श्वशुर उवाच:
वाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मय़ा |
४९ क
श्वशुर उवाच:
उपवासपरिश्रान्ता त्वं हि वान्धवनन्दिनी ||
४९ ख
स्नुषो उवाच:
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् |
५० क
स्नुषो उवाच:
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ||
५० ख
स्नुषो उवाच:
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः |
५१ क
स्नुषो उवाच:
तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ||
५१ ख
स्नुषो उवाच:
अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज |
५२ क
स्नुषो उवाच:
चिन्त्या ममेय़मिति वा सक्तूनादातुमर्हसि ||
५२ ख
श्वशुर उवाच:
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे |
५३ क
श्वशुर उवाच:
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ||
५३ ख
श्वशुर उवाच:
तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् |
५४ क
श्वशुर उवाच:
गणय़ित्वा महाभागे त्वं हि धर्मभृतां वरा ||
५४ ख
श्वशुर उवाच:
इत्युक्त्वा तानुपादाय़ सक्तून्प्रादाद्द्विजातय़े |
५५ क
श्वशुर उवाच:
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ||
५५ ख
श्वशुर उवाच:
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् |
५६ क
श्वशुर उवाच:
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ||
५६ ख
श्वशुर उवाच:
शुद्धेन तव दानेन न्याय़ोपात्तेन यत्नतः |
५७ क
श्वशुर उवाच:
यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ||
५७ ख
श्वशुर उवाच:
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः |
५८ क
श्वशुर उवाच:
गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ||
५८ ख
श्वशुर उवाच:
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः |
५९ क
श्वशुर उवाच:
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ||
५९ ख
श्वशुर उवाच:
व्रह्मर्षय़ो विमानस्था व्रह्मलोकगताश्च ये |
६० क
श्वशुर उवाच:
काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ||
६० ख
श्वशुर उवाच:
पितृलोकगताः सर्वे तारिताः पितरस्त्वय़ा |
६१ क
श्वशुर उवाच:
अनागताश्च वहवः सुवहूनि युगानि च ||
६१ ख
श्वशुर उवाच:
व्रह्मचर्येण यज्ञेन दानेन तपसा तथा |
६२ क
श्वशुर उवाच:
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ||
६२ ख
श्वशुर उवाच:
श्रद्धय़ा परय़ा यस्त्वं तपश्चरसि सुव्रत |
६३ क
श्वशुर उवाच:
तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ||
६३ ख
श्वशुर उवाच:
सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा |
६४ क
श्वशुर उवाच:
कृच्छ्रकाले ततः स्वर्गो जितोऽय़ं तव कर्मणा ||
६४ ख
श्वशुर उवाच:
क्षुधा निर्णुदति प्रज्ञां धर्म्यां वुद्धिं व्यपोहति |
६५ क
श्वशुर उवाच:
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ||
६५ ख
श्वशुर उवाच:
वुभुक्षां जय़ते यस्तु स स्वर्गं जय़ते ध्रुवम् |
६६ क
श्वशुर उवाच:
यदा दानरुचिर्भवति तदा धर्मो न सीदति ||
६६ ख
श्वशुर उवाच:
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च |
६७ क
श्वशुर उवाच:
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वय़ा ||
६७ ख
श्वशुर उवाच:
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् |
६८ क
श्वशुर उवाच:
कालः परतरो दानाच्छ्रद्धा चापि ततः परा ||
६८ ख
श्वशुर उवाच:
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते |
६९ क
श्वशुर उवाच:
स्वर्गार्गलं लोभवीजं रागगुप्तं दुरासदम् ||
६९ ख
श्वशुर उवाच:
तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रिय़ाः |
७० क
श्वशुर उवाच:
व्राह्मणास्तपसा युक्ता यथाशक्तिप्रदाय़िनः ||
७० ख
श्वशुर उवाच:
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च |
७१ क
श्वशुर उवाच:
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ||
७१ ख
श्वशुर उवाच:
रन्तिदेवो हि नृपतिरपः प्रादादकिञ्चनः |
७२ क
श्वशुर उवाच:
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ||
७२ ख
श्वशुर उवाच:
न धर्मः प्रीय़ते तात दानैर्दत्तैर्महाफलैः |
७३ क
श्वशुर उवाच:
न्याय़लव्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ||
७३ ख
श्वशुर उवाच:
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः |
७४ क
श्वशुर उवाच:
एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ||
७४ ख
श्वशुर उवाच:
आत्ममांसप्रदानेन शिविरौशीनरो नृपः |
७५ क
श्वशुर उवाच:
प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ||
७५ ख
श्वशुर उवाच:
विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् |
७६ क
श्वशुर उवाच:
न यज्ञैर्विविधैर्विप्र यथान्याय़ेन सञ्चितैः ||
७६ ख
श्वशुर उवाच:
क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति |
७७ क
श्वशुर उवाच:
न्याय़वृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ||
७७ ख
श्वशुर उवाच:
न राजसूय़ैर्वहुभिरिष्ट्वा विपुलदक्षिणैः |
७८ क
श्वशुर उवाच:
न चाश्वमेधैर्वहुभिः फलं सममिदं तव ||
७८ ख
श्वशुर उवाच:
सक्तुप्रस्थेन हि जितो व्रह्मलोकस्त्वय़ानघ |
७९ क
श्वशुर उवाच:
विरजो व्रह्मभवनं गच्छ विप्र यथेच्छकम् ||
७९ ख
श्वशुर उवाच:
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् |
८० क
श्वशुर उवाच:
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ||
८० ख
श्वशुर उवाच:
पावितो हि त्वय़ा देहो लोके कीर्तिः स्थिरा च ते |
८१ क
श्वशुर उवाच:
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ||
८१ ख
श्वशुर उवाच:
इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः |
८२ क
श्वशुर उवाच:
सभार्यः ससुतश्चापि सस्नुषश्च दिवं यय़ौ ||
८२ ख
श्वशुर उवाच:
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा |
८३ क
श्वशुर उवाच:
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो विलात् ||
८३ ख
श्वशुर उवाच:
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च |
८४ क
श्वशुर उवाच:
दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः |
८४ ख
श्वशुर उवाच:
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ||
८४ ग
श्वशुर उवाच:
तस्य सत्याभिसन्धस्य सूक्ष्मदानेन चैव ह |
८५ क
श्वशुर उवाच:
शरीरार्धं च मे विप्राः शातकुम्भमय़ं कृतम् |
८५ ख
श्वशुर उवाच:
पश्यतेदं सुविपुलं तपसा तस्य धीमतः ||
८५ ग
श्वशुर उवाच:
कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः |
८६ क
श्वशुर उवाच:
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ||
८६ ख
श्वशुर उवाच:
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः |
८७ क
श्वशुर उवाच:
आशय़ा परय़ा प्राप्तो न चाहं काञ्चनीकृतः ||
८७ ख
श्वशुर उवाच:
ततो मय़ोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः |
८८ क
श्वशुर उवाच:
सक्तुप्रस्थेन यज्ञोऽय़ं संमितो नेति सर्वथा ||
८८ ख
श्वशुर उवाच:
सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः |
८९ क
श्वशुर उवाच:
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ||
८९ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा |
९० क
वैशम्पाय़न उवाच:
जगामादर्शनं राजन्विप्रास्ते च यय़ुर्गृहान् ||
९० ख
वैशम्पाय़न उवाच:
एतत्ते सर्वमाख्यातं मय़ा परपुरञ्जय़ |
९१ क
वैशम्पाय़न उवाच:
यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ||
९१ ख
वैशम्पाय़न उवाच:
न विस्मय़स्ते नृपते यज्ञे कार्यः कथञ्चन |
९२ क
वैशम्पाय़न उवाच:
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ||
९२ ख
वैशम्पाय़न उवाच:
अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम् |
९३ क
वैशम्पाय़न उवाच:
तपो दमश्च सत्यं च दानं चेति समं मतम् ||
९३ ख