सञ्जय़ उवाच:
पुत्रं तु निहतं श्रुत्वा इरावन्तं धनञ्जय़ः |
१ क
सञ्जय़ उवाच:
दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ||
१ ख
सञ्जय़ उवाच:
अव्रवीत्समरे राजन्वासुदेवमिदं वचः |
२ क
सञ्जय़ उवाच:
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ||
२ ख
सञ्जय़ उवाच:
कुरूणां पाण्डवानां च क्षय़ं घोरं महामतिः |
३ क
सञ्जय़ उवाच:
ततो निवारय़ितवान्धृतराष्ट्रं जनेश्वरम् ||
३ ख
सञ्जय़ उवाच:
अवध्या वहवो वीराः सङ्ग्रामे मधुसूदन |
४ क
सञ्जय़ उवाच:
निहताः कौरवैः सङ्ख्ये तथास्माभिश्च ते हताः ||
४ ख
सञ्जय़ उवाच:
अर्थहेतोर्नरश्रेष्ठ क्रिय़ते कर्म कुत्सितम् |
५ क
सञ्जय़ उवाच:
धिगर्थान्यत्कृते ह्येवं क्रिय़ते ज्ञातिसङ्क्षय़ः ||
५ ख
सञ्जय़ उवाच:
अधनस्य मृतं श्रेय़ो न च ज्ञातिवधाद्धनम् |
६ क
सञ्जय़ उवाच:
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ||
६ ख
सञ्जय़ उवाच:
दुर्योधनापराधेन शकुनेः सौवलस्य च |
७ क
सञ्जय़ उवाच:
क्षत्रिय़ा निधनं यान्ति कर्णदुर्मन्त्रितेन च ||
७ ख
सञ्जय़ उवाच:
इदानीं च विजानामि सुकृतं मधुसूदन |
८ क
सञ्जय़ उवाच:
कृतं राज्ञा महावाहो याचता स्म सुय़ोधनम् |
८ ख
सञ्जय़ उवाच:
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ||
८ ग
सञ्जय़ उवाच:
दृष्ट्वा हि क्षत्रिय़ाञ्शूराञ्शय़ानान्धरणीतले |
९ क
सञ्जय़ उवाच:
निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ||
९ ख
सञ्जय़ उवाच:
अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिय़ा रणे |
१० क
सञ्जय़ उवाच:
युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ||
१० ख
सञ्जय़ उवाच:
सञ्चोदय़ हय़ान्क्षिप्रं धार्तराष्ट्रचमूं प्रति |
११ क
सञ्जय़ उवाच:
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् |
११ ख
सञ्जय़ उवाच:
नाय़ं क्लीवय़ितुं कालो विद्यते माधव क्वचित् ||
११ ग
सञ्जय़ उवाच:
एवमुक्तस्तु पार्थेन केशवः परवीरहा |
१२ क
सञ्जय़ उवाच:
चोदय़ामास तानश्वान्पाण्डुरान्वातरंहसः ||
१२ ख
सञ्जय़ उवाच:
अथ शव्दो महानासीत्तव सैन्यस्य भारत |
१३ क
सञ्जय़ उवाच:
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ||
१३ ख
सञ्जय़ उवाच:
अपराह्णे महाराज सङ्ग्रामः समपद्यत |
१४ क
सञ्जय़ उवाच:
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ||
१४ ख
सञ्जय़ उवाच:
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् |
१५ क
सञ्जय़ उवाच:
परिवार्य रणे द्रोणं वसवो वासवं यथा ||
१५ ख
सञ्जय़ उवाच:
ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः |
१६ क
सञ्जय़ उवाच:
भगदत्तः सुशर्मा च धनञ्जय़मुपाद्रवन् ||
१६ ख
सञ्जय़ उवाच:
हार्दिक्यो वाह्लिकश्चैव सात्यकिं समभिद्रुतौ |
१७ क
सञ्जय़ उवाच:
अम्वष्ठकस्तु नृपतिरभिमन्युमवारय़त् ||
१७ ख
सञ्जय़ उवाच:
शेषास्त्वन्ये महाराज शेषानेव महारथान् |
१८ क
सञ्जय़ उवाच:
ततः प्रववृते युद्धं घोररूपं भय़ावहम् ||
१८ ख
सञ्जय़ उवाच:
भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर |
१९ क
सञ्जय़ उवाच:
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ||
१९ ख
सञ्जय़ उवाच:
पुत्रास्तु तव कौन्तेय़ं छादय़ां चक्रिरे शरैः |
२० क
सञ्जय़ उवाच:
प्रावृषीव महाराज जलदाः पर्वतं यथा ||
२० ख
सञ्जय़ उवाच:
स च्छाद्यमानो वहुधा पुत्रैस्तव विशां पते |
२१ क
सञ्जय़ उवाच:
सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः ||
२१ ख
सञ्जय़ उवाच:
व्यूढोरस्कं ततो भीमः पातय़ामास पार्थिव |
२२ क
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ||
२२ ख
सञ्जय़ उवाच:
अपरेण तु भल्लेन पीतेन निशितेन च |
२३ क
सञ्जय़ उवाच:
अपातय़त्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ||
२३ ख
सञ्जय़ उवाच:
ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् |
२४ क
सञ्जय़ उवाच:
स सप्त त्वरय़ा युक्तः पुत्रांस्ते प्राप्य मारिष ||
२४ ख
सञ्जय़ उवाच:
प्रेषिता भीमसेनेन शरास्ते दृढधन्वना |
२५ क
सञ्जय़ उवाच:
अपातय़न्त पुत्रांस्ते रथेभ्यः सुमहारथान् ||
२५ ख
सञ्जय़ उवाच:
अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् |
२६ क
सञ्जय़ उवाच:
दीर्घवाहुं सुवाहुं च तथैव कनकध्वजम् ||
२६ ख
सञ्जय़ उवाच:
प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ |
२७ क
सञ्जय़ उवाच:
वसन्ते पुष्पशवलाश्चूताः प्रपतिता इव ||
२७ ख
सञ्जय़ उवाच:
ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते |
२८ क
सञ्जय़ उवाच:
तं कालमिव मन्यन्तो भीमसेनं महावलम् ||
२८ ख
सञ्जय़ उवाच:
द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव |
२९ क
सञ्जय़ उवाच:
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ||
२९ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् |
३० क
सञ्जय़ उवाच:
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ||
३० ख
सञ्जय़ उवाच:
यथा हि गोवृषो वर्षं सन्धारय़ति खात्पतत् |
३१ क
सञ्जय़ उवाच:
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ||
३१ ख
सञ्जय़ उवाच:
अद्भुतं च महाराज तत्र चक्रे वृकोदरः |
३२ क
सञ्जय़ उवाच:
यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्ययोधय़त् ||
३२ ख
सञ्जय़ उवाच:
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः |
३३ क
सञ्जय़ उवाच:
मृगेष्विव महाराज चरन्व्याघ्रो महावलः ||
३३ ख
सञ्जय़ उवाच:
यथा वा पशुमध्यस्थो द्रावय़ेत पशून्वृकः |
३४ क
सञ्जय़ उवाच:
वृकोदरस्तव सुतांस्तथा व्यद्रावय़द्रणे ||
३४ ख
सञ्जय़ उवाच:
गाङ्गेय़ो भगदत्तश्च गौतमश्च महारथः |
३५ क
सञ्जय़ उवाच:
पाण्डवं रभसं युद्धे वारय़ामासुरर्जुनम् ||
३५ ख
सञ्जय़ उवाच:
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे |
३६ क
सञ्जय़ उवाच:
प्रवीरांस्तव सैन्येषु प्रेषय़ामास मृत्यवे ||
३६ ख
सञ्जय़ उवाच:
अभिमन्युश्च राजानमम्वष्ठं लोकविश्रुतम् |
३७ क
सञ्जय़ उवाच:
विरथं रथिनां श्रेष्ठं कारय़ामास साय़कैः ||
३७ ख
सञ्जय़ उवाच:
विरथो वध्यमानः स सौभद्रेण यशस्विना |
३८ क
सञ्जय़ उवाच:
अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ||
३८ ख
सञ्जय़ उवाच:
असिं चिक्षेप समरे सौभद्रस्य महात्मनः |
३९ क
सञ्जय़ उवाच:
आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ||
३९ ख
सञ्जय़ उवाच:
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः |
४० क
सञ्जय़ उवाच:
लाघवाद्व्यंसय़ामास सौभद्रः परवीरहा ||
४० ख
सञ्जय़ उवाच:
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा |
४१ क
सञ्जय़ उवाच:
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ||
४१ ख
सञ्जय़ उवाच:
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमय़ोधय़न् |
४२ क
सञ्जय़ उवाच:
तथैव तावकाः सर्वे पाण्डुसैन्यमय़ोधय़न् ||
४२ ख
सञ्जय़ उवाच:
तत्राक्रन्दो महानासीत्तव तेषां च भारत |
४३ क
सञ्जय़ उवाच:
निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ||
४३ ख
सञ्जय़ उवाच:
अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष |
४४ क
सञ्जय़ उवाच:
नखैर्दन्तैरय़ुध्यन्त मुष्टिभिर्जानुभिस्तथा ||
४४ ख
सञ्जय़ उवाच:
वाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः |
४५ क
सञ्जय़ उवाच:
विवरं प्राप्य चान्योन्यमनय़न्यमसादनम् ||
४५ ख
सञ्जय़ उवाच:
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे |
४६ क
सञ्जय़ उवाच:
व्याकुलीकृतसङ्कल्पा युय़ुधुस्तत्र मानवाः ||
४६ ख
सञ्जय़ उवाच:
रणे चारूणि चापानि हेमपृष्ठानि भारत |
४७ क
सञ्जय़ उवाच:
हतानामपविद्धानि कलापाश्च महाधनाः ||
४७ ख
सञ्जय़ उवाच:
जातरूपमय़ैः पुङ्खै राजतैश्च शिताः शराः |
४८ क
सञ्जय़ उवाच:
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ||
४८ ख
सञ्जय़ उवाच:
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् |
४९ क
सञ्जय़ उवाच:
चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ||
४९ ख