chevron_left आदि पर्व अध्याय ९२
वैशम्पाय़न उवाच:
ततः प्रतीपो राजा स सर्वभूतहिते रतः |
१ क
वैशम्पाय़न उवाच:
निषसाद समा वह्वीर्गङ्गातीरगतो जपन् ||
१ ख
वैशम्पाय़न उवाच:
तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी |
२ क
वैशम्पाय़न उवाच:
उत्तीर्य सलिलात्तस्माल्लोभनीय़तमाकृतिः ||
२ ख
वैशम्पाय़न उवाच:
अधीय़ानस्य राजर्षेर्दिव्यरूपा मनस्विनी |
३ क
वैशम्पाय़न उवाच:
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ||
३ ख
वैशम्पाय़न उवाच:
प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् |
४ क
वैशम्पाय़न उवाच:
करवाणि किं ते कल्याणि प्रिय़ं यत्तेऽभिकाङ्क्षितम् ||
४ ख
स्त्र्यु उवाच:
त्वामहं कामय़े राजन्कुरुश्रेष्ठ भजस्व माम् |
५ क
स्त्र्यु उवाच:
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ||
५ ख
प्रतीप उवाच:
नाहं परस्त्रिय़ं कामाद्गच्छेय़ं वरवर्णिनि |
६ क
प्रतीप उवाच:
न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ||
६ ख
स्त्र्यु उवाच:
नाश्रेय़स्यस्मि नागम्या न वक्तव्या च कर्हिचित् |
७ क
स्त्र्यु उवाच:
भज मां भजमानां त्वं राजन्कन्यां वरस्त्रिय़म् ||
७ ख
प्रतीप उवाच:
मय़ातिवृत्तमेतत्ते यन्मां चोदय़सि प्रिय़म् |
८ क
प्रतीप उवाच:
अन्यथा प्रतिपन्नं मां नाशय़ेद्धर्मविप्लवः ||
८ ख
प्रतीप उवाच:
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने |
९ क
प्रतीप उवाच:
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ||
९ ख
प्रतीप उवाच:
सव्यतः कामिनीभागस्त्वय़ा स च विवर्जितः |
१० क
प्रतीप उवाच:
तस्मादहं नाचरिष्ये त्वय़ि कामं वराङ्गने ||
१० ख
प्रतीप उवाच:
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् |
११ क
प्रतीप उवाच:
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ||
११ ख
स्त्र्यु उवाच:
एवमप्यस्तु धर्मज्ञ संय़ुज्येय़ं सुतेन ते |
१२ क
स्त्र्यु उवाच:
त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ||
१२ ख
स्त्र्यु उवाच:
पृथिव्यां पार्थिवा ये च तेषां यूय़ं पराय़णम् |
१३ क
स्त्र्यु उवाच:
गुणा न हि मय़ा शक्या वक्तुं वर्षशतैरपि |
१३ ख
स्त्र्यु उवाच:
कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ||
१३ ग
स्त्र्यु उवाच:
स मे नाभिजनज्ञः स्यादाचरेय़ं च यद्विभो |
१४ क
स्त्र्यु उवाच:
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ||
१४ ख
स्त्र्यु उवाच:
एवं वसन्ती पुत्रे ते वर्धय़िष्याम्यहं प्रिय़म् |
१५ क
स्त्र्यु उवाच:
पुत्रैः पुण्यैः प्रिय़ैश्चापि स्वर्गं प्राप्स्यति ते सुतः ||
१५ ख
वैशम्पाय़न उवाच:
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीय़त |
१६ क
वैशम्पाय़न उवाच:
पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारय़त् ||
१६ ख
वैशम्पाय़न उवाच:
एतस्मिन्नेव काले तु प्रतीपः क्षत्रिय़र्षभः |
१७ क
वैशम्पाय़न उवाच:
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ||
१७ ख
वैशम्पाय़न उवाच:
तय़ोः समभवत्पुत्रो वृद्धय़ोः स महाभिषः |
१८ क
वैशम्पाय़न उवाच:
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ||
१८ ख
वैशम्पाय़न उवाच:
संस्मरंश्चाक्षय़ाँल्लोकान्विजितान्स्वेन कर्मणा |
१९ क
वैशम्पाय़न उवाच:
पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ||
१९ ख
वैशम्पाय़न उवाच:
प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् |
२० क
वैशम्पाय़न उवाच:
पुरा मां स्त्री समभ्यागाच्छन्तनो भूतय़े तव ||
२० ख
वैशम्पाय़न उवाच:
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी |
२१ क
वैशम्पाय़न उवाच:
कामय़ानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया |
२१ ख
वैशम्पाय़न उवाच:
सा त्वय़ा नानुय़ोक्तव्या कासि कस्यासि वाङ्गने ||
२१ ग
वैशम्पाय़न उवाच:
यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वय़ानघ |
२२ क
वैशम्पाय़न उवाच:
मन्निय़ोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ||
२२ ख
वैशम्पाय़न उवाच:
एवं सन्दिश्य तनय़ं प्रतीपः शन्तनुं तदा |
२३ क
वैशम्पाय़न उवाच:
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ||
२३ ख
वैशम्पाय़न उवाच:
स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः |
२४ क
वैशम्पाय़न उवाच:
वभूव मृगय़ाशीलः सततं वनगोचरः ||
२४ ख
वैशम्पाय़न उवाच:
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः |
२५ क
वैशम्पाय़न उवाच:
गङ्गामनुचचारैकः सिद्धचारणसेविताम् ||
२५ ख
वैशम्पाय़न उवाच:
स कदाचिन्महाराज ददर्श परमस्त्रिय़म् |
२६ क
वैशम्पाय़न उवाच:
जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रिय़म् ||
२६ ख
वैशम्पाय़न उवाच:
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् |
२७ क
वैशम्पाय़न उवाच:
सूक्ष्माम्वरधरामेकां पद्मोदरसमप्रभाम् ||
२७ ख
वैशम्पाय़न उवाच:
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा |
२८ क
वैशम्पाय़न उवाच:
पिवन्निव च नेत्राभ्यां नातृप्यत नराधिपः ||
२८ ख
वैशम्पाय़न उवाच:
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् |
२९ क
वैशम्पाय़न उवाच:
स्नेहादागतसौहार्दा नातृप्यत विलासिनी ||
२९ ख
वैशम्पाय़न उवाच:
तामुवाच ततो राजा सान्त्वय़ञ्श्लक्ष्णय़ा गिरा |
३० क
वैशम्पाय़न उवाच:
देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ||
३० ख
वैशम्पाय़न उवाच:
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे |
३१ क
वैशम्पाय़न उवाच:
या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ||
३१ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च |
३२ क
वैशम्पाय़न उवाच:
वसूनां समय़ं स्मृत्वा अभ्यगच्छदनिन्दिता ||
३२ ख
वैशम्पाय़न उवाच:
उवाच चैव राज्ञः सा ह्लादय़न्ती मनो गिरा |
३३ क
वैशम्पाय़न उवाच:
भविष्यामि महीपाल महिषी ते वशानुगा ||
३३ ख
वैशम्पाय़न उवाच:
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् |
३४ क
वैशम्पाय़न उवाच:
न तद्वारय़ितव्यास्मि न वक्तव्या तथाप्रिय़म् ||
३४ ख
वैशम्पाय़न उवाच:
एवं हि वर्तमानेऽहं त्वय़ि वत्स्यामि पार्थिव |
३५ क
वैशम्पाय़न उवाच:
वारिता विप्रिय़ं चोक्ता त्यजेय़ं त्वामसंशय़म् ||
३५ ख
वैशम्पाय़न उवाच:
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम |
३६ क
वैशम्पाय़न उवाच:
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ||
३६ ख
वैशम्पाय़न उवाच:
आसाद्य शन्तनुस्तां च वुभुजे कामतो वशी |
३७ क
वैशम्पाय़न उवाच:
न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ||
३७ ख
वैशम्पाय़न उवाच:
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च |
३८ क
वैशम्पाय़न उवाच:
उपचारेण च रहस्तुतोष जगतीपतिः ||
३८ ख
वैशम्पाय़न उवाच:
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी |
३९ क
वैशम्पाय़न उवाच:
मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ||
३९ ख
वैशम्पाय़न उवाच:
भाग्योपनतकामस्य भार्येवोपस्थिताभवत् |
४० क
वैशम्पाय़न उवाच:
शन्तनो राजसिंहस्य देवराजसमद्युतेः ||
४० ख
वैशम्पाय़न उवाच:
सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः |
४१ क
वैशम्पाय़न उवाच:
राजानं रमय़ामास यथा रेमे तथैव सः ||
४१ ख
वैशम्पाय़न उवाच:
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः |
४२ क
वैशम्पाय़न उवाच:
संवत्सरानृतून्मासान्न वुवोध वहून्गतान् ||
४२ ख
वैशम्पाय़न उवाच:
रममाणस्तय़ा सार्धं यथाकामं जनेश्वरः |
४३ क
वैशम्पाय़न उवाच:
अष्टावजनय़त्पुत्रांस्तस्याममरवर्णिनः ||
४३ ख
वैशम्पाय़न उवाच:
जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत |
४४ क
वैशम्पाय़न उवाच:
प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जय़त् ||
४४ ख
वैशम्पाय़न उवाच:
तस्य तन्न प्रिय़ं राज्ञः शन्तनोरभवत्तदा |
४५ क
वैशम्पाय़न उवाच:
न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ||
४५ ख
वैशम्पाय़न उवाच:
अथ तामष्टमे पुत्रे जाते प्रहसितामिव |
४६ क
वैशम्पाय़न उवाच:
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ||
४६ ख
वैशम्पाय़न उवाच:
मा वधीः कासि कस्यासि किं हिंससि सुतानिति |
४७ क
वैशम्पाय़न उवाच:
पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ||
४७ ख
स्त्र्यु उवाच:
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर |
४८ क
स्त्र्यु उवाच:
जीर्णस्तु मम वासोऽय़ं यथा स समय़ः कृतः ||
४८ ख
स्त्र्यु उवाच:
अहं गङ्गा जह्नुसुता महर्षिगणसेविता |
४९ क
स्त्र्यु उवाच:
देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वय़ा सह ||
४९ ख