ||
३२ ख
सञ्जय़ उवाच:
किरञ्शरसहस्राणि सुप्रतीकशिरोगतः |
३३ क
सञ्जय़ उवाच:
ऐरावतस्थो मघवान्वारिधारा इवानघ ||
३३ ख
सञ्जय़ उवाच:
स भीमं शरधाराभिस्ताडय़ामास पार्थिवः |
३४ क
सञ्जय़ उवाच:
पर्वतं वारिधाराभिः प्रावृषीव वलाहकः ||
३४ ख
सञ्जय़ उवाच:
भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान् |
३५ क
सञ्जय़ उवाच:
निजघान महेष्वासः सङ्क्रुद्धः शरवृष्टिभिः ||
३५ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् |
३६ क
सञ्जय़ उवाच:
चोदय़ामास नागेन्द्रं भीमसेनरथं प्रति ||
३६ ख
सञ्जय़ उवाच:
स नागः प्रेषितस्तेन वाणो ज्याचोदितो यथा |
३७ क
सञ्जय़ उवाच:
अभ्यधावत वेगेन भीमसेनमरिन्दमम् ||
३७ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथाः |
३८ क
सञ्जय़ उवाच:
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ||
३८ ख
सञ्जय़ उवाच:
केकय़ाश्चाभिमन्युश्च द्रौपदेय़ाश्च सर्वशः |
३९ क
सञ्जय़ उवाच:
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष |
३९ ख
सञ्जय़ उवाच:
चेदिपश्चित्रकेतुश्च सङ्क्रुद्धाः सर्व एव ते ||
३९ ग
सञ्जय़ उवाच:
उत्तमास्त्राणि दिव्यानि दर्शय़न्तो महावलाः |
४० क
सञ्जय़ उवाच:
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारय़न् ||
४० ख
सञ्जय़ उवाच:
स विद्धो वहुभिर्वाणैर्व्यरोचत महाद्विपः |
४१ क
सञ्जय़ उवाच:
सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ||
४१ ख
सञ्जय़ उवाच:
दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् |
४२ क
सञ्जय़ उवाच:
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ||
४२ ख
सञ्जय़ उवाच:
तमापतन्तं समरे गजं गजपतिः स च |
४३ क
सञ्जय़ उवाच:
दधार सुप्रतीकोऽपि वेलेव मकरालय़म् ||
४३ ख
सञ्जय़ उवाच:
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः |
४४ क
सञ्जय़ उवाच:
साधु साध्विति सैन्यानि पाण्डवेय़ान्यपूजय़न् ||
४४ ख
सञ्जय़ उवाच:
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश |
४५ क
सञ्जय़ उवाच:
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ||
४५ ख
सञ्जय़ उवाच:
तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् |
४६ क
सञ्जय़ उवाच:
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ||
४६ ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितो नागो भरतसत्तम |
४७ क
सञ्जय़ उवाच:
उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः ||
४७ ख
सञ्जय़ उवाच:
प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् |
४८ क
सञ्जय़ उवाच:
स मर्दमानः स्ववलं वाय़ुर्वृक्षानिवौजसा ||
४८ ख
सञ्जय़ उवाच:
तस्मिन्पराजिते नागे पाण्डवानां महारथाः |
४९ क