chevron_left भीष्म पर्व अध्याय ९२
सञ्जय़ उवाच:
सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् |
५० क
सञ्जय़ उवाच:
जातरूपमय़ाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ||
५० ख
सञ्जय़ उवाच:
अपकृत्ताश्च पतिता मुसलानि गुरूणि च |
५१ क
सञ्जय़ उवाच:
परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ||
५१ ख
सञ्जय़ उवाच:
पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः |
५२ क
सञ्जय़ उवाच:
कुथाश्च वहुधाकाराश्चामरव्यजनानि च ||
५२ ख
सञ्जय़ उवाच:
नानाविधानि शस्त्राणि विसृज्य पतिता नराः |
५३ क
सञ्जय़ उवाच:
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ||
५३ ख
सञ्जय़ उवाच:
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः |
५४ क
सञ्जय़ उवाच:
गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ||
५४ ख
सञ्जय़ उवाच:
तथैवाश्वनृनागानां शरीरैरावभौ तदा |
५५ क
सञ्जय़ उवाच:
सञ्छन्ना वसुधा राजन्पर्वतैरिव सर्वतः ||
५५ ख
सञ्जय़ उवाच:
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः |
५६ क
सञ्जय़ उवाच:
निस्त्रिंशैः पट्टिशैः प्रासैरय़स्कुन्तैः परश्वधैः ||
५६ ख
सञ्जय़ उवाच:
परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च |
५७ क
सञ्जय़ उवाच:
शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी ||
५७ ख
सञ्जय़ उवाच:
निःशव्दैरल्पशव्दैश्च शोणितौघपरिप्लुतैः |
५८ क
सञ्जय़ उवाच:
गतासुभिरमित्रघ्न विवभौ संवृता मही ||
५८ ख
सञ्जय़ उवाच:
सतलत्रैः सकेय़ूरैर्वाहुभिश्चन्दनोक्षितैः |
५९ क
सञ्जय़ उवाच:
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ||
५९ ख
सञ्जय़ उवाच:
वद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः |
६० क
सञ्जय़ उवाच:
पतितैर्वृषभाक्षाणां वभौ भारत मेदिनी ||
६० ख
सञ्जय़ उवाच:
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः |
६१ क
सञ्जय़ उवाच:
रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ||
६१ ख
सञ्जय़ उवाच:
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः |
६२ क
सञ्जय़ उवाच:
विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ||
६२ ख
सञ्जय़ उवाच:
रथैश्च वहुभिर्भग्नैः किङ्किणीजालमालिभिः |
६३ क
सञ्जय़ उवाच:
वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ||
६३ ख
सञ्जय़ उवाच:
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि |
६४ क
सञ्जय़ उवाच:
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ||
६४ ख
सञ्जय़ उवाच:
स्रस्तहस्तैश्च मातङ्गैः शय़ानैर्विवभौ मही |
६५ क
सञ्जय़ उवाच:
नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता ||
६५ ख
सञ्जय़ उवाच:
दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः |
६६ क
सञ्जय़ उवाच:
करैः शव्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः |
६६ ख
सञ्जय़ उवाच:
विवभौ तद्रणस्थानं धम्यमानैरिवाचलैः ||
६६ ग
सञ्जय़ उवाच:
नानारागैः कम्वलैश्च परिस्तोमैश्च दन्तिनाम् |
६७ क
सञ्जय़ उवाच:
वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ||
६७ ख
सञ्जय़ उवाच:
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः |
६८ क
सञ्जय़ उवाच:
विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा ||
६८ ख
सञ्जय़ उवाच:
ग्रैवेय़ैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च |
६९ क
सञ्जय़ उवाच:
यन्त्रैश्च वहुधा छिन्नैस्तोमरैश्च सकम्पनैः ||
६९ ख
सञ्जय़ उवाच:
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः |
७० क
सञ्जय़ उवाच:
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ||
७० ख
सञ्जय़ उवाच:
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः |
७१ क
सञ्जय़ उवाच:
उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ||
७१ ख
सञ्जय़ उवाच:
विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः |
७२ क
सञ्जय़ उवाच:
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ||
७२ ख
सञ्जय़ उवाच:
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः |
७३ क
सञ्जय़ उवाच:
छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ||
७३ ख
सञ्जय़ उवाच:
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः |
७४ क
सञ्जय़ उवाच:
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ||
७४ ख
सञ्जय़ उवाच:
अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः |
७५ क
सञ्जय़ उवाच:
ग्रहनक्षत्रशवला द्यौरिवासीद्वसुन्धरा ||
७५ ख
सञ्जय़ उवाच:
एवमेते महासेने मृदिते तत्र भारत |
७६ क
सञ्जय़ उवाच:
परस्परं समासाद्य तव तेषां च संय़ुगे ||
७६ ख
सञ्जय़ उवाच:
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत |
७७ क
सञ्जय़ उवाच:
रात्रिः समभवद्घोरा नापश्याम ततो रणम् ||
७७ ख
सञ्जय़ उवाच:
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः |
७८ क
सञ्जय़ उवाच:
घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ||
७८ ख
सञ्जय़ उवाच:
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः |
७९ क
सञ्जय़ उवाच:
न्यविशन्त यथाकालं गत्वा स्वशिविरं तदा ||
७९ ख