chevron_left उद्योग पर्व अध्याय ९३
वैशम्पाय़न उवाच:
ते सत्यमाहुर्धर्मं च न्याय़्यं च भरतर्षभ ||
५० ख
वैशम्पाय़न उवाच:
शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर |
५१ क
वैशम्पाय़न उवाच:
व्रुवन्तु वा महीपालाः सभाय़ां ये समासते |
५१ ख
वैशम्पाय़न उवाच:
धर्मार्थौ सम्प्रधार्यैव यदि सत्यं व्रवीम्यहम् ||
५१ ग
वैशम्पाय़न उवाच:
प्रमुञ्चेमान्मृत्युपाशात्क्षत्रिय़ान्क्षत्रिय़र्षभ |
५२ क
वैशम्पाय़न उवाच:
प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ||
५२ ख
वैशम्पाय़न उवाच:
पित्र्यं तेभ्यः प्रदाय़ांशं पाण्डवेभ्यो यथोचितम् |
५३ क
वैशम्पाय़न उवाच:
ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परन्तप ||
५३ ख
वैशम्पाय़न उवाच:
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा |
५४ क
वैशम्पाय़न उवाच:
सपुत्रे त्वय़ि वृत्तिं च वर्तते यां नराधिप ||
५४ ख
वैशम्पाय़न उवाच:
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः |
५५ क
वैशम्पाय़न उवाच:
इन्द्रप्रस्थं त्वय़ैवासौ सपुत्रेण विवासितः ||
५५ ख
वैशम्पाय़न उवाच:
स तत्र निवसन्सर्वान्वशमानीय़ पार्थिवान् |
५६ क
वैशम्पाय़न उवाच:
त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ||
५६ ख
वैशम्पाय़न उवाच:
तस्यैवं वर्तमानस्य सौवलेन जिहीर्षता |
५७ क
वैशम्पाय़न उवाच:
राष्ट्राणि धनधान्यं च प्रय़ुक्तः परमोपधिः ||
५७ ख
वैशम्पाय़न उवाच:
स तामवस्थां सम्प्राप्य कृष्णां प्रेक्ष्य सभागताम् |
५८ क
वैशम्पाय़न उवाच:
क्षत्रधर्मादमेय़ात्मा नाकम्पत युधिष्ठिरः ||
५८ ख
वैशम्पाय़न उवाच:
अहं तु तव तेषां च श्रेय़ इच्छामि भारत |
५९ क
वैशम्पाय़न उवाच:
धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ||
५९ ख
वैशम्पाय़न उवाच:
अनर्थमर्थं मन्वाना अर्थं वानर्थमात्मनः |
६० क
वैशम्पाय़न उवाच:
लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशां पते ||
६० ख
वैशम्पाय़न उवाच:
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः |
६१ क
वैशम्पाय़न उवाच:
यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परन्तप ||
६१ ख
वैशम्पाय़न उवाच:
तद्वाक्यं पार्थिवाः सर्वे हृदय़ैः समपूजय़न् |
६२ क
वैशम्पाय़न उवाच:
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ||
६२ ख