chevron_left उद्योग पर्व अध्याय ९२
वैशम्पाय़न उवाच:
तथा कथय़तोरेव तय़ोर्वुद्धिमतोस्तदा |
१ क
वैशम्पाय़न उवाच:
शिवा नक्षत्रसम्पन्ना सा व्यतीय़ाय़ शर्वरी ||
१ ख
वैशम्पाय़न उवाच:
धर्मार्थकामय़ुक्ताश्च विचित्रार्थपदाक्षराः |
२ क
वैशम्पाय़न उवाच:
शृण्वतो विविधा वाचो विदुरस्य महात्मनः ||
२ ख
वैशम्पाय़न उवाच:
कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः |
३ क
वैशम्पाय़न उवाच:
अकामस्येव कृष्णस्य सा व्यतीय़ाय़ शर्वरी ||
३ ख
वैशम्पाय़न उवाच:
ततस्तु स्वरसम्पन्ना वहवः सूतमागधाः |
४ क
वैशम्पाय़न उवाच:
शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यवोधय़न् ||
४ ख
वैशम्पाय़न उवाच:
तत उत्थाय़ दाशार्ह ऋषभः सर्वसात्वताम् |
५ क
वैशम्पाय़न उवाच:
सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः ||
५ ख
वैशम्पाय़न उवाच:
कृतोदकार्यजप्यः स हुताग्निः समलङ्कृतः |
६ क
वैशम्पाय़न उवाच:
तत आदित्यमुद्यन्तमुपातिष्ठत माधवः ||
६ ख
वैशम्पाय़न उवाच:
अथ दुर्योधनः कृष्णं शकुनिश्चापि सौवलः |
७ क
वैशम्पाय़न उवाच:
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ||
७ ख
वैशम्पाय़न उवाच:
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् |
८ क
वैशम्पाय़न उवाच:
कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ||
८ ख
वैशम्पाय़न उवाच:
त्वामर्थय़न्ते गोविन्द दिवि शक्रमिवामराः |
९ क
वैशम्पाय़न उवाच:
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ||
९ ख
वैशम्पाय़न उवाच:
ततो विमल आदित्ये व्राह्मणेभ्यो जनार्दनः |
१० क
वैशम्पाय़न उवाच:
ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परन्तपः ||
१० ख
वैशम्पाय़न उवाच:
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् |
११ क
वैशम्पाय़न उवाच:
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ||
११ ख
वैशम्पाय़न उवाच:
तमुपस्थितमाज्ञाय़ रथं दिव्यं महामनाः |
१२ क
वैशम्पाय़न उवाच:
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ||
१२ ख
वैशम्पाय़न उवाच:
अग्निं प्रदक्षिणं कृत्वा व्राह्मणांश्च जनार्दनः |
१३ क
वैशम्पाय़न उवाच:
कौस्तुभं मणिमामुच्य श्रिय़ा परमय़ा ज्वलन् ||
१३ ख
वैशम्पाय़न उवाच:
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः |
१४ क
वैशम्पाय़न उवाच:
आतिष्ठत रथं शौरिः सर्वय़ादवनन्दनः ||
१४ ख
वैशम्पाय़न उवाच:
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् |
१५ क
वैशम्पाय़न उवाच:
सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् ||
१५ ख
वैशम्पाय़न उवाच:
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौवलः |
१६ क
वैशम्पाय़न उवाच:
द्वितीय़ेन रथेनैनमन्वय़ातां परन्तपम् ||
१६ ख
वैशम्पाय़न उवाच:
सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः |
१७ क
वैशम्पाय़न उवाच:
पृष्ठतोऽनुय़युः कृष्णं रथैरश्वैर्गजैरपि ||
१७ ख
वैशम्पाय़न उवाच:
तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः |
१८ क
वैशम्पाय़न उवाच:
गच्छतां घोषिणश्चित्राश्चारु वभ्राजिरे रथाः ||
१८ ख
वैशम्पाय़न उवाच:
संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् |
१९ क
वैशम्पाय़न उवाच:
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिय़ा ज्वलन् ||
१९ ख
वैशम्पाय़न उवाच:
ततः प्रय़ाते दाशार्हे प्रावाद्यन्तैकपुष्कराः |
२० क
वैशम्पाय़न उवाच:
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ||
२० ख
वैशम्पाय़न उवाच:
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः |
२१ क
वैशम्पाय़न उवाच:
परिवार्य रथं शौरेरगच्छन्त परन्तपाः ||
२१ ख
वैशम्पाय़न उवाच:
ततोऽन्ये वहुसाहस्रा विचित्राद्भुतवाससः |
२२ क
वैशम्पाय़न उवाच:
असिप्रासाय़ुधधराः कृष्णस्यासन्पुरःसराः ||
२२ ख
वैशम्पाय़न उवाच:
गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः |
२३ क
वैशम्पाय़न उवाच:
प्रय़ान्तमन्वय़ुर्वीरं दाशार्हमपराजितम् ||
२३ ख
वैशम्पाय़न उवाच:
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् |
२४ क
वैशम्पाय़न उवाच:
सवृद्धवालं सस्त्रीकं रथ्यागतमरिन्दमम् ||
२४ ख
वैशम्पाय़न उवाच:
वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः |
२५ क
वैशम्पाय़न उवाच:
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ||
२५ ख
वैशम्पाय़न उवाच:
सम्पूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः |
२६ क
वैशम्पाय़न उवाच:
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ||
२६ ख
वैशम्पाय़न उवाच:
ततः सभां समासाद्य केशवस्यानुय़ाय़िनः |
२७ क
वैशम्पाय़न उवाच:
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादय़न् ||
२७ ख
वैशम्पाय़न उवाच:
ततः सा समितिः सर्वा राज्ञाममिततेजसाम् |
२८ क
वैशम्पाय़न उवाच:
सम्प्राकम्पत हर्षेण कृष्णागमनकाङ्क्षय़ा ||
२८ ख
वैशम्पाय़न उवाच:
ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः |
२९ क
वैशम्पाय़न उवाच:
श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् ||
२९ ख
वैशम्पाय़न उवाच:
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् |
३० क
वैशम्पाय़न उवाच:
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ||
३० ख
वैशम्पाय़न उवाच:
नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा |
३१ क
वैशम्पाय़न उवाच:
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ||
३१ ख
वैशम्पाय़न उवाच:
पाणौ गृहीत्वा विदुरं सात्यकिं च महाय़शाः |
३२ क
वैशम्पाय़न उवाच:
ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादय़ञ्श्रिय़ा ||
३२ ख
वैशम्पाय़न उवाच:
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ |
३३ क
वैशम्पाय़न उवाच:
वृष्णय़ः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः ||
३३ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादय़स्ततः |
३४ क
वैशम्पाय़न उवाच:
आसनेभ्योऽचलन्सर्वे पूजय़न्तो जनार्दनम् ||
३४ ख
वैशम्पाय़न उवाच:
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः |
३५ क
वैशम्पाय़न उवाच:
सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महाय़शाः ||
३५ ख
वैशम्पाय़न उवाच:
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे |
३६ क
वैशम्पाय़न उवाच:
तानि राजसहस्राणि समुत्तस्थुः समन्ततः ||
३६ ख
वैशम्पाय़न उवाच:
आसनं सर्वतोभद्रं जाम्वूनदपरिष्कृतम् |
३७ क
वैशम्पाय़न उवाच:
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ||
३७ ख
वैशम्पाय़न उवाच:
स्मय़मानस्तु राजानं भीष्मद्रोणौ च माधवः |
३८ क
वैशम्पाय़न उवाच:
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावय़ः ||
३८ ख
वैशम्पाय़न उवाच:
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् |
३९ क
वैशम्पाय़न उवाच:
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ||
३९ ख
वैशम्पाय़न उवाच:
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः |
४० क
वैशम्पाय़न उवाच:
अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जय़ः ||
४० ख
वैशम्पाय़न उवाच:
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् |
४१ क
वैशम्पाय़न उवाच:
अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः ||
४१ ख
वैशम्पाय़न उवाच:
पार्थिवीं समितिं द्रष्टुमृषय़ोऽभ्यागता नृप |
४२ क
वैशम्पाय़न उवाच:
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूय़सा ||
४२ ख
वैशम्पाय़न उवाच:
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् |
४३ क
वैशम्पाय़न उवाच:
पूजा प्रय़ुज्यतामाशु मुनीनां भावितात्मनाम् ||
४३ ख
वैशम्पाय़न उवाच:
ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् |
४४ क
वैशम्पाय़न उवाच:
त्वरमाणस्ततो भृत्यानासनानीत्यचोदय़त् ||
४४ ख
वैशम्पाय़न उवाच:
आसनान्यथ मृष्टानि महान्ति विपुलानि च |
४५ क
वैशम्पाय़न उवाच:
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः ||
४५ ख
वैशम्पाय़न उवाच:
तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत |
४६ क
वैशम्पाय़न उवाच:
निषसादासने कृष्णो राजानश्च यथासनम् ||
४६ ख
वैशम्पाय़न उवाच:
दुःशासनः सात्यकय़े ददावासनमुत्तमम् |
४७ क
वैशम्पाय़न उवाच:
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे ||
४७ ख
वैशम्पाय़न उवाच:
अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ |
४८ क
वैशम्पाय़न उवाच:
एकासने महात्मानौ निषीदतुरमर्षणौ ||
४८ ख
वैशम्पाय़न उवाच:
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः |
४९ क
वैशम्पाय़न उवाच:
निषसादासने राजा सहपुत्रो विशां पते ||
४९ ख
वैशम्पाय़न उवाच:
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे |
५० क
वैशम्पाय़न उवाच:
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् ||
५० ख