chevron_left आश्वमेधिक पर्व अध्याय ९२
जनमेजय़ उवाच:
पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः |
१ क
जनमेजय़ उवाच:
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ||
१ ख
वैशम्पाय़न उवाच:
श्रूय़तां राजशार्दूल महदाश्चर्यमुत्तमम् |
२ क
वैशम्पाय़न उवाच:
अश्वमेधे महाय़ज्ञे निवृत्ते यदभूद्विभो ||
२ ख
वैशम्पाय़न उवाच:
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्वन्धिवन्धुषु |
३ क
वैशम्पाय़न उवाच:
दीनान्धकृपणे चापि तदा भरतसत्तम ||
३ ख
वैशम्पाय़न उवाच:
घुष्यमाणे महादाने दिक्षु सर्वासु भारत |
४ क
वैशम्पाय़न उवाच:
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ||
४ ख
वैशम्पाय़न उवाच:
विलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ |
५ क
वैशम्पाय़न उवाच:
वज्राशनिसमं नादममुञ्चत विशां पते ||
५ ख
वैशम्पाय़न उवाच:
सकृदुत्सृज्य तं नादं त्रासय़ानो मृगद्विजान् |
६ क
वैशम्पाय़न उवाच:
मानुषं वचनं प्राह धृष्टो विलशय़ो महान् ||
६ ख
वैशम्पाय़न उवाच:
सक्तुप्रस्थेन वो नाय़ं यज्ञस्तुल्यो नराधिपाः |
७ क
वैशम्पाय़न उवाच:
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||
७ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते |
८ क
वैशम्पाय़न उवाच:
विस्मय़ं परमं जग्मुः सर्वे ते व्राह्मणर्षभाः ||
८ ख
वैशम्पाय़न उवाच:
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः |
९ क
वैशम्पाय़न उवाच:
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ||
९ ख
वैशम्पाय़न उवाच:
किं वलं परमं तुभ्यं किं श्रुतं किं पराय़णम् |
१० क
वैशम्पाय़न उवाच:
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ||
१० ख
वैशम्पाय़न उवाच:
अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् |
११ क
वैशम्पाय़न उवाच:
यथागमं यथान्याय़ं कर्तव्यं च यथाकृतम् ||
११ ख
वैशम्पाय़न उवाच:
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा |
१२ क
वैशम्पाय़न उवाच:
मन्त्रपूतं हुतश्चाग्निर्दत्तं देय़ममत्सरम् ||
१२ ख
वैशम्पाय़न उवाच:
तुष्टा द्विजर्षभाश्चात्र दानैर्वहुविधैरपि |
१३ क
वैशम्पाय़न उवाच:
क्षत्रिय़ाश्च सुय़ुद्धेन श्राद्धैरपि पितामहाः ||
१३ ख
वैशम्पाय़न उवाच:
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रिय़ः |
१४ क
वैशम्पाय़न उवाच:
अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ||
१४ ख
वैशम्पाय़न उवाच:
ज्ञातिसम्वन्धिनस्तुष्टाः शौचेन च नृपस्य नः |
१५ क
वैशम्पाय़न उवाच:
देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः ||
१५ ख
वैशम्पाय़न उवाच:
यदत्र तथ्यं तद्व्रूहि सत्यसन्ध द्विजातिषु |
१६ क
वैशम्पाय़न उवाच:
यथाश्रुतं यथादृष्टं पृष्टो व्राह्मणकाम्यया ||
१६ ख
वैशम्पाय़न उवाच:
श्रद्धेय़वाक्यः प्राज्ञस्त्वं दिव्यं रूपं विभर्षि च |
१७ क
वैशम्पाय़न उवाच:
समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि ||
१७ ख
वैशम्पाय़न उवाच:
इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽव्रवीत् |
१८ क
वैशम्पाय़न उवाच:
नैषानृता मय़ा वाणी प्रोक्ता दर्पेण वा द्विजाः ||
१८ ख
वैशम्पाय़न उवाच:
यन्मय़ोक्तमिदं किञ्चिद्युष्माभिश्चाप्युपश्रुतम् |
१९ क
वैशम्पाय़न उवाच:
सक्तुप्रस्थेन वो नाय़ं यज्ञस्तुल्यो नराधिपाः |
१९ ख
वैशम्पाय़न उवाच:
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||
१९ ग
वैशम्पाय़न उवाच:
इत्यवश्यं मय़ैतद्वो वक्तव्यं द्विजपुङ्गवाः |
२० क
वैशम्पाय़न उवाच:
शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः ||
२० ख
वैशम्पाय़न उवाच:
अनुभूतं च दृष्टं च यन्मय़ाद्भुतमुत्तमम् |
२१ क
वैशम्पाय़न उवाच:
उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः ||
२१ ख
वैशम्पाय़न उवाच:
स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः |
२२ क
वैशम्पाय़न उवाच:
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ||
२२ ख