chevron_left शान्ति पर्व अध्याय ९२
उतथ्य उवाच:
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः |
१ क
उतथ्य उवाच:
सम्पद्यदैषा भवति सा विभर्ति सुखं प्रजाः ||
१ ख
उतथ्य उवाच:
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् |
२ क
उतथ्य उवाच:
रक्तानि वा शोधय़ितुं यथा नास्ति तथैव सः ||
२ ख
उतथ्य उवाच:
एवमेव द्विजेन्द्राणां क्षत्रिय़ाणां विशामपि |
३ क
उतथ्य उवाच:
शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः ||
३ ख
उतथ्य उवाच:
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि |
४ क
उतथ्य उवाच:
व्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ||
४ ख
उतथ्य उवाच:
तेषां यः क्षत्रिय़ो वेद वस्त्राणामिव शोधनम् |
५ क
उतथ्य उवाच:
शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ||
५ ख
उतथ्य उवाच:
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ |
६ क
उतथ्य उवाच:
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ||
६ ख
उतथ्य उवाच:
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च |
७ क
उतथ्य उवाच:
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ||
७ ख
उतथ्य उवाच:
राजैव कर्ता भूतानां राजैव च विनाशकः |
८ क
उतथ्य उवाच:
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ||
८ ख
उतथ्य उवाच:
राज्ञो भार्याश्च पुत्राश्च वान्धवाः सुहृदस्तथा |
९ क
उतथ्य उवाच:
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ||
९ ख
उतथ्य उवाच:
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः |
१० क
उतथ्य उवाच:
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ||
१० ख
उतथ्य उवाच:
दुर्वलार्थं वलं सृष्टं धात्रा मान्धातरुच्यते |
११ क
उतथ्य उवाच:
अवलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ||
११ ख
उतथ्य उवाच:
यच्च भूतं स भजते भूता ये च तदन्वय़ाः |
१२ क
उतथ्य उवाच:
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ||
१२ ख
उतथ्य उवाच:
दुर्वलस्य हि यच्चक्षुर्मुनेराशीविषस्य च |
१३ क
उतथ्य उवाच:
अविषह्यतमं मन्ये मा स्म दुर्वलमासदः ||
१३ ख
उतथ्य उवाच:
दुर्वलांस्तात वुध्येथा नित्यमेवाविमानितान् |
१४ क
उतथ्य उवाच:
मा त्वां दुर्वलचक्षूंषि प्रदहेय़ुः सवान्धवम् ||
१४ ख
उतथ्य उवाच:
न हि दुर्वलदग्धस्य कुले किञ्चित्प्ररोहति |
१५ क
उतथ्य उवाच:
आमूलं निर्दहत्येव मा स्म दुर्वलमासदः ||
१५ ख
उतथ्य उवाच:
अवलं वै वलाच्छ्रेय़ो यच्चातिवलवद्वलम् |
१६ क
उतथ्य उवाच:
वलस्यावलदग्धस्य न किञ्चिदवशिष्यते ||
१६ ख
उतथ्य उवाच:
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति |
१७ क
उतथ्य उवाच:
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ||
१७ ख
उतथ्य उवाच:
मा स्म तात वले स्थेय़ा वाधिष्ठा मापि दुर्वलम् |
१८ क
उतथ्य उवाच:
मा त्वा दुर्वलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रय़म् ||
१८ ख
उतथ्य उवाच:
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् |
१९ क
उतथ्य उवाच:
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ||
१९ ख
उतथ्य उवाच:
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु |
२० क
उतथ्य उवाच:
न हि पापं कृतं कर्म सद्यः फलति गौरिव ||
२० ख
उतथ्य उवाच:
यत्रावलो वध्यमानस्त्रातारं नाधिगच्छति |
२१ क
उतथ्य उवाच:
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ||
२१ ख
उतथ्य उवाच:
युक्ता यदा जानपदा भिक्षन्ते व्राह्मणा इव |
२२ क
उतथ्य उवाच:
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ||
२२ ख
उतथ्य उवाच:
राज्ञो यदा जनपदे वहवो राजपूरुषाः |
२३ क
उतथ्य उवाच:
अनय़ेनोपवर्तन्ते तद्राज्ञः किल्विषं महत् ||
२३ ख
उतथ्य उवाच:
यदा युक्ता नय़न्त्यर्थान्कामादर्थवशेन वा |
२४ क
उतथ्य उवाच:
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ||
२४ ख
उतथ्य उवाच:
महावृक्षो जाय़ते वर्धते च; तं चैव भूतानि समाश्रय़न्ति |
२५ क
उतथ्य उवाच:
यदा वृक्षश्छिद्यते दह्यते वा; तदाश्रय़ा अनिकेता भवन्ति ||
२५ ख
उतथ्य उवाच:
यदा राष्ट्रे धर्ममग्र्यं चरन्ति; संस्कारं वा राजगुणं व्रुवाणाः |
२६ क
उतथ्य उवाच:
तैरेवाधर्मश्चरितो धर्ममोहा; त्तूर्णं जह्यात्सुकृतं दुष्कृतं च ||
२६ ख
उतथ्य उवाच:
यत्र पापा ज्ञाय़मानाश्चरन्ति; सतां कलिर्विन्दति तत्र राज्ञः |
२७ क
उतथ्य उवाच:
यदा राजा शास्ति नरान्नशिष्या; न्न तद्राज्यं वर्धते भूमिपाल ||
२७ ख
उतथ्य उवाच:
यश्चामात्यं मानय़ित्वा यथार्हं; मन्त्रे च युद्धे च नृपो निय़ुञ्ज्यात् |
२८ क
उतथ्य उवाच:
प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्यखिलां चिराय़ ||
२८ ख
उतथ्य उवाच:
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् |
२९ क
उतथ्य उवाच:
समीक्ष्य पूजय़न्राजा धर्मं प्राप्नोत्यनुत्तमम् ||
२९ ख
उतथ्य उवाच:
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते |
३० क
उतथ्य उवाच:
निहन्ति वलिनं दृप्तं स राज्ञो धर्म उच्यते ||
३० ख
उतथ्य उवाच:
त्राय़ते हि यदा सर्वं वाचा काय़ेन कर्मणा |
३१ क
उतथ्य उवाच:
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ||
३१ ख
उतथ्य उवाच:
यदा शारणिकान्राजा पुत्रवत्परिरक्षति |
३२ क
उतथ्य उवाच:
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ||
३२ ख
उतथ्य उवाच:
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धय़ान्वितः |
३३ क
उतथ्य उवाच:
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ||
३३ ख
उतथ्य उवाच:
कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै |
३४ क
उतथ्य उवाच:
हर्षं सञ्जनय़न्नॄणां स राज्ञो धर्म उच्यते ||
३४ ख
उतथ्य उवाच:
विवर्धय़ति मित्राणि तथारींश्चापकर्षति |
३५ क
उतथ्य उवाच:
सम्पूजय़ति साधूंश्च स राज्ञो धर्म उच्यते ||
३५ ख
उतथ्य उवाच:
सत्यं पालय़ति प्राप्त्या नित्यं भूमिं प्रय़च्छति |
३६ क
उतथ्य उवाच:
पूजय़त्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ||
३६ ख
उतथ्य उवाच:
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ |
३७ क
उतथ्य उवाच:
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ||
३७ ख
उतथ्य उवाच:
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः |
३८ क
उतथ्य उवाच:
संय़च्छन्भवति प्राणान्नसंय़च्छंस्तु पापकः ||
३८ ख
उतथ्य उवाच:
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च |
३९ क
उतथ्य उवाच:
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ||
३९ ख
उतथ्य उवाच:
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः |
४० क
उतथ्य उवाच:
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ||
४० ख
उतथ्य उवाच:
सहस्राक्षेण राजा हि सर्व एवोपमीय़ते |
४१ क
उतथ्य उवाच:
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ||
४१ ख
उतथ्य उवाच:
अप्रमादेन शिक्षेथाः क्षमां वुद्धिं धृतिं मतिम् |
४२ क
उतथ्य उवाच:
भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ||
४२ ख
उतथ्य उवाच:
सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् |
४३ क
उतथ्य उवाच:
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ||
४३ ख
उतथ्य उवाच:
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् |
४४ क
उतथ्य उवाच:
भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ||
४४ ख
उतथ्य उवाच:
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् |
४५ क
उतथ्य उवाच:
न हि शक्यमदण्डेन क्लीवेनावुद्धिनापि वा ||
४५ ख
उतथ्य उवाच:
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्वहुश्रुतैः |
४६ क
उतथ्य उवाच:
सर्वा वुद्धीः परीक्षेथास्तापसाश्रमिणामपि ||
४६ ख
उतथ्य उवाच:
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् |
४७ क
उतथ्य उवाच:
स्वदेशे परदेशे वा न ते धर्मो विनश्यति ||
४७ ख
उतथ्य उवाच:
धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत् |
४८ क
उतथ्य उवाच:
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ||
४८ ख
उतथ्य उवाच:
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः |
४९ क
उतथ्य उवाच:
सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ||
४९ ख
उतथ्य उवाच:
अप्रमादश्च शौचं च तात भूतिकरं महत् |
५० क
उतथ्य उवाच:
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ||
५० ख